________________
-५७. ४४९ ]
अशोकरोहिणीकथानकम् भूमण्डलसुखस्योच्चैः स्मृत्वा निःसृत्य तत्पुरात् । अञ्जनोपपदं प्राप तदाऽयं गिरिपत्तनम् ॥४१७॥ तत्पत्तनान्तिके दृष्ट्वा जनसंघमसौ क्षणम् । विमानानि च दिव्यानि तस्थौ मुदितमानसः ॥४१८॥ अत्रैव नगरे राजा महासत्त्वप्रभञ्जनः । आसीत् प्रभञ्जनोऽस्यापि भार्या नीलाञ्जना शुभा ॥ ४१९॥ अस्या दुहितरोऽष्टौ च महारूपसमन्विताः । मुक्ताभदन्तसंताना बभूवुर्यौवनान्विताः ॥ ४२० ॥ प्रथमा मदना प्रोक्ता कनका विपुला परा । तथा वेगवती कन्या मालान्ता कनकादिका ॥४२१॥ विद्युत्प्रभा प्रभा ज्ञेया तथा' जयमतिः परा । सुकान्ता चेति निर्दिष्टाः कान्ताखिलशरीरिकाः॥४२२॥ ततो लोकसमूहेन राजोद्यानवनं श्रितः । भूयो निवर्तमानः सन् नगरं गन्तुमुद्यतः ॥ ४२३ ॥ अञ्जनादिगिरिस्तुङ्गो राजहस्ती बलान्वितः । आलानस्तम्भमाचूर्ण्य रोहकं हतवानयम् ॥४२४॥ अर्ककीर्तिस्ततो दृष्ट्वा ध्वंसयन्तं जनं गजम् । सुवर्णमणिसंनद्धाद् विमानादुत्ततार सः॥४२५॥ कन्याः स्वपृष्टतः कृत्वा हस्तिनोऽग्रे व्यवस्थितः। राजा परिजनोपेतः पश्यति स्म तकं नरम् ॥४२६॥ 10 उत्क्षेपकरणेनाशु दत्त्वा पादौ स दन्तयोः। हत्वा कुम्भौ च हस्ताभ्यां हस्तिनं दान्तवानिमम् ॥४२७॥ द्वात्रिंशत्करणैः शीघ्रं दमयित्वा स कुञ्जरम् । अर्ककीर्तिस्तमारूढो विवेश नगरं मुदा ॥ ४२८॥ अर्ककीर्तिं समालोक्य गजारूढं नराधिपः । अष्टौ कन्या ददावस्मै नैमित्तिकनिदेशितः ॥४२९॥ ततस्ताभिः समं भोगान् भुक्त्वा स्तोकदिनानि च । वीतशोकपुरे रम्ये वीतशोकजनाञ्चिते ॥४३०॥ मित्रं च मेघसेनाख्यं गृहीत्वा प्रीतमानसः । अर्ककीर्तिर्विवेशायं तदानीं पुण्डरीकिणीम् ॥४३१॥ 15 तदा तौ द्वावपि क्षिप्रं नगरद्वारवाह्यतः । क्रमेलकखरान् भृत्वा तस्थतुर्भाण्डसंगतान् ॥ ४३२ ॥ कर्षणं गन्धयुक्तिं च ताम्बूलच्छदविक्रयम् । अक्षयूतं च रत्नानि चकारायं स तत्पुरे ॥४३३॥ गणिकावेषमादाय नाटिकानर्तनं परम् । पितुरग्रे चकारायं लोकविस्मयकारणम् ॥ ४३४ ॥ एवमादीनि कार्याणि कौतुकानि मनस्विनाम् । तत्पुरे विदितश्चके स्वविज्ञानं प्रकाशयन् ॥४३५॥ चतुरङ्गमहासैन्यं विकुर्वणतया तदा । जग्राह गोकुलं शीघ्रं जनकस्य रणाय सः ॥ ४३६॥ 20 गृहीतं गोकुलं ज्ञात्वा भूपतिः क्रोधसंगतः । विधातुं तत्समं युद्धं निर्जगाम पुरादरम् ॥ ४३७ ॥ ततोऽश्वोऽश्वेन संलग्नो गजोऽपि करिणा सह । पदिकः पत्तिना सार्धं रथोऽपि रथिना समम्॥४३८॥ क्वचिद्गजो हतोऽन्येन क्वचिदश्वोऽपरेण च । चूर्णितः स्यन्दनोऽन्येन पदिकोऽपि पदातिना ॥४३९॥ एवं महति संग्रामे प्रवृत्ते जनसंक्षये । नष्टं भीतैः स्थितं धीरैः स्पष्टं दृष्टं सुरासुरैः ॥४४०॥ अथ चापं समाकृष्य तदानीं जनकान्तिके । अर्ककीर्तिर्मुमोचाशु स्वनामाङ्कितमार्गणम् ॥ ४४१॥ अर्ककीर्तिविमुक्तोऽयं कङ्कपक्षो महानपि । पपात जनकोत्सङ्गे मन्दमन्दगतिक्रियः ॥ ४४२ ॥ दृष्ट्वा बाणं निजोत्सङ्गे स्वपुत्राक्षरसंगतम् । बभूव भूपतिः क्षिप्रं तोषपूरितमानसः ॥४४३॥ उत्तीर्य वाहनाच्छीघ्रं त्यक्त्वा युद्धकदम्बकौ । सन्मुखं प्राप्य तोषेण सर्वाङ्गीणेन सस्पृहम् ॥४४४॥ बाढं कण्ठे परिष्वज्य स्नेहनिर्भरमानसौ । पितापुत्रौ कलस्वानौ सुतरामालिलिङ्गतुः॥४४५॥ यथा खं कुशलं पृष्ट्वा विधायाल्पकथामपि । दत्त्वा यथेप्सितं दानं याचकानां सुतागमे ॥४४६ ॥ 30 अर्ककीर्तिसुतायाशु विजयाय महात्मने । ददौ 'निजश्रियं सर्वां भूपतिर्भूपसाक्षिकम् ॥ ४४७॥ बाह्यमाभ्यन्तरं संगं हित्वा सर्व विशुद्धधीः । जग्राह श्रीधराभ्याशे शुभ्रकीर्तिनृपस्तपः ॥ ४४८॥ विमलोपपदः कीर्तिः तपस्तत्वाऽतिदुष्करम् । निहत्याशेषकर्माणि निर्वाणं गतवानयम् ॥ ४४९॥
-
1फ नाथा. 2 फ °चूारोहकं, परोहक-हस्तिपकम्. 3 फज अयंकीर्ति. 4 पज दत्तवानिमम्. 5 पज युगलम् , फ युगलमिदम्. 6 ज ताम्बूलच्छिद. 7 फ निजश्रियां. 8 पज युग्मम्, फ युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org