________________
११२
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ५७. ३३२प्राप्य जन्मार्चनीयोऽसौ वन्दनीयोऽपि सर्वदा । सर्वदुःखक्षयं कृत्वा पश्चात् सिद्धिं प्रयाति वै ३३२ सम्यक्त्वं जिनधर्मेण पूतिगन्धादिवाहनः । रोहिण्यामुपवासं च जग्राह जिनवाक्यतः ॥ ३३३॥ अणुव्रतानि पश्चापि त्रिभिः सह गुणवतैः । शिक्षाव्रतानि चत्वारि जग्राहासौ जिनान्तिके ॥३३४॥
सम्यक्त्वादिकसामर्थ्यात् पूतिगन्धादिवाहनः । सुगन्धिवाहनो जातो धर्मतः किं न जायते ॥३३५॥ 5 पालयित्वा स जैनेन्द्रं धर्म मासैकजीवितः । राज्यं श्रीविजयाख्याय सुताय प्रददौ निजम् ॥३३६॥
आराध्याराधनां सारां पूतिगन्धश्चतुर्विधाम् । कालं श्रावकधर्मेण चकार स्थिरमानसः ॥ ३३७॥ देवदुन्दुभिनिर्घोषे नाके प्राणतनामनि । जातो महर्द्धिको देवो विंशत्यब्धिसमस्थितिः ॥ ३३८ ॥ तत्रत्योत्पादशय्यायां शोभनायामुदारधीः । हारकुण्डलदीप्ताङ्गो दध्याविति महावधिः ॥ ३३९॥
अविचिन्त्यममानुषं वपुः पुनरालोक्य मुखं समाददे । 'शयनीयतलादलंकृतं समपश्यद् वपुरुत्तमं क्षणात् ॥ ३४० ॥ किमिदं व गतोऽस्मि को भवः कुत एतन्मम शं निरञ्जनम् । कतमो हि जनोऽयमुन्मुखो रमणीयः कतमोऽयमाश्रयः ॥ ३४१॥ प्रतिबुद्ध्य दिवं दिवौकसामुपचारैरुचितानुवर्तनैः । मणिभूषणरश्मिसंभवा सुरजन्मस्मृतिरभ्यजायत ॥ ३४२ ॥ अभिषेकमहागृहं ययौ सुरसेनापरिवारितस्ततः । अभिषिच्य विधानतः सुरास्तमलंकारगृहं समानयन् ॥ ३४३ ॥ मणिभूषणरत्नरश्मिदीप्तः कृतरत्नधुतिपट्टकेन सः। पुनरप्यभिषेकसेककल्पप्रचलचामरसीकरं तराम् ॥ ३४४ ॥ उपतिष्ठति भूरिनिखनो जयशब्दः सहदेव दिग्मुखे । प्रहतं सुरतूर्यमेकतः सुरनादेन नभःस्पृशा सह ॥ ३४५ ॥ व्यवसायसभागृहे स्थितं विकसद्रत्नशिखासमस्थले । उपगम्य सुरा व्यजिज्ञपन्नचितानि प्रथमं प्रणामतः ॥ ३४६ ॥ प्रथमं जिनराजपूजनं बलसामग्रिविलोकनं ततः ।
कुरु नाटकदर्शनं तु पश्चात् सुरदेवीललितानि मानय ॥ ३४७॥" 28 पूतिगन्धचरो वीक्ष्य देवान् स्वपुरतः स्थितान् । भूयोऽपि चिन्तयामास मुदा स्तुतिविधायिनः॥३४८॥ किं वा दत्तं मया पूर्व किं ध्यातं किं तपः कृतम् । येनाहं कृतपुण्योऽस्मिन्नुत्पन्नो देवमन्दिरे ॥३४९॥ दृष्ट्वा पूर्वभवं सर्वमवधिज्ञानलोचनात् । अयं स्तौति जिनान् सर्वान् सर्वज्ञान् सर्वदर्शिनः ॥३५०॥ भूयोऽवदद् विमानस्थः कृत्वा शिरसि चाञ्जलिम् । नमोऽस्तु गुरवे तस्मै येनाहं ग्राहितो वृषम्॥३५१॥
समस्तवन्दनीयोऽसौ पूजनीयोऽस्तु नित्यशः । यत्प्रसादेन चोत्पन्नो देवलोकेऽहमुत्तमे ॥३५२॥ a मनोऽभिवाञ्छितान् भोगान् देवीभिः सह शोभनान् । पूतिगन्धचरो देवो भुञ्जानो व्यवतिष्ठते॥३५३॥ पूतिगन्धचरस्यास्य पुरस्यामिततेजसः । उत्पत्तिस्थानकं वच्मि सांप्रतं साधुसंमतम् ॥ ३५४ ॥ अत्र जम्बूमति द्वीपे विदेहे पूर्वनामनि । विषये पुष्कलावत्यां नगरी पुण्डरीकिणी ॥ ३५५ ॥ नवयोजनविष्कम्भा दैर्ध्या द्वादशयोजना । समस्तधनसंपन्ना विद्यते प्रथिता भुवि ॥ ३५६ ॥'
1 पज कुलकम् , फ कुलकमिदम्. 2 फ दशनीय. 3 [सहसैव]. 4 फ omits No. 345. 5 फज विजिज्ञपन्. 6 पज कुलकम् , फ कुलकमिदम्. 7 पज चतुष्कलकम्, फ चतुष्कलकमिदम्. [दाद् ]. 9 प युग्मम् , ज युगलम् , फ युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org