Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 497
________________ ३३८ हरिषेणाचार्यकृते वृहत्कथाकोशे [१४३. ६२वातवेगं समारुह्य तुरङ्गं प्रीतमानसः । अवाहय' तकं शीघ्रं चाणाक्यो निजलीलया ॥ ६२॥ जलदुर्ग प्रविश्यासौ वार्धिमध्ये सुधीरधीः । राज्यमन्वेषयंस्तस्थौ चाणाक्यः कृतनिश्चयः ॥ ६३॥ एवं हि तिष्ठतस्तस्य नरेणैकेन वेगतः । प्रत्यन्तवासिभूपस्य निवेदितमिदं वचः ॥ ६४ ॥ जलदुर्गे महानेकः समुद्रजलसंभवे । तिष्ठति प्रीतचेतस्को नरनागः सुबुद्धिमान् ॥ ६५॥ । प्रत्यन्तवासिभूपोऽपि निशम्यास्य वचः परम् । निनाय तं निजस्थानं चाणक्यं मतिशालिनम् ॥६६॥ पर्वतान्तं परिप्राप्य भूपाः प्रत्यन्तवासिनः । भक्तं प्रवेशयामासुर्धनं च सकलं तदा ॥ ६७॥ ततोऽमी नन्दभूपालं भूपैः प्रत्यन्तवासिभिः । उपायैर्भेदमानीतास्तस्थुस्तद्वेषमागताः ॥ ६८॥ प्रत्यन्तशत्रुभूपालैनन्दो दण्डं प्रयाचितः । अयं वक्ति न तं नूनं ददामि भवतां करम् ॥ ६९ ॥ ततोऽभिनन्दभृत्यानां मत्रभेदं विधाय च । निर्धाटनं छलेनैषां भ्रान्तिसंभ्रान्तिचेतसाम् ॥ ७० ॥ 10 खेन नन्दं निहत्याशु सुपुरे कुसुमनामनि । चकार विपुलं राज्यं चाणाक्यो निजबुद्धितः ॥७१॥ कृत्वा राज्यं चिरं कालं अभिषिच्यात्र तं नरम् । श्रुत्वा जिनोचितं धर्म हित्वा सर्वं परिग्रहम् ॥७२॥ मतिप्रधानसाध्वन्ते महावैराग्यसंयुतः । दीक्षां जग्राह चाणाक्यो जिनेश्वरनिवेदिताम् ॥७३॥ विहरन् गतियोगेन शिष्याणां पञ्चभिः शतैः । वनवासं परिप्राप्य दक्षिणापथसंभवम् ॥ ७४ ॥ ततः पश्चिमदिग्भागे महाक्रौञ्चपुरस्य सः । चाणक्यों गोकुलस्थाने कायोत्सर्गेण तस्थिवान् ॥७५॥ 15 बभूव तत्पुरे राजा सुमित्रो नाम विश्रुतः । तत्प्रिया रूपसंपन्ना विनयोपपदा मतिः ॥ ७६ ॥ मन्त्री सुबन्धुनामास्य नन्दस्य मरणेन सः। चाणक्योपरि संक्रुध्य तस्थौ तच्छिद्रवाञ्छया॥७७॥ ततः क्रौञ्चपुरेशस्य महासामन्तसेविनः । सुबन्धुबन्धुसंपन्नः समीपे तस्य तस्थिवान् ॥ ७८ ॥ अथ क्रौञ्चपुराधीशः श्रुत्वा मुनिसमागमम् । महाविभूतिसंयुक्तस्तं यतिं वन्दितुं ययौ ॥ ७९ ॥ चाणक्यादिमुनीन् नत्वा स तत्पूजां विधाय च । महाविनयसंपन्नो विवेश निजपत्तनम् ॥ ८॥ 20 ततोऽस्तमनवेलायां यतीनां शुद्धचेतसाम् । साग्निं करीषमाधाय तत्समीपेऽपि रोषतः ॥ ८१॥ विधाय खेन देहेन पापराशेरुपार्जनम् । महाकोधपरीताङ्गः सुबन्धुर्नरकं ययौ ॥ ८२॥" चाणक्याख्यो मुनिस्तत्र शिष्यपञ्चशतैः सह । पादोपगमनं कृत्वा शुक्लध्यानमुपेयिवान् ॥ ८३॥ उपसर्ग सहित्वेमं सुबन्धुविहितं तदा । समाधिमरणं प्राप्य चाणक्यः सिद्धिमीयिवान् ॥ ८४॥ ततः पश्चिमदिग्भागे दिव्यक्रौञ्चपुरस्य सा । निषधका मुनेरस्य वन्द्यतेऽद्यापि साधुभिः॥८५॥ ॥ इति चाणाक्यमुनिकथानकम् ॥ १४३ ॥ १४४. वृषभसेनमुनिकथानकम् । महान्ध्रविषये सारे दक्षिणापथसंभवे । आसीजनसमाकीर्णे विषयो भरताभिधः ॥१॥ कुलालनगरं तत्र राजा वैश्रवणोऽभवत् । पद्मावती प्रिया चास्य पद्मपत्रनिभेक्षणा ॥२॥ द्वेषको जिनधर्मस्य साधुसंघस्य निन्दकः । बभूव रिष्टको मत्री पद्मावत्याः कठोरधीः ॥ ३॥ 30 गणी वृषभसेनाख्यो मुनिसंघसमावृतः । आजगाम भ्रमन् क्वापि कुलालनगरान्तिकम् ॥४॥ श्रुत्वा वैश्रवणो भूपो मुनिसंघ समागतम् । लोकेन सह संप्राप वन्दितुं भक्तितत्परः ॥ ५॥ 25 1 [अवाहयत्तकं]. 2 पफ युग्मम् , ज युगलम्. 3 ज चाणाक्यं. 4 [ संभ्रान्त 1. 5 पफ युग्मम्, ज युगलम्. 6 [जिनोदितं ]. 7 पफ युग्मम् , ज युगलम्. 8 ज चाणाक्यो. 9 पफज युगलमिदम्. 10 ज चाणाक्योपरि. 11 पफ युग्मम् , ज युगलम्. 12 ज चाणाक्याख्यो. 13 ज चाणाक्यः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566