________________
१०६ हरिषेणाचार्यकृते बृहत्कथाकोशे
[५७. १४७मृगमारीति विख्यातो मृगस्तत्र भीषणः । जगामासौ मृगान् हन्तुं तदानीं नीलपर्वतम् ॥१४७॥ असमर्थों मृगान् हन्तुं मुनिमाहात्म्ययोगतः । मृगयुश्चिन्तयामास विफलीभूतवाणकः ॥ १४८ ॥ किं कारणमहं बाणैरमोघेरिमकैरपि । असमर्थो मृगान् हन्तुं नितान्तं पुरतःस्थितान् ॥ १४९॥ ततो ज्ञातमनेनाशु दृष्ट्वा दूरस्थयोगिनम् । मुनेरस्य प्रभावेन बभूवुर्विफलाः शराः॥१५०॥ 5 पारणार्थमसौ यावन्मुनिर्गच्छति पत्तनम् । मृगयुस्तावदभ्येत्य क्रुधा मुनिशिलातलम् ॥ १५१ ॥
तृणकाष्ठेरिदं दग्ध्वा तद्भस्माङ्गारसंचयम् । नीत्वाऽन्यत्र क्रुधा तस्थौ निषादो मृगहिंसया ॥१५२॥ विधाय पारणं साधुर्मन्दमन्दगतिक्रियः । आतापनशिलां प्राप वह्निनाऽनेन तापिताम् ॥ १५३ ॥ ज्ञात्वाऽपि तां शिलां तप्तां मुनिभिः सार्वकालिकम् । प्रत्याख्यानं विधायोचैरारुरोह विशुद्धधीः ॥५४॥
अन्तकृत्केवली भूत्वा सुरासुरनमस्कृतः । समस्तकनिर्मुक्तो मुक्तिरामामवाप सः ॥१५५ ॥ । उदुम्बराख्यकुष्टेन' कुथिताखिलविग्रहः । मृगमारी ममारासौ तदानीं सप्तमे दिने ॥ १५६ ॥ सप्तमं नरकं प्राप मृतः सन्मुनिदुःकृतात् । त्रयस्त्रिंशत्समुद्रायुःस्थितिकं स निषादकः ॥ १५७ ॥ ततो निःसृत्य दुःखेन तैरश्वी दुःखदायिनीम् । प्राप्य भूयो मनुष्याणां गतिं व्याधवरो भ्रमन् ॥१५८॥ अस्मिन्नेव पुरे रम्ये बहुगोधनभूषितः । गोपालोपपदो दण्डी वित्तो गोपालकोऽभवत् ॥ १५९ ॥ अस्य भार्याऽभवत् तन्वी गन्धारी नाम विश्रुता । मृगमारचरो व्याधो बभूव तनयोऽनयोः॥१६०॥ नाना वृषभसेनोऽसौ रक्षितुं गाः कदाचन । क्रमेण यौवनं प्राप्य तदा नीलगिरिं ययौ ॥१६॥ तत्र नीलगिरौ तुङ्गे तदा दग्धो दवाग्निना । भस्मीकृतसमस्ताङ्गो वराको मृतिमाप सः॥१६२॥ 'घृतार्थं गोकुलं तेन चागतेन विवेकिना । सिंहदत्तेन तपित्रोः पुत्रवार्ता स्फुटोदिता ॥ १६३ ॥ श्रुत्वा वृषभसेनस्य सुतस्य मरणं तदा । गन्धारी रोदनं चक्रे करुणं मुनिदुःखदम् ॥ १६४ ॥ शोककारणमेतत् ते गदितं नरकुञ्जर । अधुनाऽशोक-रोहिण्योः संबन्धं कथयाम्यहम् ॥ १६५॥ 20 अस्मिन्नेव नराधीश हस्तिनागपुरे नृपः। वसुपालोऽभवच्चास्य भार्या वसुमती शुभा ॥ १६६ ॥ तद्भाता धनमित्रोऽभूदु राजश्रेष्ठी महाधनः । तद्भार्या धनमित्रा च पूतिगन्धा सुताऽनयोः॥१६७॥ मृतस्य कुष्ठयुक्तस्य मण्डलस्येव दुःसहः । दुर्गन्धामोदिताकाशस्तद्गन्धो वाति देहजः ॥ १६८॥ तत्समीपे न शक्नोति स्थातुं ब्रह्मसमोऽपि ना । किमन्यः प्राकृतोऽपुष्टः पूतिगन्धसमाकुले ॥१६९॥
तस्मिन्नेव पुरे श्रेष्ठी वसुमित्रोऽभवद्धनी। भार्या वसुमती चास्य श्रीषणोऽस्याः सुतोऽपि हि १७० 5. धूतपाने रतिर्यस्य पापद्धौ परयोषिति । अदत्ते जीवहिंसायां तथा पिशितभक्षणे ॥ १७१ ॥ तन्नन्दनो विनीतात्मा जनानां दुःखदायिभिः। एतैः सप्तभिरेवासौ व्यसनैः क्रीडति स्फुटम् ॥१७२॥
तथा चोक्तम्द्यतं मांसं कुत्सितवेश्या परदारं हिंसाऽदत्तं सुरामकार्येष्वतिकष्टम् ।
एते दोषाः सप्त" नृणामतिपापाः शिष्टैईष्टा" दुर्गतिमार्ग प्रवदन्ति ॥ १७३ ॥ 30 ततः श्रीषेणनामायं प्रविष्टो धनिनो गृहम् । गृहीतो यमदण्डेन तलारेण प्रकोपिना ॥ १७४ ॥
प्राध्वंकृत्य तकं दुष्टं पटहध्वनिसंयुतम् । निनाय यमदण्डोऽपि तस्करं नगराद् बहिः ॥ १७५॥ नीयमानममुं दृष्ट्वा बहुलोकसमावृतम् । धनमित्रो जगादेति दृढबन्धनियत्रितम् ॥ १७६ ॥ श्रीषेण यदि मे कन्यां परिणेतुं त्वमिच्छसि । ततोऽहं मोचनं तेऽरं कारयामि विसंशयम् ॥१७७॥
1फज तृणकाचैरिदं. 2 पज युग्मम् , फ युगलमिदम्. 3 प कालकम् , फ कालिकाम्. 4 उदम्बरा'. 5 फ तैरश्चीदुःख. 6 फ घृताक्तं. 7 फ पूतगन्धा. 8 फ मृष्टस्य. 9 फज मांसमकार्येष्विति कष्टम् , [पानम]. 10 [सप्त च]. 11 जशिष्टैर्दुष्टा. 12 See p. 65 above, No. 45. 12. 13 पज युग्मम् , फ युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org