________________
--१४५. २४] श्रीपालकथानकम्
३३९ गच्छन्तं नृपसंयुक्तं दृष्ट्वा लोकं समुज्ज्वलम् । पप्रच्छ रिष्टको मत्री व यात्येष नराधिपः ॥६॥ रिष्टकोक्तं समाकर्ण्य लोको वदति तं पुनः । राजा मुनिगणं नन्तु याति भक्तिसमन्वितः ॥७॥ लोकोदितं निशम्याशु रिष्टकः कोपसंगतः । चक्रे वृषभसेनेन महावादं सुदुष्टधीः ॥८॥ ततो वृषभसेनेन तदा वैश्रवणान्तिके । स्याद्वादवादिनाऽनेन रिष्टकोऽयं पराजितः ॥९॥ जितोऽयं मुनिनाऽनेन वादेन नयशालिना । नक्तमग्निसमूहेन ज्वालिता वसतिः क्रुधा ॥ १०॥ । मुनिवृषभसेनाख्यो मुनिभिः सहसा सह । उपसर्ग सहित्वाऽसौ कृतकालो दिवं ययौ ॥११॥
॥ इति श्रीवृषभसेनमुनिकथानकमिदम् ॥ १४४ ॥
१४५. श्रीपालकथानकम् । पुन्नाटविषये रम्ये दक्षिणापथगोचरे । तलाटवीपुराभिख्यं बभूव परमं पुरम् ॥१॥ गङ्गो राजाऽवसत् तत्र प्रतिपक्षशिवादिकः । रूपिणी तन्महादेवी प्रिया शिवमतिः परा ॥२॥ अस्यैव भूपतेरासीन्मत्री पल्लपतिनृपः । सम्यग्दर्शनसंपन्नः श्रावको नितरां भुवि ॥३॥ तत्प्रिया श्रीमहादेवी श्राविकाचारविग्रहा। गुणी रूपी कुमारोऽस्याः श्रीपालः श्रीसमन्वितः॥४॥ आचार्यों वसुपालाख्यो गुणशीलमहोदधिः। संघनाथस्तपोराशिस्तत्पुरे वसति स्म सः ॥५॥ अन्यदा श्रीमहादेवी परिवारसमन्विता । आषाढसितपक्षे च चतुर्थीदिवसान्विते ॥६॥ गृहकार्यविधिं कृत्वा चारुपुष्पाक्षतान्विता । महाविनयसंपन्ना लक्ष्मीश्रीरूपसंनिभा ॥७॥ उपवासं ग्रहीतुं सा श्रीः पञ्चम्या जिनप्रिया । स्नाताऽपरावेलायामाजगाम जिनालयम् ॥ ८॥ कृत्वा चैत्यनमस्कारं जिनभक्तिपरायणा । प्रापाशु श्रीमहादेवी वसुपालसमीपताम् ॥ ९॥ कृत्वा गुरोः परां भक्तिमुपवासं तदन्तिके । पञ्चम्यां श्रीमहादेवी तस्थौ विनयसंगता ॥ १०॥ .. वसुपालगुरोः पार्श्वे निविष्टां वीक्ष्य मातरम् । श्रीपालस्तत्सुतः प्राह विनयानतमस्तकः ॥११॥ उपवासो हि पञ्चम्या गृहीतो यस्त्वयाऽम्बिके । ममापि जायतां सोऽद्य पापविध्वंसकारणम् ॥१२॥ 20 कुमारवचनं श्रुत्वा श्रीदेवी निजगाद तम् । एवं भवतु मत्पुत्र शोभनं विहितं त्वया ॥ १३॥ वसुपालगुरुं नत्वा भक्तिहृष्टतनूरुहा । जगाम श्रीमहादेवी लीलया निजमन्दिरम् ॥ १४ ॥ श्रीपञ्चमीदिने जाते मध्याह्ने तं परीक्षितुम् । जगाद श्रीमहादेवी श्रीपालं निजनन्दनम् ॥१५॥ कुमार सुकुमाराङ्ग मचित्तानन्दकारण । बुभुक्षाग्रस्तचेतस्क भोजनं कुरु बालक ॥१६॥ जननीवाक्यमाकर्ण्य श्रीपालो निजगाद ताम् । उपवासो गृहीतोऽपि पञ्चम्यास्त्वत्समं मया॥१७॥ 23 भवतीगर्भसंभूतो गुणरञ्जितभूतलः । सांप्रतं तन्न मुञ्चामि म्रियमाणोऽपि मातृके ॥ १८॥ श्रीपालवचनं श्रुत्वा जगौ तं जननी पुनः। उपवासं कुरु स्तोक हसन्त्या गदितं मया ॥१९॥ कुमारणोदिता माता मया सद्भावतोऽम्बिके । उपवासो गृहीतोऽद्य जिनसिद्धादिसाक्षिकः ॥२०॥ उपवासव्रतं नूनं गृहीतं यन्मुनेः स्फुटम् । समीपे तन्न मुञ्चामि संगरोऽयं ममाम्बिके ॥ २१ ॥ निशम्य वचनं माता पुत्रस्य कृतनिश्चयम् । योषमादाय संतस्थे विस्मयव्याप्तमानसा ॥ २२ ॥ 30 अथास्तमनवेलायामादित्येऽस्तमनं गते । उपवासपरिश्रान्तः कुमारः समजायत ॥ २३ ॥ द्रव्यैः सुशीतलैस्तस्य तनुलग्नैरपि स्फुटम् । दाघस्तथाऽपि कायस्य प्रशमं याति न क्वचित् ॥२४॥
1 पफ श्रावकाचार. 2 पफज त्रिकलमिदम्. 3 पफ युग्मम् , ज युगलम्. 4 पफ युग्मम् , ज युगलम्. 5 [तोक]. 6 पफ युग्मम् , ज युगलमिदम्. 7 [जोषमादाय ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org