________________
११४
हरिषेणाचार्यकृते बृहत्कथाकोशे
[५७.३८९तथा चोक्तम्स्थित्वा भ्राम्यदनुक्रमेण युगपत्सप्तक्रमेणादिमं - त्रीणि त्रीणि पदान्यतीत्य पुरतोऽप्येकैकमेवं हि षट् । तच्छिद्रभ्रमदर्यरन्तरशिरोजान्तर्गतो तर्पणे
मध्ये चेति य एष विध्यति नरः स्याचन्द्रकाख्यो व्यधः ॥ ३८९ ॥' अथ देशिकरूपेण तत्रत्यं कृतकौतुकम् । अर्ककीर्तिकुमारं च प्राहान्यः कश्चिदादरात् ॥ ३९० ॥ विद्यते चेत्तवाभ्यासो धनुर्वेदस्य शोभनः । तदा चन्द्रकवेधस्य कुरु वेधं महामते ॥ ३९१॥ तदा तद्वाक्यतः सद्यो धनुर्मुक्तशरेण सः । विद्धवांश्चान्द्रकं वेधमर्ककीर्तिः कलखनः ॥ ३९२ ॥
अर्ककीर्तिः कृतानन्दस्तत्पित्रा विनिवेदिताः । जयमत्यादिकाः कन्यास्तदष्टौ परिणीतवान् ॥३९३॥ 10 ताभिर्देवीसमानाभी रूपकान्तिविभूतिभिः । अर्ककीर्तिः प्रभुञ्जानो भोगांस्तत्र वितिष्ठते ॥ ३९४ ॥
अर्ककीर्तिः समादाय चोपवासं जिनार्चनम् । विधायामलयागस्थे सुष्वाप जिनमन्दिरे ॥ ३९५ ॥ चित्रलेखा विलोक्येमं सुप्तं विद्याधरी तदा । जहार वेगतः खेन तद्रूपकृतकौतुका ॥ ३९६ ॥ एषा विद्याधरी नीत्वा विजयानगोपरि । मुमोच सुखसुप्तं तं सिद्धकूटजिनालये ॥ ३९७ ॥
ततो निद्राक्षये जाते विबुद्धः सन् समुत्थितः। अर्ककीर्तिस्तदाऽपश्यत् तत्रत्यं जिनमन्दिरम् ॥३९८॥ 15 यावत् तद्गर्भमासाद्य चार्ककीर्तिः प्रतिष्ठते । तावद्वज्रकपाटानि स्वयमुद्घाटितान्यरम् ॥ ३९९ ॥
अकृत्रिमामिमामत्र दृष्ट्वाऽसौ प्रतियातनाम् । स्तुत्वा स्तुतिशतैर्भक्त्या निविष्टो मण्डप पुनः॥४००॥ एवं विलोक्य तत्रत्यः खेटो विकटदन्तकः । तद्रक्षपालकः प्राप्य जगादेति ससंभ्रमम् ॥ ४०१॥ यदर्थं त्वं समानीतो विद्याधर्याऽत्र बालकः । आकर्णयैकचित्तेन तमर्थ कथयामि ते ॥ ४०२॥ विजयानगेऽत्रैव पुरमभ्रपुरं पृथु । खेटः पवनवेगोऽस्य भार्या गगनवल्लभा ॥ ४०३॥ 20 नीलोत्पलसमानाक्षी प्रवालदशनच्छदा । वीतशोका कलाधारा वीतशोका सुताऽनयोः ॥ ४०४ ॥ नमित्तिकेन पृष्टेन तन्निमित्तं नरेशिना । आदेशोऽयं महादिष्टा सभाजनपुरस्सरम् ॥ ४०५ ॥ यस्मिन् समागते स्वामिन् सिद्धकूटजिनालये । स्वयं वज्रकपाटानि यास्यन्त्युद्धाटतामरम् ॥४०६॥ लक्षणान्वितदेहाया नितान्तं रूपसंपदः । स भर्ता ते तनूजाया भविष्यति गुणाकरः ॥ ४०७॥
नैमित्तिकवचः श्रुत्वा सत्यभूतं महामते । अनेन कारणेनात्र स्थापितोऽहं नरेशिना ॥ ४०८॥ 25 नैमित्तिकवचः सत्यं सर्वं जातं तु सांप्रतम् । तस्मादुत्तिष्ठ भद्र त्वं तद्गृहं याहि मत्समम् ॥४०९॥' तद्वाक्यतः कुमारोऽपि तोषकण्टकिताङ्गकः । बभूव तत्समं यातः शीघ्रमभ्रपुरान्तिकम् ॥४१०॥ उद्याने स्थापयित्वाऽमुं नानाकुसुमवासिते । स्वनाथान्तिकमासाद्य स तद्वाता जगाविति ॥४११॥ त्वत्सुतावल्लभो नाथ रूपराजितविग्रहः । त्वत्पुरोद्यानमासाद्य मयाऽऽनीतोऽवतिष्ठते ॥४१२॥
श्रुत्वा तद्वचनं राजा तोषपूरितमानसः । पूजयामास तं दानैः खेटं विकटदंष्ट्रकम् ॥ ४१३॥ 30 चातुरङ्गेन सैन्येन जयमङ्गलनिस्वनैः । अर्ककीर्तिर्विवेशेदं तदानीं श्वाशुरं गृहम् ॥ ४१४ ॥ विस्तीर्णा वातवेगेन वीतशोकां स्वकन्यकाम् । अर्ककीर्तिरुवाहेमां विभूत्या विधिपूर्वकम् ॥४१५॥ एकत्रिंशन्महाकन्याः परिणीतास्तथा पराः । पञ्चवर्षाण्यसावास्त भुञ्जानः खेटसंपदम् ॥ ४१६ ॥
1 Here all the Mss. read this verse alike. For the other readings and our suggestions see p. 63 above, No. 43. 7. 2 फज रूपकान्तिमभूतिभिः. 3 प ससंभ्रमः. 4 [बालक]. 5 प महादिष्टा, [ममादिष्टः]. 6प यास्यन्त्युद्धाटितामरम्. 7 पज कुलकम्, फ कुलकमिदम्. 8 फज वितिष्ठते. 9 [वितीर्णा ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org