________________
-५७. ३८८ ]
अशोकरोहिणीकथानकम्
११३
5
विमलोपपदः कीर्तिः कीर्तिशुभ्रीकृतावनिः । अस्यां बभूव भूपालः श्रीमती तत्प्रिया प्रिया ॥ ३५७ ॥ अनयो रूपसंपन्नः सर्वलोकमनोहरः । अर्ककीर्तिः सुतो जातः पूतिगन्धचरः सुरः ॥ ३५८ ॥ मेघसेनोऽभवत् तस्य सखा प्राणप्रियस्तराम् । उपाध्यायस्य तौ बालौ श्रुतकीर्तेः समर्पितौ ॥ ३५९ ॥ कलाविज्ञानसंपन्नौ शस्त्रशास्त्रकृतश्रमौ । बभूवतुस्तकौ शीघ्रं श्रुतसागरपारगौ ॥ ३६० ॥ उत्तरस्यां पुरि श्रेष्ठी मथुरायां महाधनः । नाम्ना सागरदत्तोऽभूत् सागरं मणिभिर्जयन् ॥ ३६१ ॥ भार्या जयमतिस्तस्य रूपराजितविग्रहा । कन्दोदृपत्रसन्नेत्रा तस्याः पुत्रः सुमन्दिरः ॥ ३६२ ॥ दक्षिणस्यां पुरि श्रीमान् मथुरायां जनप्रियः । नन्दिमित्रोऽभवच्छ्रेष्ठी धनदत्ताऽस्य गेहिनी ॥३६३॥ सुशीला - सुमती कन्ये गुणानां मन्दिराय च । पितृभ्यां विधिना तस्मै विस्तीर्णे परमद्युती ॥ ३६४ ॥ मेघसेनोऽर्ककीर्तिश्च विवाहसमये तयोः । विहरन्तौ वयस्यौ तौ दक्षिणां मथुरामितौ ।। ३६५ ॥ अर्ककीर्तिरि कन्ये दृष्ट्वा विस्मितमानसः । गृहीते मेघसेनेन तन्मतेन करेण ते ॥ ३६६ ॥ आदाय कन्यके यावन् मेघसेनो व्रजत्ययम् । तावत् पौरजनेनेमे गृहीते तत्करादरम् ॥ ३६७ ॥ ततस्तैः श्रेष्ठिभिः प्राप्य त्वरितं पुण्डरीकिणीम् । वार्ता विमलकीर्तेः सा भूभुजः कथिताऽखिला ॥ ३६८ ॥ निशम्य तद्वचो दीनं भूभुजा रोषमीयुषा । ततस्तौ द्वावपि क्षिप्रं विषयादपसारितौ ॥ ३६९ ॥ ततस्तौ शोकतः किंचिन् म्लानवक्रसरोरुहौ । वीतशोकपुरं प्राप्तौ पताकावलिराजितम् ॥ ३७० ॥ तत्पुरे नीति संपन्नो राजा विमलवाहनः । विमलश्रीः प्रिया चास्य तरां विमलमानसा ॥ ३७१ ॥ s अनयोरूपसंपन्नाश्चाष्टौ दुहितरोऽभवन् । विनयाचारसंयुक्ता' नामानीमानि बिभ्रति ॥ ३७२ ॥ आद्या जयमतिस्तासां सुकान्ता कान्तविग्रहा । कनकोपपदा माला सुप्रभा सुमतिः परा || ३७३ || सुत्रता सुव्रतानन्दा विमला विमलप्रभा । कलाविज्ञानसंपन्ना रतिरूपसमप्रभा ॥ ३७४ ॥ नैमित्तिकेन चादिष्टममोधवचनेन हि । जयमत्याः स्वरूपाया जयमत्या महाश्रियः ॥ ३७५ ॥ यथा चन्द्रकवेधस्य वेधं साधु करिष्यति । सको भर्ता महाराज जयमत्या भविष्यति || ३७६° || 20 ततो भूपतिना सर्वे तदर्थं राजपुत्रकाः । आहूताः खपुरं हृष्टाः समायातास्तदर्थिनः ॥ ३७७ ॥ ततश्चन्द्रकवेधस्य वेधं नैकोऽपि भूपतिः । कर्तुं शक्नोति तन्मध्ये तद्रूपहृतमानसः ॥ ३७८ ॥ अर्ककीर्तिः सहानेन मेघसेनेन चागतः । पश्यतीमं प्रहृष्टात्मा वेधं चन्द्रकपूर्वकम् ॥ ३७९ ॥ अध्यासितागमैः प्राज्ञैर्लोकविख्यातकीर्तिभिः । वदामि चान्द्रकं वेधं कथितो यो महात्मभिः ॥ ३८० ॥ प्रथमं स्थाप्यते स्तम्भस्तदग्रे निशि तारकम् । कुलालचक्रवच्चक्रं वेगतो भ्रमदुज्वलम् ॥ ३८१ ॥ 3 तस्योपरि नरो भ्राम्यन् वैशाखकरणान्वितः । शरं धनुषि संयोज्य परयलक्ष्यं वितिष्ठते ॥ ३८२ ॥ अतः सप्तपदान्याशु प्रथमस्य युगस्य सः । संप्राप्य भ्रमणं चक्रे कुलालारिलघुत्वतः ॥ ३८३ || भूयस्त्रीणि पुनस्त्रीणि पदानि प्राप्य वेगतः । युगानि सप्त जायन्ते दृष्टानि" कुशलैर्नरैः ॥ ३८४ ॥ सप्तमस्य युगस्यापि गत्वा त्रीणि पदानि च । जायते चाष्टमस्तम्भो मानदण्ड इव क्षितेः ॥ ३८५ ॥ लम्बमानाऽत्र" यत्नेन वालबद्धा कपर्दिका । तदन्तरे भ्रमचक्रं सितनेमि च तिष्ठते ॥ ३८६ ॥ ३० स ना लघुत्वयोगेन भ्राम्यचकोपरि स्थितः । तदा सप्तयुगान् गत्वा चक्रबद्धे चलत्यपि ॥ ३८७॥ एवं सति शरं मुक्त्वा तद्वाले वेधमागते । इमं चन्द्रकवेधं हि निगदन्ति मनीषिणः ॥ ३८८ ॥
1
13
1 ज मधुरायां 2 ज मधुरायां 3 [ वितीर्णे ]. 4 फ भवेत् 5फ 'संयुक्तः 6 पज कुलकम्, फ कुलकमिदम्. 7 फ वेधनं कोपि. 8फ ददामि 9 फ कुलालारिलघुत्वतः 10 फ omits 383. 11 फ पृष्टानि; some letters lost in फ. 12 पज लम्बमानो, 13 पज कुलकम् फ कुलकमिदम्.
बृ० को ० १५
Jain Education International
For Private & Personal Use Only
10
www.jainelibrary.org