________________
३४०
.
हरिषेणाचार्यकृते बृहत्कथाकोशे
[१४५. २५- यदा नोपशमं याति तद्दाधस्तच्छरीरके । बहिर्गृहान्तरे दीपं तदा प्रज्वाल्य भाषितः ॥ २५ ॥ पश्यादित्यमिमं पुत्र प्रोद्गतं भासुरप्रभम् । भोजनं कुरु तेनाद्य विकल्पो न विधीयते ॥ २६ ॥ मातृवाक्यं समाकर्ण्य श्रीपालो निजगावमूम् । स्नेहनिर्भरचेतस्कां भयवेपितविग्रहाम् ॥ २७ ॥
क्षत्रियाः कुलसंजाता मानिनः समरेऽम्बिके । जीवितव्यं न मन्यन्ते यथा पौरुषवाञ्छया ॥२८॥ । जीवितं जायतां नो वा गणयन्तः स्वपौरुषम् । युध्यन्ते परचक्रेण सह संग्रामलम्पटाः ॥ २९ ॥ एवमत्रापि जैनेन्द्रं सर्वसत्त्वहितं परम् । जानन्निहाम्बिके धर्म हिताहितविवेकधीः ॥ ३०॥ जीव्यते म्रियते वाऽपि योद्धव्यं सह सेनया । परीषहाख्यया भद्रे नितान्तं भीमया मया ॥३१॥ मातृके यदि जीवामि प्रत्यूषे प्रोदिते रवौ । तदाऽशनप्रवृत्तिः स्यान्मम नूनं मनस्खिनि ॥३२॥
अथवैवं न जानामि साधुमार्गेण साधुना । अशनस्य समस्तस्य प्रत्याख्यानं ममाम्बिके ॥ ३३ ॥ " आराधनासमायुक्तः समाधिर्मम जायताम् । देवाधिदेवता वीरो जिनेन्द्रः शरणं परम् ॥ ३४ ॥ उक्त्वैवं मातरं दीनां श्रीपालो धर्मशुद्धधीः । जलकुण्डं च तत्रत्यं विवेश जलसंभृतम् ॥ ३५ ॥ तनुदाहं विहायायं श्रीपालः सकलं तदा । शीतलध्यानमाविष्टस्तस्थौ मुदितमानसः ॥ ३६ ॥ एवं व्यवस्थिते पुत्रे जननी पुत्रवत्सला । समस्तभुवने दीप प्रज्वाल्य निजगावमुम् ॥ ३७॥ पश्य पुत्र रविं दीप्तं द्योतिताखिलभूतलम् । भोजनं कुरु तेनाशु येन मे जायते सुखम् ॥ ३८॥ 15 निशम्य वचनं मातुः श्रीपालः स्थिरमानसः । बभाण जननी दीनां शोकसंतप्तचेतनाम् ॥ ३९ ॥ यावन्न गुरवो दृष्टाः संसारोत्तारणक्षमाः । तावन्मया न भोक्तव्यं म्रियमाणेन मातृके ॥ ४०॥ उक्तयाऽनेन पुत्रेण चाहूता गुरवोऽनया । ते वदन्ति तकं प्राप्य पुत्रादित्योऽयमुद्गतः ॥४१॥ वयं भिक्षानिमित्तेन संप्राप्तास्तद्गृहं बुध । मद्वाक्यतः स्फुटं तात सांप्रतं कुरु भोजनम् ॥४२॥ गुरुवाक्यं निशम्याशु हसित्वा न्यगदत्तकम् । भवाब्धि त्वत्प्रसादेन तरिष्यामि किल प्रभो ॥४३॥ 20 प्रत्याख्यानं प्रभजद्धिर्भवद्भिर्धर्मकोविदैः । संसारसागरे भीमे प्रपातो मे भविष्यति ॥ ४४ ॥
कुमारनिश्चयं ज्ञात्वा गुरुभिस्तत्त्ववेदिभिः । संसारसागरोत्तारतरण्डीभूतविग्रहः ॥४५॥ उत्तमार्थ समुद्घष्य प्रतिक्रमणदण्डकम् । संस्तरे स्थापितो वीरः श्रीपालो हितमिच्छुभिः ॥४६॥ सहित्वा धीरचित्तोऽसौ क्षुधापम्पापरिश्रमम् । समाधिमरणं प्राप्य श्रीपालस्त्रिदिवं ययौ ॥४७॥ तृष्णाभिभूतदेहेन बालेनापि पटीयसा । प्रत्याख्यानं न तद्भग्नं श्रीपालेन यशखिना ॥४८॥
॥ इति श्रीपालकथानकमिदम् ॥ १४५ ॥
१४६. नामवादिकथानकम् । दक्षिणापथदेशेऽस्ति नगरं कृषिपत्तनम् । राजाऽत्र विजयादित्यो धीरधीविजयापतिः॥१॥ तस्य वल्लभराजस्य नामवादी बभूव सः । श्रावकः परमः श्रेष्ठी सम्यग्दर्शनभूषितः ॥२॥ विनयाचारसंपन्ना श्राविका दर्शनान्विता । अभवच्छ्रेष्ठिनस्तस्य रमणीयं वसुंधरा ॥३॥ 30 अन्यदा सकले देशे धान्येन परिवर्जिते । दुर्भिक्षं दुर्धरं जातं बुभुक्षाग्रस्तजन्तुकम् ॥४॥ तत्र मध्याह्नवेलायां नामवादी वणिक्पतिः। जिनदेवस्तुतिं कृत्वा गृहे भोक्तुं स तस्थिवान् ॥५॥
... 1 पफ युग्मम् , ज युगलमिदम्. 2 पफज कुलकमिदम्. 3 पफज युगलमिदम्. 4 पफ युग्मम् , ज युगलमिदम्. 5[संप्राप्तास्त्वद्गहं]. 6 पफ युग्मम् , ज युगलमिदम्. 7 फ has lost some letters. 8 पफ युग्मम् , ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org