________________
१०८ हरिषेणाचार्यकृते बृहत्कथाकोशे
[५७. २१०तत्पुरः पटहं दत्त्वा नानाजनपुरःसरम् । एतां तदा दुराचारां पुरादपससार सः ॥ २१० ॥ मृता सप्तदिनान्ते च गृहीतोम्बरकुष्ठतः । द्वाविंशतिसमुद्रायुः षष्ठं नरकमवाप सा ॥ २११॥ ततः क्रमेण सप्तापि भ्रान्त्वा सा नरकक्षितीः। भुञ्जाना घोरदुःखानि तासु तिष्ठति पापिनी ॥२१२॥ नितान्तं घोरदुःखाभ्यस्ताभ्यो निष्क्रम्य दुःखतः । दुःखपीडितचेतस्का तिर्यग्गतिमवाप सा ॥२१३॥ 5 द्विः शुनी सूकरी चैव शृगाली मूषिका सका। जलूका खलु मातङ्गी गर्दभी गोणिकाऽभवत् ॥२१४॥
भूयोऽपि दुःखसंभूता कुथिताखिलविग्रहा । पूतिगन्धाऽधुना जाता बन्धुलोकातिनिन्दिता ॥२१५॥ श्रुत्वा मौनीश्वरं वाक्यं भवसंत्रस्तमानसा । पूतिगन्धा पुनः प्राह सर्वसत्त्वहितं यतिम् ॥२१६॥ भगवन्नधुना केन कृतेन ननु कर्मणा । पूर्वपापं विमुञ्चामि ब्रूहि मे परमेश्वर ॥ २१७॥
पूतिगन्धोदितं श्रुत्वा बभाणेमां महामुनिः । भक्तिनिर्भरचेतस्कामाजवंजवभीलुकाम् ॥ २१८ ॥ 10 यदि त्वमिच्छसि स्पष्टं सर्वपापविमोचनम् । रोगशोकपरित्यक्तां सुरवल्लभतामपि ॥ २१९ ॥
ततो रोहिणीनक्षत्रे चोपवासं कुरु द्रुतम् । येन भूयोऽपि दुःखानि न पश्यसि कदाचन ॥२२०॥ मुनिवाक्यं समाकर्ण्य पूतिगन्धा जगावमुम् । कथं रोहिणी भो नाथ चोपवासो विधीयते ॥२२१॥ पूतिगन्धावचः श्रुत्वा तामुवाच यतीश्वरः । भक्तिनिर्भरचेतस्का बाष्पाकुलितलोचनाम् ॥ २२२॥
पुत्रि पूर्वदिने नूनं प्रत्याख्यानं चतुर्विधम् । गृह्यते मुनिमार्गेण पवित्रेण मनस्विनि ॥ २२३॥ 15 यस्मिन्नेवं दिने चन्द्रो रोहिण्यां व्यवतिष्ठते । तस्मिन्नेव विधातव्यं चतुर्थं जिनभक्तितः ॥२२४॥ उपवासो भवेदेकः सप्तविंशे दिने सति । भूयो भूयः कृते तस्मिन् कालमानं निरूप्यते ॥ २२५ ॥ नवस्वहस्स्वतीतेषु तथा वर्षेषु पञ्चसु । उपवासाः प्रजायन्ते सप्तषष्टिः परिस्फुटाः ॥ २२६॥ अनेन विधिना भद्रे भव्यभद्रविधायकः। उपवासविधिः सर्वः समाप्तिं यात्यखण्डितः ॥ २२७ ॥ ततः समाप्तिमापन्ने विधावस्मिन्नखण्डिते । रोहिणीपुस्तकस्यायें कारापय लिखापनम् ॥ २२८॥ 20 पुस्तकैरपरैः सार्धं यच्छद्भिर्धर्मकारणैः । आगमानुगतैः सारैभव्यौघहितकारिभिः ॥ २२९ ॥
सुरासुरनतस्यार्चा भव्यानन्दविधायिनः । वासुपूज्यजिनेन्द्रस्य कारापय तथाऽनघे ॥ २३० ॥ विमानैः केतुभिश्चित्रै ङ्गारैः कलशैरपि । घण्टाभिः किङ्किणीजालैर्मुकुरैः स्वस्तिकादिभिः ॥ २३१॥ श्रीखण्डैः कुङ्कुमैः पुष्पैर्गन्धान्धीकृतषट्पदैः । चरुणा पञ्चवर्णेन दीपधूपफलादिभिः ॥ २३२ ॥ वासुपूज्यजिनेन्द्रस्य रोहिणीपुस्तकस्य च । पूजा विधीयते भक्त्या कर्मक्षयनिमित्ततः ॥२३३॥" 25 पश्चादाहारदानं च भेषजं वसनादिकम् । चतुर्विधस्य संघस्य यथायोग्यं विधीयते ॥ २३४ ॥
एवं करोति यो भक्त्या नरो रामा महीतले । लभते केवलज्ञानं मोक्षं च क्रमतः स्वयम् ॥२३५॥ निशम्य मुनिचन्द्रस्य वचनं हृदयंगमम् । जग्राह पूतिगन्धेयमुपवासविधि ततः" ॥ २३६ ॥ गृहीत्वेमं विधिं सारं पूतिगन्धा मनःप्रियम् । भूयो जगाद योगीशं भक्तिहृष्टतनूरुहा ॥ २३७ ॥ भगवन् मत्समानेन पूतिगन्धेन केनचित् । गृहीतोऽयं विधिः पूर्वं ब्रूहि त्वं मम सांप्रतम् ॥२३८॥" 30 निशम्य पूतिगन्धाया वचनं मुनिपुङ्गवः । जगाद च पुनः सत्यं शिरोनिहितपाणिकाम् ॥२३९॥ त्वत्समानेन चान्येन पूतिगन्धेन यत्नतः । स्वयमाप्तो विधिः कान्तः सर्वदुःखक्षयावहः ॥२४०॥" श्रुत्वा यतिवचोऽदीनं पूतिगन्धा जगावमुम् । कस्मिन् केन कृतोऽयं मे वदानूचान सांप्रतम् ॥२४१॥ ____1 पज युग्मम् , फ युगलमिदम्. 2 [नरकमाप सा]. 3 फज परमेश्वरः. 4 पज युग्मम् , फ युगलमिदम्. 5 [ जीवं जन्मभीरुकाम् ], प-संसारभीरुतां( कां). 6फ रोहिणि'. 7 पज युग्मम् , फ युगलमिदम्. 8 फज रोहिणि, [ रोहिणीमे नाथ]. 9 पज युग्मम् , फ युगलमिदम्. 10 पज युग्मम् , फ युगलमिदम्. 11 पज तपः. 12 फ भगवन्नसमानेन. 13 प युग्मम् , ज युगलम् , फ युगलमिदम्. 14 फ पाणिकम्. 15 पज युग्मम् , फ युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org