________________
३३८ हरिषेणाचार्यकृते वृहत्कथाकोशे
[१४३. ६२वातवेगं समारुह्य तुरङ्गं प्रीतमानसः । अवाहय' तकं शीघ्रं चाणाक्यो निजलीलया ॥ ६२॥ जलदुर्ग प्रविश्यासौ वार्धिमध्ये सुधीरधीः । राज्यमन्वेषयंस्तस्थौ चाणाक्यः कृतनिश्चयः ॥ ६३॥ एवं हि तिष्ठतस्तस्य नरेणैकेन वेगतः । प्रत्यन्तवासिभूपस्य निवेदितमिदं वचः ॥ ६४ ॥ जलदुर्गे महानेकः समुद्रजलसंभवे । तिष्ठति प्रीतचेतस्को नरनागः सुबुद्धिमान् ॥ ६५॥ । प्रत्यन्तवासिभूपोऽपि निशम्यास्य वचः परम् । निनाय तं निजस्थानं चाणक्यं मतिशालिनम् ॥६६॥
पर्वतान्तं परिप्राप्य भूपाः प्रत्यन्तवासिनः । भक्तं प्रवेशयामासुर्धनं च सकलं तदा ॥ ६७॥ ततोऽमी नन्दभूपालं भूपैः प्रत्यन्तवासिभिः । उपायैर्भेदमानीतास्तस्थुस्तद्वेषमागताः ॥ ६८॥ प्रत्यन्तशत्रुभूपालैनन्दो दण्डं प्रयाचितः । अयं वक्ति न तं नूनं ददामि भवतां करम् ॥ ६९ ॥ ततोऽभिनन्दभृत्यानां मत्रभेदं विधाय च । निर्धाटनं छलेनैषां भ्रान्तिसंभ्रान्तिचेतसाम् ॥ ७० ॥ 10 खेन नन्दं निहत्याशु सुपुरे कुसुमनामनि । चकार विपुलं राज्यं चाणाक्यो निजबुद्धितः ॥७१॥ कृत्वा राज्यं चिरं कालं अभिषिच्यात्र तं नरम् । श्रुत्वा जिनोचितं धर्म हित्वा सर्वं परिग्रहम् ॥७२॥ मतिप्रधानसाध्वन्ते महावैराग्यसंयुतः । दीक्षां जग्राह चाणाक्यो जिनेश्वरनिवेदिताम् ॥७३॥ विहरन् गतियोगेन शिष्याणां पञ्चभिः शतैः । वनवासं परिप्राप्य दक्षिणापथसंभवम् ॥ ७४ ॥
ततः पश्चिमदिग्भागे महाक्रौञ्चपुरस्य सः । चाणक्यों गोकुलस्थाने कायोत्सर्गेण तस्थिवान् ॥७५॥ 15 बभूव तत्पुरे राजा सुमित्रो नाम विश्रुतः । तत्प्रिया रूपसंपन्ना विनयोपपदा मतिः ॥ ७६ ॥
मन्त्री सुबन्धुनामास्य नन्दस्य मरणेन सः। चाणक्योपरि संक्रुध्य तस्थौ तच्छिद्रवाञ्छया॥७७॥ ततः क्रौञ्चपुरेशस्य महासामन्तसेविनः । सुबन्धुबन्धुसंपन्नः समीपे तस्य तस्थिवान् ॥ ७८ ॥ अथ क्रौञ्चपुराधीशः श्रुत्वा मुनिसमागमम् । महाविभूतिसंयुक्तस्तं यतिं वन्दितुं ययौ ॥ ७९ ॥
चाणक्यादिमुनीन् नत्वा स तत्पूजां विधाय च । महाविनयसंपन्नो विवेश निजपत्तनम् ॥ ८॥ 20 ततोऽस्तमनवेलायां यतीनां शुद्धचेतसाम् । साग्निं करीषमाधाय तत्समीपेऽपि रोषतः ॥ ८१॥ विधाय खेन देहेन पापराशेरुपार्जनम् । महाकोधपरीताङ्गः सुबन्धुर्नरकं ययौ ॥ ८२॥" चाणक्याख्यो मुनिस्तत्र शिष्यपञ्चशतैः सह । पादोपगमनं कृत्वा शुक्लध्यानमुपेयिवान् ॥ ८३॥ उपसर्ग सहित्वेमं सुबन्धुविहितं तदा । समाधिमरणं प्राप्य चाणक्यः सिद्धिमीयिवान् ॥ ८४॥ ततः पश्चिमदिग्भागे दिव्यक्रौञ्चपुरस्य सा । निषधका मुनेरस्य वन्द्यतेऽद्यापि साधुभिः॥८५॥
॥ इति चाणाक्यमुनिकथानकम् ॥ १४३ ॥
१४४. वृषभसेनमुनिकथानकम् । महान्ध्रविषये सारे दक्षिणापथसंभवे । आसीजनसमाकीर्णे विषयो भरताभिधः ॥१॥ कुलालनगरं तत्र राजा वैश्रवणोऽभवत् । पद्मावती प्रिया चास्य पद्मपत्रनिभेक्षणा ॥२॥ द्वेषको जिनधर्मस्य साधुसंघस्य निन्दकः । बभूव रिष्टको मत्री पद्मावत्याः कठोरधीः ॥ ३॥ 30 गणी वृषभसेनाख्यो मुनिसंघसमावृतः । आजगाम भ्रमन् क्वापि कुलालनगरान्तिकम् ॥४॥ श्रुत्वा वैश्रवणो भूपो मुनिसंघ समागतम् । लोकेन सह संप्राप वन्दितुं भक्तितत्परः ॥ ५॥
25
1 [अवाहयत्तकं]. 2 पफ युग्मम् , ज युगलम्. 3 ज चाणाक्यं. 4 [ संभ्रान्त 1. 5 पफ युग्मम्, ज युगलम्. 6 [जिनोदितं ]. 7 पफ युग्मम् , ज युगलम्. 8 ज चाणाक्यो. 9 पफज युगलमिदम्. 10 ज चाणाक्योपरि. 11 पफ युग्मम् , ज युगलम्. 12 ज चाणाक्याख्यो. 13 ज चाणाक्यः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org