________________
१०४
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ५७. ८२
ततः पितरमानम्य सभास्थं मातरं च सः । अशोकः शोकसंत्यक्तो बभूव पितृसंगमात् ॥ ८२ ॥ अथ प्रद्योतिताकाशां ज्वालाभासितपुष्कराम् । उल्कां ददर्श भूपालः शोकान्तो विगतादिकः ॥ ८३॥ उल्कापातं विलोक्यायं वैराग्याहितमानसः । सभ्यान् जगाद राजेन्द्रो मस्तकन्यस्तपाणिकान् ॥ ८४॥ विभवा धनवान्याद्यास्तृणबिन्दुचलाचलाः । यौवनं यद्गतं पुंसां पुनस्तन्न निवर्तते ॥ ८५ ॥ विद्युच्चलाचलं सभ्या' जीवितं देहिनां भवेत् । दृष्टादृष्टं शरीरं च 'लालितं मृष्टभोजनैः ॥ ८६ ॥ शुष्कपत्रसमानामा निचया भवनाधिकाः । सन्ध्यारागसमा प्रीतिर्वल्लभै रमणीजनैः ॥ ८७ ॥ बन्धुभिः सह यत्प्रेम स्वप्नराज्योपमं भवेत् । विद्यते तन्न लोकेऽस्मिन् यद्वस्तु स्थिरतां व्रजेत् ॥८८॥ एवं निगद्य तान् सभ्यानापृच्छ्य जनबान्धवान् । अशोकाय श्रियं दत्त्वा निर्ययौ भूपतिर्गृहात् ॥ ८९ ॥ अशोकवनमध्यस्थं तदा गुणधरं यतिम् । संप्राप्य भक्तिसंपन्नो वीतशोको नराधिपः ॥ ९० ॥ 10 प्रणम्य तं महासत्त्वं यतीशं स नराधिपः । दीक्षां जग्राह तत्पार्श्वे बहुभिर्नरकुञ्जरैः ॥ ९१ ॥ अतिघोरं तपः कृत्वा भित्त्वा कर्मकदम्बकम् । वीतशोकमुनिः शीघ्रं ययौ निर्वाणपत्तनम् ॥ ९२ ॥ अपनुद्य महाशोकं पितृदीक्षणसंभवम् । चकार विपुलं राज्यमशोको नतपार्थिवम् ॥ ९३ ॥ अशोकेन समं भोगान् भुञ्जानाया मनोरमान् । बभूवुरष्ट सत्पुत्रा रोहिण्याः क्रमतोऽमलाः ॥ ९४ ॥ एवं यौवनसंपन्ना विषाणदललोचनाः । अनुक्रमेण संजाताश्चतस्रस्तनयास्तथा ॥ ९५ ॥
विगतोपपदः शोको गतशोकः परो मतः । जितशोको विनष्टादिशोकोऽपि धनपालकः ॥ ९६ ॥ वसुपालः परो ज्ञेयो गुणपालो गुणाकरः । रोहिणीसुतनामानि विज्ञेयानि मनीषिभिः ॥ ९७ ॥ वसुंधरा मता पूर्वं सुरकान्ता तथा परा । लक्ष्मीमती परा ज्ञेया सुप्रभा चेति तत्सुताः ॥ ९८ ॥ समस्त पुत्रपुत्रीणां पश्चिमोऽजनि नन्दनः । लोकपालकुमाराख्यो रोहिण्या रूपराजितः ॥ ९९ ॥ अन्यदाऽशोकभूपालो रोहिणी पण्डिता परा । वसन्ततिलका धात्री लोकपालाङ्कधारिणी ॥ १०० ॥ 20 प्रासादशिखरस्थाने मञ्जुकोलाहला अलम् । गोष्ठीसुखोपविष्टाश्च संतिष्ठन्ते स्वलीलया ॥ १०१ ॥ रथ्यायां शोकसंपन्ना मुक्तकेशकदम्बिकाः । कृतकोलाहलखाना मण्डलीभूतविग्रहाः ॥ १०२ ॥ कुर्वती रासकं बालं 'काकुन्तीः स्वं मुहुर्मुहुः । वक्षः शिरस्तनं बाहू 'कुट्टन्तीः कृतरोदनाः ॥ १०३ ॥ प्रासादस्था विलोक्यैता योषितो रोहिणी तदा । वसन्ततिलकां धात्रीं पप्रच्छेति कुतूहलात् ॥ १०४॥ | अम्ब सिग्नटकं भानी छत्रं रासोऽपि दुम्बिली । एतान् पञ्चापि नृत्यन्ति नाटकानृत्यकोविदाः ॥ १०५ ॥ 25 एतान् पञ्चापि संत्यज्य नाटकान् भरतोदितान् । नाटको भीरुभिः कोऽयं नृत्यते सादिकुट्टनः ॥१०६॥ सप्तस्वरबहिर्भूतं भाषामूर्च्छाबहिर्भवम् । इमं तु नाटकं ब्रूहि सांप्रतं मम कौतुकात् ॥ १०७ ॥ निशम्य रोहिणीवाक्यं मुग्धभावसमन्वितम् । जगाद धात्रिकेमां च वसन्ततिलकाऽभिधा ॥ १०८ ॥ पुत्रि शोको महादुःखं क्रियते दुःखिभिर्जनैः । तद्वाक्यतः पुनः प्राह रोहिणीमां सकौतुकात् ॥ १०९॥ अम्ब किं भण्यते शोको दुःखं वा वद किं मम । भूयो जगाद तां धात्री रुष्टा कोपारुणेक्षणा ॥ ११० ॥ 30 संजातः किं तवोन्मादः पाण्डित्यैश्वर्यमीदृशम् । किं गर्वौ रूपसंभूतः किं सौभाग्यं जनातिगम् ॥ १११ ॥ तेन त्वं नाटकं ब्रूषे” स्वरभाषासमन्वितम् । शोकं दुःखं न जानासि जाताऽचैवासि सुन्दरि ॥ ११२॥ वसन्ततिलकावाक्यं श्रुत्वा भूयोऽपि रोहिणी । इमां जगाद मा भद्रे कोपं कुरु ममोपरि ॥ ११३ ॥ गन्धर्वगणितं चित्रमक्षराणि स्वराणि च । विज्ञानानि चतुःषष्टिः कला द्वासप्ततिस्तथा ॥ ११४ ॥
5
15
1फ सप्त, [ सर्व ] 2 प ललितं. 3 प चतुष्कलम् ज चतुष्कलकम्, फ चतुष्कलकमिदम्. 4 फज गतशोकपरो. 5फ कोलाहलाहलम् 6 फ कांक्षन्तीः 7प कुट्टन्ती 8 पज त्रिकलम् फ त्रिकलमिदम्. 9 त्रिकलम् फ त्रिकलमिदम्. 10 फ ब्रूते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org