________________
H
-५७. २७३ ]
अशोकरोहिणीकथानकम् श्रुत्वा तद्वचनं योगी जगादेमां पुरःस्थिताम् । जिनवाक्याहितवान्तां जिनभक्तिपरायणाम् ।। २४२॥ अथ जम्बूमति द्वीपे क्षेत्रे भरतनामनि । शकटो नाम देशोऽस्ति पुरं सिंहपुरं परम् ॥ २४३ ॥ सिंहसेनो नृपस्तस्य भार्या च कनकप्रभा । अनयोनन्दनश्वासीत् पूतिगन्धिः कुमारकः ॥ २४४ ॥ जिनस्य मदनान्तस्य विमलादेर्गरीयसः । केवलज्ञानसंप्राप्तौ देवागमनशालिनः ॥ २४५ ॥ दृष्ट्वा सुरकुमारं च खे व्रजन्तं प्रभास्वरम् । सौधतः पूतिगन्धस्तु मुमूर्च्छ क्षणमात्रतः ॥ २४६ ॥ चेतनां क्षणतः प्राप सिक्तश्चन्दनवारिणा । जातिस्मरो बभूवाथ पूतिगन्धिकुमारकः ॥ २४७॥ सिंहसेननरेन्द्रेण जनकेन समं ययौ । तदा केवलिनः पाच पूतिगन्धकुमारकः ॥ २४८॥ त्रिः परीत्य तमीशानं वन्दित्वा भक्तितः पुनः। धर्म श्रुत्वा पिता-पुत्रौ तस्थिवांसौ ततः पुरः ॥२४९॥ अथ प्रस्तावमासाद्य सिंहसेनस्तदाऽऽत्मनः । पप्रच्छ तं विभुं भक्त्या स्वमनोगतमादरात् ॥२५०॥ पूतिगन्धः सुतो जातो मदीयः केन हेतुना । हित्वा मूर्छामितो नाथ वदेश मम सांप्रतम् ॥२५१॥ 10 नरेन्द्रस्य वचः श्रुत्वा जगौ तोषान्नरेश्वरम् । राजन्नन्यभवेऽनेन त्वत्पुत्रेण मुनिहतः ॥ २५२ ॥ संसारसागरे भ्रान्त्वा नानायोनिजलाकुले । अधुना त्वत्सुतो जातो दुर्गन्धस्तद्वधादयम् ॥२५३॥ दृष्ट्वा सुरकुमारं च गच्छन्तमुपरिष्टतः । स्मृत्वा श्वभ्रस्य संभीतो जातो जातिस्मरः पुनः ॥२५४॥ जिनोऽवाचि नरेन्द्रेण भक्तिविन्यस्तचेतसा । कथं मुनिवधोऽनेन कुतो मे साधि केवलिन् ॥२५५॥ राजेन्द्रवचनं श्रुत्वा केवली निजगावमुम् । त्वत्पुत्रवैरसंबन्धं मुनिहिंसनकारणम् ।। २५६ ॥ B कलिङ्गविषयाभ्याशे विन्ध्यपर्वतसंभवम् । महाशोकवनं दिव्यं विद्यते तरुसंकुलम् ॥ २५७॥ तत्र स्तम्बकरिस्तुङ्गस्तथा श्वेतकरी परः । इमौ यूथाधिपौ जातौ हस्तिनौ मदशालिनौ ॥ २५८ ॥ ततो महानदीतीर्थप्रविष्टौ जलकारणात् । परस्पररणं कृत्वा मम्रतुद्वौ गजौ तदा ॥ २५९ ॥ मार्जार-मूषको जातौ सर्प-बभ्रू" भयानको । भूयोऽपि तौ समुत्पन्नौ तथा श्येन-बलाहकौ ॥२६०॥ नीलोत्पलसमाम्बको गुञ्जाफलसमानको । भूयः पारापतौ जातौ कलकूजनकारिणौ ॥ २६१ ॥ ॥ "कनकाख्यपुरे रम्ये प्रभुः सोमप्रभोऽभवत् । सोमश्री तस्य भार्या च सोमवक्रा प्रियंवदा ॥२६२॥ बभूवास्य नरेन्द्रस्य सोमभूतिः पुरोहितः । ब्राह्मणोऽस्य प्रिया चावीं सोमिला" नाम विश्रुता ॥२६॥ अस्यां बभूवतुः पुत्रौ सोमादी शर्मदत्तकौ । तौ विज्ञानकलायुक्तौ "देवस्मृतिविशारदौ ॥ २६४ ॥ सोमशर्मप्रिया चार्वी सुकान्ता कान्तविग्रहा । सोमदत्तस्य विख्याता तथा लक्ष्मीमतीरिता ॥२६५॥ अथ "पञ्चत्वमापन्ने सोमभूतौ पुरोहिते । तदेदं सोमदत्ताय वितीर्ण भूभुजा पुनः ॥ २६६ ॥ 25 सोमशर्मा पुनज्येष्ठः "कनिष्ठप्रियया सह । तिष्ठति प्रीतचेतस्को लक्ष्मीमत्यभिधानया ॥२६७॥ सोमशर्मप्रिया मूढा सुकान्ताऽऽख्या पुनः पुनः। सोमदत्तस्य तां वार्ता वदतीयं दिनेदिने ॥२६८॥ मद्भट्टेन समं सत्यं सोमदत्त तव प्रिया । लक्ष्मीमती दुराचारा तिष्ठति क्लीबमानसा ॥ २६९ ॥ सुकान्तावेदितां वा सोमदत्तो निशम्य सः । दृष्ट्वाऽनयोर्विधर्मत्वं निस्ससार तदा गृहात् ॥२७॥ महावैराग्यमासाद्य सोमशर्मविचेष्टितात् । सोमदत्तः प्रवव्राज धर्मसेनान्तिके मुदा ॥ २७१॥ 30 सोमदत्तं परिज्ञाय तदानीं तपसि स्थितम् । पुरोहितपदे राज्ञा सोमशर्मा प्रतिष्ठितः ॥ २७२ ॥ शकटाख्यमहादेशे प्रभुः सोमप्रभो नृपः । दूतं प्रवेशयामास वसुपालमहीभुजः ॥ २७३ ॥
1प युग्मम् , ज युगलम् , फ युगलमिदम्. 2 पूतिगन्धकुमारकः. 3 फज पूतिगन्धसुतो. 4 फ नरेन्द्रवचनं श्रुत्वा. 5 फ जातो जातिस्मरः पुनः. 6 फ त्रिकलमिदम् , फ repeats verses Nos. 252-3. 7 पज त्रिकलम् , फ त्रिकलमिदम्. 8 प साधि-कथय. 9 फ केवली, ज केवलि. 10 प मर्जार', फ मार्जारमूखकौ. 11 ज बभ्रुः नकुलः. 12 प°समानाभौ. 13 फ कमलाख्यपुरे. 14 फ सोमिल्ला. 15 [ वेदस्मृति०]. 16फ पञ्चत्वमापन्नो. 17 फ कनिष्टः, 18 पज प्रीतिचेतस्को. 19 फ लक्ष्मीवती. 20फ राजा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org