________________
११६
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ५७.४५०
I
अर्ककीर्तिः परां प्राप्य चक्रवर्तिश्रियं क्रमात् । चकार विपुलं राज्यं बिडौजास्त्रिदिवे यथा ॥ ४५० ॥ प्रालेयगिरिकूटाभं 'चित्रकूटविराजितम् । प्रासादशिखरारूढः पश्यति स्म घनं नृपः ॥ ४५१ ॥ यावल्लिखति तं भूमौ घनं खटिकया घनम् । विलीनं तावदालोक्य वैराग्यमगमत् प्रभुः ॥ ४५२ ॥ यशोमतीसुतं ज्येष्ठं राज्ययोग्यं महागुणम् । विमलोपपदं कीर्तिं पुत्रमाहूतवानयम् ॥ ४५३ ॥ · सामन्तसचिवाध्यक्षं सुतायास्मै यशस्विने । अर्ककीर्तिर्निजं सर्वं महाराज्यपदं ददौ ॥ ४५४ ॥ आपृच्छ्य सकलं लोकं महावैराग्यसंगतः । अर्ककीर्तिः प्रवत्राज शीलगुप्तान्तिके मुदा ॥ ४५५ ॥ उग्रं तपो विधायाशु सामान्यजनदुष्करम् । सल्लेखनां चकारायं मासमेकायुषि स्थिते ॥ ४५६ ॥ आराधनां समाराध्य चतुरङ्गां विधानतः । अर्ककीर्तिमुनिः कालं चकार विमलाशयः ॥ ४५७ ॥ सुरदेवीकृतानन्दे नाना तूर्य मनोहरे । द्वाविंशतिसमुद्रायुजतोऽयममरोडच्युते ।। ४५८ ॥ पूर्वोक्तपूतिगन्धाऽपि श्रावकव्रतभूषिता । उपोष्य रोहिणीं भद्रा चक्रे कालं समाधिना ॥ ४५९ ॥ पल्योपमानि भुञ्जाना सुखं पञ्चदशानि सः । अच्युतस्यैव देवस्य महादेवी बभूव च ॥ ४६० ॥ भुक्त्वा तया समं भोगान् मनःसंकल्पकल्पितान् । कालगोचरतां प्राप्य त्वमुत्पन्नोऽसि भूतले ॥ ४६१ ॥ अत्रैव भरतक्षेत्रे जम्बूद्वीपसमन्विते । कुरुजाङ्गलदेशोऽस्ति हस्तिनागपुरं परम् ॥ ४६२ ॥ वीतशोकनरेन्द्रस्य चैतन्नगरवासिनः । भार्या विद्युत्प्रभा चासीद् विद्युत्पुञ्जसमप्रभा ॥ ४६३ ॥ '' अनयो रूपसंपन्नः पुत्रजन्माभिलाषिणोः । जातोऽशोकोऽधुना राजन् पुत्रस्त्वं कुलनन्दनः ॥४६४॥ पूतिगन्धाचरी देवी या तवासीन्मनः प्रिया । सा स्वर्गाद्गलिता भूमिमवतीर्णाऽऽयुषः क्षये ॥ ४६५ ॥ श्रीमदङ्गाख्यदेशस्थ चम्पायां पुरि रूपिणी । मघोनस्तनया जाता श्रीमत्यां रोहिणी नृप ॥४६६ ॥ रोहिणी त्वत्समीपस्था तिष्ठति प्रीतमानसा । भूयोऽपि त्वन्महादेवी जाता प्राणगरीयसी ॥४६७॥ रूपकुम्भमुनेरस्य चारणस्य महात्मनः । निशम्य वचनं सत्यमशोको निजगावमुम् ॥ ४६८ ॥ बहूदितेन किं नाथ विधाय मदनुग्रहम् । पुत्राणां च सुतानां च मे निरूप भवान्तरम् ॥ ४६९॥ अशोकवचनं श्रुत्वा रूप्यकुम्भो जगाविति । अवधिज्ञाननेत्रेण पुत्र-पुत्रीभवान्तरम् ॥ ४७० ॥ अत्र जम्बूमति द्वीपे वास्ये भरतनामनि । शूरसेनजनान्तोऽस्ति विशिष्टजनसंकुलः ॥ ४७१ ॥ उत्तरां मथुरां शास्ति तदानीं श्रीधरो नृपः । विमला तन्महादेवी कमला तत्सुता शुभा ॥ ४७२ ॥ अग्रभोजी नृपस्यास्य दरिद्रकुलसंभवः । अग्निशर्माऽभवद् विप्रस्तद्भार्या तिलका" परा ॥ ४७३ ॥ तयोः सप्त सुता जाताः प्रेमसंबन्धचेतसोः । अग्निभूतिर्भवेदाद्यः श्रीभूतिरपरो मतः ॥ ४७४ ॥ वायुभूतिर्विशाखादिभूतिर्ज्ञेयो परोऽपि वा । विश्वभूतिर्महाभूतिः सुभूतिरपि च क्रमात् ॥ ४७५ ॥ देवस्मृतिपरास्ते च नानाशास्त्रविचक्षणाः । दारिद्रोपहताः पुंसो ययुः पाटलिपुत्रकम् ॥ ४७६ ॥ सुप्रतिष्ठो नृपस्तत्र स्वरूपा तत्प्रियाऽभवत् । सिंहध्वनिर्महासत्त्वः पुत्रः सिंहरथोऽनयोः ॥ ४७७ ॥ विगतोपपदो शोकस्तत्पुरे भूपतिः परः । रूपश्रीरस्य भार्या च तत्सुता कमलाऽभवत् ॥ ४७८ ॥ पितृभ्यां कमला चार्वी दत्ता सिंहरथाय सा । दृष्ट्वा " तयोर्विवाहं ते चिन्तयन्ति द्विजाः पुनः ॥ ४७९ ॥ अस्माभिः पापसंयुक्तैर्न कृतः पूर्वजन्मनि । धर्मो दयापरो जैनः सर्वदुःखविनाशनः ॥ ४८० ॥ भवन्ति धर्मयुक्तानां पुरुषाणां विभूतयः । महादुःखानि जायन्ते महापापविधायिनाम् ॥ ४८१ ॥
25
10
20
30
1 फ चित्रकूटं 2 फज यातो. 3 फ देशस्थ. 4 फ भरते. 5 पज नृपः 6 प प्रीतिमानसा. 7 [ रूप्यकुम्भ° ]. 8 फ कमला तत्सुता शुभा. 9 फ omits No 472. 10 पज मिलका. 11फ दृष्ट्वानयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org