________________
-५७. २०९] अशोकरोहिणीकथानकम्
१०७ श्रुत्वा तद्वचनं सोऽपि बभाणेमं सवेपथुः । कुरु मन्मोचनं शीघ्रं मातुलैवं करोम्यहम् ॥ १७८ ॥ नृपवाक्येन तेनाशु कारयित्वाऽस्य मोचनम् । दत्ताऽस्मै भागिनेयाय पूतिगन्धा विधानतः ॥१७९॥ परिणीता विधानेन पूतिगन्धाऽमुना सका । यस्याः कुथितगन्धेन लोकः सर्वः पलायितः ॥१८०॥ मुखं घ्राणं पिधायायमेकरात्रं सहानया । उषित्वा दुःखतो यातो प्रभाते नगरादरम् ॥ १८१ ॥ श्रीपेणेन परित्यक्ता पूतिगन्धाऽतिद्वःखिनी। तस्थौ पितृगृहे दीना निन्दन्ती निजजीवितम् ॥१८२॥ । एवं हि पूतिगन्धायाः काले याति सुदुःखतः । सुव्रताऽऽर्या परिणाप भिक्षायै तत्पितुगृहे ॥१८॥ दृष्ट्वा तामर्जिकां तत्र पूतिगन्धा सुदुःखिता । भिक्षामस्यै प्रदायाशु ययावुपशमं परम् ॥ १८४ ॥ तस्मिन्नेव पुरे श्रीमान् राजा कीर्तिधरोऽभवत् । भार्या कीर्तिमती तस्य विजिताखिलवैरिणः १८५ अथैकस्मिन् दिने जाते राजा कीर्तिधरो महान् । वनपालेन विज्ञप्तः सभामध्यस्थितस्तदा ॥१८६॥ अस्मदीयवने राजन् भगवान् पिहितास्रवः । सहामितास्रवेणास्थाचारणो हि शिलातले ॥ १८७ ॥ वनपालवचः श्रुत्वा तदा कीर्तिधरो नृपः । जगाम तौ मुनी नन्तुं परिवारसमन्वितः ॥ १८८ ॥ वन्दित्वा तौ मुनी भक्त्या श्रुत्वा धर्ममनुत्तरम् । बभूव भूपतिः शीघ्रं सम्यग्दर्शनभूषितः ॥१८९॥ तदानीं पूतिगन्धाऽपि निजलोकसमन्विता । आगत्य तौ मुनी नत्वा श्रुत्वा धर्म विशुद्धधीः ॥९० विधाय मस्तके पाणी मुनिद्वन्द्वं कृपाऽन्वितम् । पप्रच्छ स्वभवं पूर्व पूतिगन्धासमुद्भवम् ॥१९१॥ पूतिगन्धावचः श्रुत्वा महावैराग्यसंभवम् । अमितास्रवयोगीन्द्रो बभाणैतां पुरःस्थिताम् ॥१९२॥ 15 पुत्रि शृण्वैकचित्तेन स्थिरीभूतेव मुग्धिके । गदामि ते समासेन पूतिगन्धस्य कारणम् ॥ १९३॥ अत्रैव भरतक्षेत्रे जम्बूद्वीपसमन्विते । पश्चिमार्णवसामीप्ये सौराष्ट्रविषये वरे ॥ १९४ ॥ "उर्जयन्तगिरेर्दिव्यं पश्चिमाशासमुद्भवम् । नगरं विद्यते नाम्ना नगरं गिरिपूर्वकम् ॥ १९५ ॥ बभूव तत्र भूपालः सम्यग्दृष्टिर्नराधिपः । स्वरूपाऽस्य महादेवी रूपराजितविग्रहा ॥ १९६ ॥ आसीदस्य नरेन्द्रस्य गङ्गदत्तो वणिक्पतिः । भार्या सिन्धुमती चास्य मिथ्यात्वग्रहदूषिता ॥१९७॥ 20 रूपयौवनगर्वेण विलासेन गरीयसा । एषा रामाजनं रम्यं तृणायापि न मन्यते ॥ १९८ ॥ मासोपवाससंपन्नः साधुरत्र पुरे सुधीः । समाधिपूर्वको गुप्तः पारणार्थं समाययौ ॥ १९९ ॥ गच्छता सह राज्ञा सो वनं प्रमदपूर्वकम् । गृहाद् गृहान्तरं गच्छन् गङ्गदत्तेन वीक्षितः ॥२०॥ दृष्ट्वा तं वगृहाविष्टं मन्दमन्दगतिक्रियम् । गङ्गदत्तः प्रियां प्राह तदा सिन्धुमतीमिति ॥२०१॥ अस्मदृहं मुनिर्भद्रे प्रविष्टश्चर्ययाऽनघः । तेन त्वं भोजयित्वेमं पश्चादागच्छ सुन्दरि ॥ २०२॥ 25 तद्वाक्यतो निवांशु रुष्टा सिन्धुमती तराम् । गृहीत्वा तं मुनिं दृष्ट्वा निनाय निजमन्दिरे ॥२०३॥ ततो धात्रीनिरुद्धाऽपि कोपारुणनिरीक्षणा । स्थूरीपृष्ठनिमित्तेन संस्कृतं लवणादिभिः ॥ २०४॥ तस्मै मासोपवासाय स्थिताय स्थितिशालिने । तदा सिन्धुमती दुष्टा ददौ कटुकतुम्बकम् ॥२०५॥" प्रत्याख्यानं समादाय स मुनिः सार्वकालिकम्"। आराधनां समाराध्य बभूव विबुधो दिवि ॥२०६॥ "कालगं मुनिमालोक्य नीयमानं विमानगम् । पप्रच्छान्यतरं तस्मादागच्छन् वनतो नृपः ॥२०७॥ 30 राजेन्द्रवचनं श्रुत्वा जगादेदमयं नृप । कटुकालाबुदायिन्याः सिन्धुमत्या विचेष्टितम् ॥ २०८॥ शिरसो मुण्डनं कृत्वा पञ्चबिल्वस्य बन्धनम् । खराधिरोपणं चास्याः कारयित्वा सकुट्टनम् ॥२०९॥
__ 1 फज सुखं. 2 फ उखित्वा. 3 फज तत्पितुहम्. 4 पज युग्मम् , फ युगलमिदम्. 5 [स्थिरीभूतेन. 6फ उज्जयन्त. 7 पज युग्मम् . फ युगलमिदम्. 8फ निजमन्दिरं. 9ज स्थूरीपृष्ठ-महिषी. 10 पज युग्मम् , फ युगलमिदम्. 11 फ सार्वकालिकामू. 12 फ कालमं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org