________________
-५७. ३३१] अशोकरोहिणीकथानकम्
१११ तेनास्माकं महाराज प्रस्थितानां जयो रिपोः । महामुनिमहामार्गे शकुनोऽयं भविष्यति ॥ २९९॥ पुनानस्य जगत्सर्वं हतकोपादिवैरिणः । दर्शनादस्य नः साधोः कार्यसिद्धिर्भविष्यति ॥ ३०० ॥ अस्य संदर्शनात् साधोरस्माकं मगधाधिपः । त्रिलोकसुन्दरं नागं प्रभाते चानयिष्यति ॥३०॥ विश्वदेवद्विजस्येदं निशम्य वचनं नृपः । तदानीं मौनमासाद्य तस्थौ मुदितमानसः ॥ ३०२॥ अथान्यदिवसे जाते मगधाधिपतिर्गजम् । त्रिलोकसारमादाय प्राभृतं चाययौ विभुम् ॥ ३०३॥5 सोमप्रभोऽपि तं भक्त्या पूजयित्वा गजान्वितः । विवेश स्वपुरं सोऽपि ससैन्यो निजसंपदा ॥३०४॥ पूर्ववैरानुबन्धेन सोमशर्माऽपि तं मुनिम् । प्रतिमास्थं निहत्याशु खड्गधेन्वाऽगमत् पुरम् ॥३०५॥ ततः प्रभातवेलायां सोमदत्तमहामुनिम् । ज्ञात्वा सोमप्रभो रुष्टो निहतं सोमशर्मणा ॥ ३०६॥ सोमशर्मा दुराचारो मुनिहिंसाविधायकः । पापिष्ठो भूभुजाऽनेन पञ्चदण्डेन दण्डितः ॥ ३०७॥ मुनिहिंसाप्रभावेन सोमशर्मा सुदुष्टधीः । उदुम्बराख्यकुष्ठेन गृहीतो दिनसप्तके ॥ ३०८॥ ॥ कुष्टग्रस्तसमस्ताङ्गः कालमासाद्य दुःखतः। त्रयस्त्रिंशत्समुद्रायुः सप्तमी क्षितिमाप सः ॥ ३०९ ॥ ततो निःसृत्य दुःखेन 'स्वयंभूरमणाम्बुधौ । सहस्रयोजनायामो जातो मत्स्यस्तिमिङ्गिलः ॥३१०॥ ततः पञ्चत्वमासाद्य क्षितौ षष्ठयामजायत । द्वात्रिंशतिसमुद्रायुः स मीनो दुःखपीडितः ॥३११॥ तत्र कालं विधायायं कथंचिन्निर्गतो महान् । सिंहो बभूव दुष्टात्मा वित्रासितमहागजः ॥३१२॥ कालं विधाय तत्रापि पञ्चम्यां नरकक्षितौ । बभूव भासुराकारो नारको बहुवेदनः ॥ ३१३॥ ।। ततो विनिर्गतः क्लेशाद् गुञ्जाफलनिभेक्षणः । बभूव कृष्णवर्णाङ्गो भीमभोगो भुजङ्गमः ॥ ३१४॥ कालं कृत्वा ततः पापश्चतुर्थी पृथिवीमितः । ततो विनिर्गतो भूयः पुण्डरीकोऽभवत्सकः ॥३१५॥ व्याघो मृति परिप्राप्य तृतीयं नरकं गतः । ततो निःसृत्य संक्लेशाजातो दुष्टविहङ्गमः ॥ ३१६ ॥ भूयः पञ्चत्वमासाद्य द्वितीयं नरकं सृतः । ततोऽतिक्रम्य दुःखेन बको जातः सितप्रभः ॥३१७॥ बकोऽपि पञ्चतां प्राप्य प्रथमं नरकं ययौ । नानादुःखसमाकीर्णमेकसागरजीवितः ॥ ३१८ ॥ १॥ ततो विनिर्गतः क्लेशात् तव राजेन्द्र नन्दनः । पूतिगन्धकुमारोऽयं बभूव कुथिताङ्गकः ॥ ३१९ ॥ श्रुत्वा स्वभवसंबन्धं पूतिगन्धकुमारकः । पप्रच्छेति जिनं भक्त्या तदा विनतमस्तकः ॥ ३२० ॥ अन्यजन्मकृतस्यास्य नितान्तं पापकर्मणः । भविष्यति महाभाग्य कथमेतत्परिक्षयः ॥ ३२१॥" निशम्य भारतीमस्य जिनेन्द्रो निजगावमुम्। उपवासं च" रोहिण्यां कुरु त्वं यदि दुःखितः॥३२२॥ जिनेन्द्रवचनं श्रुत्वा पूतिगन्धो जगौ जिनम् । रोहिण्यां हि कथं नाथ चोपवासो विधीयते ॥३२३॥ जिनस्तद्वाक्यमाकर्ण्य बभाणेमं पुरःस्थितम् । अयं विधीयते वत्स रोहिणीस्थे निशाकरे ॥ ३२४॥ एवं च क्रियमाणेऽस्मिन् विधौ वर्षेत्रिभिः परम् । उपवासाः प्रजायन्ते चत्वारिंशत्परिस्फुटम्॥३२५॥ अथवा पञ्चभिर्वर्नवभिर्दिवसैः सह । सप्तषष्टिः प्रजायन्ते सूपवासा मलापहाः ॥ ३२६ ॥ एवं समाप्तिमापन्ने चोपवासविधौ पुनः । चतुर्विशजिनार्चानां कार्यते परमः पटः ॥ ३२७॥ तदधः कार्यतेऽशोकरोहिणी शोकहानये । अष्टपुत्रसमायुक्ता चतुःपुत्रीसमन्विता ॥ ३२८॥ वासुपूज्यजिनेन्द्रस्य विचित्रां प्रतियातनाम् । कारयित्वा विधातव्या सपर्या परमोत्सवा ॥३२९॥ चतुर्विधस्य संघस्याहारदानं च भेषजम् । वस्त्रादिकं च दातव्यं भक्तितो विधिपूर्वकम् ॥ ३३०॥ माहात्म्येन विधेरस्य पुरुषो वनिताऽपि वा । देवासुरमनुष्येषु तथा विद्याधरादिषु ॥ ३३१॥
__1 फ omits No. 299. 2 पज कुलकम् , फ कुलकमिदम्. 3 पत्रिलोक्य . 4 [खङ्ग धन्वा]. 5फज सोमशर्मणः. 6फज निसृत्य.7 फज स्वयम्भु.8 विधायेमं. 9चतुर्थीपृथिवी. 10 प युग्मम् , फ युगलम् , ज युगलमिदम्. 11 फतु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org