________________
-५७. ८१ ]
अशोकरोहिणीकथानकम्
.१०३
कोऽपि वीणां समादाय गीतं गायति शोभनम् । सप्तस्वरसमायुक्तं विंशदेकोनमूर्च्छनम् ॥ ५० नितम्बे कोऽपि बध्नाति खड्गधेनुं समुज्वलाम् । कृताङ्गमोटनं बाढं चारुपट्टिकया घनम् ॥ ५१ ॥ कोऽपि ताम्बूलमादाय करेण प्रीतमानसः । स्वनादपूरिताकाशभूतलः सहसाऽहसत् ॥ ५२ ॥ एवं नृपास्तदा सर्वे कुर्वन्ति विविधक्रियाः । कामाकुलितचेतस्काः कन्यागमनकाङ्क्षिणः ॥ ५३ ॥ अत्रान्तरे महावस्त्रा दिव्याभरणभूषिता । रूपराजितसर्वाङ्गी ' मदकुञ्जरगामिनी ॥ ५४ ॥ पञ्चवर्णविनिर्माणपुष्पमालाकरा परा । धात्रीपुरःसरी कन्या विवेशैषा स्वयंवरम् ॥ ५५ ॥ दृष्ट्वा सर्वे नृपाः कन्यां स्वयंवरमितामिमाम् । चिन्तयन्ति भृशं स्वष्टं मन्मथाकुलमानसाः ॥५६॥ यक्षिणी किन्नरी किंवा किं विद्याधरकन्यका । उर्वशी किं किमिन्द्राणी किं रतिः किं तिलोत्तमा ५७ एवं बहुविधान् संगान् भावयन्तो नराधिपाः । तस्थुर्विस्मित चेतस्कास्तन्मुखाम्भोजवीक्षणाः ॥५८॥ सुमङ्गलाभिधानाऽसौ कलकोकिलनिस्वना । स्वर्णवेत्रकरा धात्री जगौ कन्यां मनखिनी ॥ ५९ ॥ महाकुन्दपुराधीशं कुन्दपुष्पसमद्विजम् । रूपिणं कुन्दनामानं वृणीष्वैनं कुमारिके ॥ ६० ॥ एष मेघपुरस्वामी हेमाङ्गो हेमनामकः । बहुहेमधनाधारो मानयैनं मनखिनि ॥ ६१ ॥ अयं रत्नपुराधीशो रत्नसंचयनामकः । रत्नोद्योतितसर्वाङ्गो बालेऽत्र कुरु मानसम् ॥ ६२ ॥ प्रभुस्तिलकसंज्ञस्य पुरस्य तिलकाभिधः । तिलकोऽयं नरेशानां प्रीतिमत्र कुरु प्रिये ॥ ६३ ॥
विद्युत्पुरस्वामी नाम्ना विद्युत्प्रभः प्रभुः । अनेन भोगिना सार्धं भोगान् मानय मानिनि ॥ ६४ ॥ 15 एवमादिबहून्" भूपान् धात्रीदर्शितसंपदः । अतिक्रम्य जगामाशु बाला तद्वेषधारिणी ॥ ६५ ॥" भूयो जगाद तां धात्री त्यक्ताखिलनराधिपाम् । प्रसन्नवचसा साध्वी तच्चित्तेङ्गितकोविदा ॥ ६६ ॥ स्वामिन्येष गुणाधारो वीतशोकसुतो महान् । जयन् रूपेण कन्दर्पमशोकः शोकवर्जितः ॥ ६७ ॥ अनेन देवरूपेण विद्याधरसमेन वा । चिरकालं सुखं पुत्र त्वं मानय विलासिना ॥ ६८ ॥ * धात्रीवचनमाकर्ण्य तत्पुरो हृदयंगमम् । ददर्श तं महाकन्या कन्दर्पमिव रूपिणम् ॥ ६९ ॥
तं रूपिणं कन्या मुमोह क्षणमात्रकम् । चेतनां प्राप्य भूयोऽपि दध्यौ विस्मितमानसा ॥ ७० ॥ मन्मथः सतनुः किं वा किमिन्द्रोऽयं खगेश्वरः । भोगभूमिभवः किं वा कुमारो भाति मत्पुरः ॥ ७१ ॥ स्वचित्तहारिणं बाढं बद्धा मानसमालया । मुमोचास्य गले मालामशोकस्य हि रोहिणी ॥ ७२ ॥ वीतशोकसुतं दृष्ट्वा कन्यामालाविभूषितम् । तदाऽशोकं नृपाः सर्वे जग्मुः स्वं स्वं निकेतनम् ॥७३॥ कृत्वा महामहं पूतं जिनानां क्षीणकर्मणाम् । केवलज्ञाननेत्राणां पूतानां सर्ववेदिनाम् ॥ ७४ ॥ 25 शोभने दिनयोगादौ मघवाभिनिवेदिताम् । उवाह रोहिणीं रागादशोको विधिपूर्वकम् ॥ ७५ ॥* मनोऽभिवाञ्छितान् भोगान् भुञ्जानोऽशोकभूपतिः । रोहिण्या सह चन्द्रो वा तत्र तस्थौ सुखैधितः ॥ बहुष्वपि च लेखेषु जनकप्रेषितेषु सः । रोहिणी स्नेहतोऽशोकः पितुरन्तं न गच्छति ॥ ७७ ॥ अशोकस्य पिता लेखं" साभिज्ञानसमन्वितम् । वैतालिककरे शीघ्रं प्रजिघाय समुत्सुकः ॥ ७८ ॥ ततश्चम्पापुरीं प्राप्य वीतशोकसुतस्य च । स्तुत्वाऽशोककुमारस्य पुरो लेखं विसृष्टवान् ॥ ७९ ॥ ३० आदाय तं स्वहस्तेन तल्लेखार्थं प्रवाच्य च । अशोकः शोकसंपन्नो बभूव जनकोत्सुकः ॥ ८० ॥ ततः श्वशुरमापृच्छ्य रोहिणीसहितः क्रमात् । अशोकः स्वबलोपेतो जगाम पितुरन्तिकम् ॥ ८१ ॥
15
1फ समुज्वलम्.
2 पज प्रीतिमानसः 3प कुलकम् ज कुलिकम् फ कुलकमिदम्. 4प मन्द • 5प युग्मम्, फज युगलम् 6फ श्रेष्टम् 7 ज युगलम् फ युगलमिदम्. 8फ महाकन्द 9 प वृणीष्वेनं. 10 प एवमाद्य 11 पज कुलकम्, फ कुलकमिदम् 12 पज त्रिकलम् फ त्रिकलमिदम्. 13 फज 16 फ लेषं.
कुमारो भावि तत्पुरः.
14 पज युगलम् फ युगलमिदम्.
15 -पज प्रेक्षितेषु
Jain Education International
For Private & Personal Use Only
20
www.jainelibrary.org