________________
१०२
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ५७.१७
२४ ॥
अत्रैव भरतक्षेत्रे जम्बूद्वीपोपलक्षिते । कुरुजाङ्गलदेशोऽस्ति ' धनधान्यसमन्वितः ॥ १७ ॥ विद्यते तत्र पौराढ्यं हस्तिनागपुरं परम् । विगतोपपदः शोको भूपतिर्जनवल्लभः ॥ १८ ॥ विद्युत्प्रभा महादेवी भूपतेरस्य वल्लभा । तत्पुत्रोऽशोकनामाऽयं शोकवर्जितविग्रहः ॥ १९ ॥ श्रीमदङ्गमहादेशे चम्पाऽऽख्या नगरी परा । मघवा तत्र भूपालः श्रीमती चास्य गेहिनी ॥ २० ॥ ऽ तस्या गुणाकराः ख्याताः समस्तधरणीतले । पुत्रा बभूवुरष्टौ ते नामान्येतानि बिभ्रति ॥ २१ ॥ श्रीपाल : श्रीप्रियो ज्ञेयो गुणपालो गुणप्रियः । वसुपालो वसुस्फीतः प्रजापालः प्रजापतिः ॥ २२ ॥ व्रतपालो व्रताधारः श्रीधरः श्रीधरः परः । तथा गुणधरो ज्ञेयो गुणरञ्जितभूतलः ॥ २३ ॥ यशोधरो यशोधारी यशः शुक्तीकृताम्बरः । यथार्थनामसंयुक्ताः सर्वे भान्ति भुवस्तले ॥ रूपयौवनसंपन्ना पीनोन्नतघनस्तनी । तत्सुकन्या कलाधारा रोहिणी नाम विश्रुता ॥ २५ ॥ कार्तिकाष्ठाह्निकायां च सोपवाससमन्विता । श्रीखण्डचरुपुष्पाणि गृहीत्वा धूपतण्डुलम् ॥ २६ ॥ चम्पापूर्वदिशो भागे महापूजाङ्कनामकम् । जिनायतनमुत्तु रोहिणी प्राप भक्तितः ॥ २७ ॥ जिनपूजां विधायोच्चैः पुष्पगन्धाक्षतादिभिः । जिनसाधुनमस्कारं जिनशेषां प्रगृह्य च ॥ २८ ॥ जिनगेहाद्विनिःसृत्य सभामध्यनिवासिनोः । पित्रोरन्तःपुरस्यापि ददौ शेषां हि रोहिणी ॥ २९ ॥ ततः पिताऽवलोक्ये मामङ्कमारोप्य कन्यकाम् | यौवनेभमितां प्रौढां दध्याविति विषादवान् ॥३०॥ रूपातिशयसंपन्नां संपूर्णनवयौवनाम् । समानगुणरूपाय कस्मै दास्यामि कन्यकाम् ॥ ३१ ॥ एवं विचिन्त्य मूढात्मा कन्यां मुक्त्वा गृहं प्रति । मन्त्रशालां विवेशाशु विशालां वसुधाधिपः ॥ ३२ ॥ सुमतिः सुमतिः सारः सश्रुतः श्रुतसागरः । विमलादिमतिद्धशो विमलो विमलाशयः ॥ ३३ ॥ तानसौ समाहूय मत्रिणो मन्त्रकोविदान् । यथासनं परिप्राप्तान् पप्रच्छेदं महीपतिः ॥ ३४ ॥ कुमारी सुकुमाराङ्गी कुमाराय प्रदीयताम् । कस्मै वदत निःशङ्का मत्रिणो मन्त्रकोविदाः ।। ३५ ।। नरेन्द्रवचनं श्रुत्वा मन्त्रिभिः प्रेरितस्तदा । जगाद सुमतिर्वाक्यं पूर्वं भूपतिसंमतम् ॥ ३६ ॥ कन्यैकस्मै कुमाराय यदि राजन् प्रदीयते । ततोऽस्याः प्रेमसंबन्धो जायतेऽत्र न वा धवे ॥ ३७ ॥ अथवा दैवयोगेन धवस्यास्य सुभोगिनः । अस्यां न जायते प्रीतिः पितरौ कुरुतः स्म किम् ॥ ३८ ॥ तस्मात् स्वयंवरे कन्या नानानृपसमागमे । गृह्णातु स्वमतं कान्तं संगरोऽयं ममेश्वरः ॥ ३९ ॥ स्वयंवरो मतः पूर्वैरादरेण नराधिपैः । लज्जा न जायते पुंसां कुर्वतां पूर्वसेवितम् ॥ ४० ॥ 25 श्रुत्वा नराधिपो वाक्यं सुमतेः सुमतेः परम् । स्वयंवरे मतिं चक्रे महापुरुषसेवितें ॥ ४१ ॥ कोटिशो मञ्चकांस्तुङ्गान्नानामणिविराजितान् । अचीकरन्नृपः शीघ्रं महारजतनिर्मितान् ॥ ४२ ॥ धरातले समस्तेऽस्मिन् स्वनरैः शीघ्रयायिभिः । तदानीं स महीपालः स्वयंवरमघोषयत् ॥ ४३ ॥ श्रुत्वा स्वयंवरं दूतैः नृपा विभवसंयुताः । श्रीमच्चम्पापुरं प्राप्य मञ्चकेष्ववतस्थिरे ॥ ४४ ॥ तूर्याणि समतालानि नादितावनिखान्यरम् । नेदुर्मधुरगम्भीरं तदानीं तत्स्वयंवरे ॥ ४५ ॥ 30 कोऽपि हारलतां पाणौ स्पृशति प्रीतमानसः । मुकुटं कोऽपि हस्तेन करोति स्थिरमुन्नतम् ॥ ४६ ॥ कोऽपि केशचयं स्निग्धं निश्चलं शिरसि द्रुतम् । चकार पाणिनाऽपश्यन्नक्ष्णा कन्यासमागमम् ४७ विद्रुमच्छविमोष्ठं च करेणाकृष्य पश्यति । कोऽप्येकलोचनेनाशु द्वितीयेन दिशां मुखम् ॥ ४८ ॥ कोsपि लीलाम्बुजं " पाणौ गन्धासक्तमधुव्रतम् । सुरभीकृतसर्वाशं चकार विकसन्मुखम् ॥ ४९ ॥
I
10
15
20
1 फज कुरुजंगल
2 फ गुणधरो 3 पफज युग्मम्. 4 फ जिनशोखां, ज जिनशेखां 5 पफज युग्मम्. 6 फ मन्त्रिकोविदान् 7फ महापुरप्रसेविते, ज महापुरुप्रसेविते. 8 प षट्कुलकम्, फ षट्कलमिदम्, ज षट्कलकम्. 9 फज 'लोचना शुद्धिद्वितीयेन. 10 फ लीलाम्बुजी.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org