________________
-५७. १४६ ]
अशोकरोहिणी कथानकम्
१०५
कलागुणमयक्षो मे न केनापि भाषितः । अदृष्टमश्रुतं तेन पृच्छामि भवतीमिमम् ॥ ११५ ॥ रोहिणीवाक्यमाकर्ण्य धात्रिकैतां जगौ पुनः । न नाटकप्रयोगोऽयं गीतभाषास्वरो न वा ॥ ११६ ॥ किं तु दुःखेन जन्तूनां रुदतां बन्धुमृत्युतः । मयाऽतो गदितो वत्से भूयः शोकोऽयमुच्यते॥११७॥ भूयस्तद्वाक्यतो देवी रोहिणी निजगाविमाम् । रुदितार्थमहं भद्रे न जानामि हि कीदृशः ॥ ११८ ॥ अत्रान्तरे महीपालोऽशोकनामा जगाविमाम् । शोकेन रुदितस्यार्थमहं तं दर्शयाम्यलम् ॥ ११९ ॥ लोकपालं सुतं बालं राजाऽऽदाय च तत्करात् । प्रासादशिखरादाशु रोहिणीपुरतोऽमुचत् ॥१२०॥ लोकपालकुमारोऽरमशोकतरुमूर्धनि । अशोकपुष्पशय्यायां रचितायां पपात सः ॥ १२१ ॥ अत्र ज्ञात्वा तकं बालं सर्वा नगरदेवताः । तं प्रदेशं समाजग्मुः कृत कोलाहलखनाः ॥ १२२ ॥ शोकस्य कारणं जातं रोहिण्याः कथमीदृशम् । शोकं दुःखं सुसंप्राप्तं यावदेषा न पश्यति ॥ १२३ ॥ अशोकतरुमूर्धस्थं दिव्यं सिंहासनं तदा । विकुर्वाणाकृतं ताभिः पञ्चवर्णसमुज्ज्वलम् ॥ १२४ ॥ अष्टोत्तरशताख्यानै रत्नाष्टापदनिर्मितैः । क्षीरोदनीरसंपूर्णैः कलशैर्मुखपङ्कजैः ॥ १२५ ॥ अभिषेकं विधायास्य 'बालाभरणभूषितः । देवीभिः स्नापितो बालो रममाणो वितिष्ठते ॥ १२६ ॥ अशोकवृक्षमूर्धस्थं सिंहासनमधिष्ठितम् । अशोको रोहिणीबालं ददर्शाधोविलोकनात् ॥ १२७ ॥ षोडशाभरणोपेतं पुरदेवीप्रपालितम् । पूजितं पुष्पधूपाद्यैर्गन्धामोदितदिग्मुखैः ॥ १२८ ॥ अन्यदा देवतासंघकरकुम्भाभिषिक्तकम् । लोकपालं विलोक्यैनं दिव्याभरणभूषितम् ॥ १२९ ॥ 15 सदारतिसहस्राक्षः संकीर्णोऽपि महामतिः । अशोकोऽपि महाराजो रोहिणी प्रेमकारिणी ॥ १३० ॥ रोहिणीविहिते पूर्वं चतुर्थे तत्फलेन च । पुरोहितादयः सर्वे विस्मयं परमं ययुः ॥ १३१ ॥' ततस्तं बालकं दिव्यं सर्वालङ्कारभूषितम् । आनीतं विस्मयोपेतास्तत्र तस्थुस्तके मुदा ॥ १३२ ॥ पुन्नाग चम्पकाशोकनमेरुबकुलाचिते । आम्राम्रातकसंपन्ने तत्राशोकवने सति ॥ १३३ ॥ अतिभूतिर्महाभूतिर्विभूत्यम्बरपूर्वकम् । तिलकान्तं बभूवात्र जिनवेश्म चतुष्टयम् ॥ १३४ ॥ रूपस्वर्णादिकौ' कुम्भौ चारणौ मुनिपुङ्गवौ । विहरन्तौ समायातौ हस्तिनागंपुरं परम् ॥ १३५ ॥ तत्र पूर्वदिशाभागसमुद्भूतमहावने । तस्थतुस्तौ महाभूततिलके जिनवेश्मनि ॥ १३६ ॥ ततः संप्राप्य " तत्पार्श्वे वनपालेन वेगतः । मुनिवार्ता च सा सर्वा भूभुजे विनिवेदिता ॥ १३७ ॥ निशम्य तद्वचो राजा महासंपत्समन्वितः । जगाम मुनिसामीप्यं भक्तिहृष्टतनूरुहः ॥ १३८ ॥ ततोऽशोकेन भूपेन वन्दित्वाऽमू सुभक्तितः । रूप्यकुम्भमुनिः पृष्टो विधिनाऽवधिलोचनः ॥१३९॥ 25 तथाऽऽदिश मया सम्यग् रोहिण्याऽपि पुराभवे । को धर्मो विहितः पूतः सर्वसत्त्वदयापरः" ॥१४०॥ विशोकाद्यष्टपुत्राणां कन्यकानां चतसृणाम् । पूतान्यभवसंबन्धं कथयेश ममाधुना ॥ १४१ ॥ अशोकवचनं श्रुत्वा रूप्यकुम्भो यतीश्वरः । अवधिज्ञाननेत्रेण तत्पृष्टार्थं जगाविति ॥ १४२ ॥ आकर्णयैकचित्तेन त्वद्रामाशोककारणम् । कथयामि समासेन तव राजेन्द्र सांप्रतम् ॥ १४३ ॥ हस्तिनागपुराद् गत्वा मार्गं द्वादशयोजनम् । अस्ति नीलगिरिस्तुङ्गो नानातरुशिलातलः ॥ १४४ ॥ यशोधरमुनिर्वरिश्चारणो लोकशान्तिकृत् । सर्वौषधित्वसंप्राप्तो धर्मभूषितविग्रहः ॥ १४५ ॥ मासोपवाससंयुक्तः शिखरेऽस्य महीभृतः । आतापनाख्ययोगेन संतस्थे स्थिरमानसः ॥ १४६ ॥
30
1 फ भवतामिमम्. 2 पज त्रिकलम् फ त्रिकलमिदम्. 3 पज युग्मम् फ युगलमिदम्. 4 प भालाभरण". 5 पज कलापकम् फ कालापकमिदम्. 6 प युग्मम्, ज युगलम् फ युगलमिदम्. 7 पज त्रिकलम् फ त्रिकलमिदम् 8 पज युग्मम् फ युगलमिदम्. 9 [ रूप्यस्वर्णादिकौ ]. 10 फज तत्पार्श्ववन: 11 [ दयापर ]. 12 पज त्रिकलम् फ त्रिकलमिदम्. 13 पज युग्मम्, फ युगलमिदम्.
बृ० को ० १४
Jain Education International
For Private & Personal Use Only
10
20
www.jainelibrary.org