________________
११० हरिषेणाचार्यकृते बृहत्कथाकोशे
[५७. २७४वसुपालान्तिकं प्राप्य तं प्रणम्योपविश्य च । दूतो जगाद हृष्टात्मा मुखविन्यस्तपाणिकः ॥२७४॥ त्रिलोकसुन्दरस्तुङ्गो राजहस्ती महाबलः । विद्यते ते महीपाल रणरङ्गरसप्रियः ॥ २७५ ॥ अस्मदीयप्रभुर्वक्ति भवन्तं 'प्रीतमानसः । क्षिप्रं गजमिमं शूरं प्रवेशय मदन्तिकम् ॥ २७६ ॥ दूतवाक्यं समाकर्ण्य जगादेमं पुनः प्रभुः । हस्तिनं न ददामीमं बहुना जल्पितेन किम् ॥२७७॥ । ततो निशम्य तद्वाक्यं स्वनाथं प्राप्य वेगतः । तद्वृत्तान्तं समावेद्य सुखं तस्थौ वचोहरः ॥२७८॥ ततः सोमप्रभः कोपात् कनकाख्यपुराद् बहिः । स्कन्धावारेण सर्वेण तस्थौ परनृपं प्रति ॥२७९॥ यथाऽस्तमनशायी च सोमदत्तमहामुनिः । नक्तं प्रतिमया तस्थौ स्कन्धावारैकदेशके ॥ २८० ॥ सोमदत्तं मुनिं दृष्ट्वा प्रतिमास्थं महीपतिः । सोमशर्मा जगादेमं कोपारुणनिरीक्षणः ॥ २८१ ॥
अस्माकं व्रजतां शत्रु विजेतुं बलशालिनम् । भूपाद्याशकुनो जातो नग्नश्रमणदर्शनात् ॥ २८२ ॥ 10 तस्मान्मुनिमिमं हत्वा क्षिप्त्वाऽस्य रुधिरं दिशाम् । शान्तिकर्म भवेत् पूतं येनास्माकं नराधिप ॥२८३॥
सोमशर्मवचः श्रुत्वा मुनिहिंसनकारणम् । कर्णौ पिधाय हस्ताभ्यां तदा तस्थौ महीपतिः ॥२८४॥ स्थिते 'नरपतावेवं विश्वदेवो द्विजस्तदा । नैमित्तिको विशुद्धात्मा चतुर्वेदषडङ्गधीः ॥ २८५ ॥ नानाशकुनशास्त्रार्थकुशलः साधुसंमतः । जगाद भूपतिं स्पष्टं विषण्णं जनताप्रियः ॥ २८६ ॥ सोमशर्मा द्विजो राजन्नजानन् वदतीदृशम् । कार्यसिद्धिं करोत्येष सर्वसत्त्वहितो यतिः ॥ २८७॥ 15 समस्तकार्यनिष्पत्तिः समस्तशकुनोपमः । अयं यतीश्वरो दृष्टः सर्वकल्याणकारकः ॥ २८८ ॥
तथा चोक्तम् - यतिराजवाजिकुञ्जरगोमयवरकुम्भवृषवरा ह्येते ।
आगमने निष्क्रमणे सिद्धिकराः सर्वकार्येषु ॥ २८९ ॥ दृष्ट्वा यतीश्वरं मार्गे पुरतः समवस्थितम् । युद्धार्थं व्रजताऽनेन विष्णुना गदितोऽर्जुनः ॥ २९०॥ 2० रथस्थो भव निःशङ्को धनुर्धारय भो नरः । जितां धरामहं मन्ये ग्रन्थहीनो मुनिः पुरः ॥२९१॥
तथा चोक्तम् - आरोह" रथं पार्थ गाण्डीवं चापि धारय ।
निर्जितां मेदिनीं मन्ये निर्ग्रन्थो यतिरग्रतः ॥ २९२ ॥ तथा शकुनशास्त्रेषु समस्तेषु विचक्षणैः । सुभाषितमिदं प्रोक्तं समस्तजनविश्रुतम् ॥ २९३ ॥
श्रमणस्तुरगो राजा मयूरः कुञ्जरो वृषः ।
प्रस्थाने वा प्रवेशे वा सर्व सिद्धिकराः स्मृताः ॥ २९४ ॥ ज्योतिःशास्त्रे तथा प्रोक्तं सुभाषितमिदं बुधैः । समस्तभुवनव्यापि यशोव्यापि समुज्वलैः ॥२९५॥
पद्मिन्यो राजहंसाश्च निर्ग्रन्थाश्च तपोधनाः ।
यद्देशमभिगच्छन्ति तद्देशे शुभमादिशेत् ॥ २९६ ॥ ७० तथा सुभाषितं भूप कोविदर्भाषितं वरम् । धर्मशास्त्रेषु सर्वेषु जनपुण्यविधायिषु ॥ २९७ ॥
योगी च ज्ञानी च तपोधनाश्च शूरोऽथ राजा च सहस्रदश्च" । ध्यानी च मौनी च तथा शतायुः संदर्शनादेव पुनन्ति पापम् ॥ २९८ ॥
1 पज प्रीतिमानसः. 2 Some letters are rubbed away in फ. 3 फ omits No. 278. 4 फज omit No. 280 which is added by प on the margin.15 फ स्थितेन सारितावे. 6 फज सोमशर्मद्विजो. 7 पज तथोक्तम्. 8 [भो नर]. 9 पज परः. 10 [आरोहय ]. 11 फ सहस्रोश्वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org