Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 477
________________ हरिषेणाचार्यकृते बृहत्कथाकोशे [१३१. ३३चिन्तयित्वा चिरं योगी भोजनातिपराङ्मुखः । ततो विस्मितचेतस्को जगाम जिनमन्दिरम् ॥३३॥ तत्रापरावेलायां कृत्वाऽवश्यकसक्रियाम् । संघस्यासौ समस्तस्य जगादैवं पुरो गुरुः ॥ ३४ ॥ एतस्मिन् विषये नूनमनावृष्टिर्भविष्यति । तथा द्वादशवर्षाणि दुर्भिक्षं च दुरुत्तरम् ॥ ३५ ॥ अयं देशो जनाकीर्णो धनधान्यसमन्वितः । शून्यो भविष्यति क्षिप्रं नृपतस्करलुण्टनैः ॥३६॥ । अहमत्रैव तिष्ठामि क्षीणमायुर्ममाधुना । भवन्तः साधवो यात लवणाब्धिसमीपताम् ॥ ३७॥ भद्रबाहुवचः श्रुत्वा चन्द्रगुप्तो नरेश्वरः । अस्यैव योगिनः पार्श्वे दधौ जैनेश्वरं तपः ॥३८॥ चन्द्रगुप्तिमुनिः शीघ्रं प्रथमो दशपूर्विणाम् । सर्वसंघाधिपो जातो विसषाचार्यसंज्ञकः ॥ ३९॥ अनेन सह संघोऽपि समस्तो गुरुवाक्यतः । दक्षिणापथदेशस्थपुन्नाटविषयं ययौ ॥ ४०॥ रामिल्लः स्थूलवृद्धोऽपि भद्राचार्यस्त्रयोऽप्यमी । वसंघसमुदायेन सिन्ध्वादिविषयं ययुः ॥४१॥ " भद्रबाहुमुनिीरो भयसप्तकवर्जितः । पम्पाक्षुधाश्रमं तीव्र जिगाय सहसोत्थितम् ॥४२॥ प्राप्य भाद्रपदं देशं श्रीमदुज्जयिनीभवम् । चकारानशनं धीरः स दिनानि बहून्यलम् ॥ ४३॥ आराधनां समाराध्य विधिना स चतुर्विधाम् । समाधिमरणं प्राप्य भद्रबाहुर्दिवं ययौ ॥४४॥ सुभिक्ष सति संजाते सर्वसंघसमन्वितः । दर्शनज्ञानचारित्रत्रयं सम्यक्प्रपाल्य च ॥४५॥ भद्रबाहुगुरोः शिष्यो विशाखाचार्यनामकः । मध्यदेशं स संप्राप दक्षिणापथदेशतः ॥४६॥ 16 रामिल्लः स्थविरो योगी भद्राचार्योऽप्यमी त्रयः। ये सिन्धुविषये याताः काले दुर्भिक्षनामनि ॥४७॥ पानान्नभोजनहींने काले लोकस्य भीषणे । आगत्य सहसा प्रोचुरिदं ते जनसंनिधौ ॥४८॥ वैदेशिकजनैःस्थैः कृतकोलाहलस्वनैः । पितापुत्रादयो लोका भोक्तुमन्नं न लेभिरे ॥४९॥ लोको निजकुटुम्बेन बुभुक्षाग्रस्तचेतसः। साधयित्वान्नमाबालं तद्भयान्निशि वल्भते ॥५०॥ भवन्तोऽपि समादाय निशि पात्राणि मगृहात्। नूनं कृत्वाऽन्नमेतेषु गत्वा देशिकतो भयात् ॥५१॥ 20 स्वश्रावकगृहे पूते भूयो विश्रब्धमानसाः । साधवो हि दिने जाते कुरुध्वं भोजनं पुनः ॥५२॥ तल्लोकवचनैरिष्टैर्भोजनं प्रीतमानसैः । अनेन विधिनाऽऽचार्यैः प्रतिपन्नमशेषतः ॥ ५३॥ अन्यदैको मुनिः कोऽपि निम्रन्थः क्षीणविग्रहः । भिक्षापात्रं करे कृत्वा विवेश श्रावकगृहम् ॥५४॥ तत्रैका श्राविका मुग्धाऽभिनवा गुर्विणी तदा । अन्धकारे मुनिं दृष्ट्वा तत्र सा गर्भमागतम् ॥५५॥ तद्दर्शनभयात् तस्याः स गर्भः पतितो द्रुतम् । दृष्ट्वाऽमुं श्रावकाः प्राप्य यतीशानिदमूचिरे ॥५६॥ ॐ विनष्टः साधवः कालः प्रायश्चित्तं विधाय च । काले हि सुस्थतां प्राप्ते भूयस्तपसि तिष्ठत ॥५७॥ यावन्न शोभनः कालो जायते साधवः स्फुटम् । तावच वामहस्तेन पुरः कृत्वाऽर्धफालकम् ॥५८॥ भिक्षापात्रं समादाय दक्षिणेन करेण च । गृहीत्वा नक्तमाहारं कुरुध्वं भोजनं दिने ॥ ५९॥ श्रावकाणां वचः श्रुत्वा तदानीं यतिभिः पुनः । तदुक्तं सकलं शीघ्रं प्रतिपन्नं मनःप्रियम् ॥ ६॥ एवं कृते सति क्षिप्रं काले सुस्थत्वमागते । सुखीभूतजनवाते दैन्यभावपरिच्युते ।। ६१॥ रामिल्लस्थविरस्थूलभद्राचार्याः स्वसाधुभिः। आहूय सकलं संघमित्थमूचुः परस्परम् ॥ ६२॥ हित्वाऽर्धफालकं तूर्णं मुनयः प्रीतमानसाः । निर्ग्रन्थरूपतां सारामाश्रयध्वं विमुक्तये ॥ ६३ ॥ श्रुत्वा तद्वचनं सारं मोक्षावाप्तिफलप्रदम् । दधुनिग्रन्थतां केचिन्मुक्तिलालसचेतसः ॥ ६४ ॥ रामिल्लः स्थविरः स्थूलभद्राचार्यस्त्रयोऽप्यमी । महावैराग्यसंपन्ना विशाखाचार्यमाययुः ॥ ६५ ॥ 1 पफज निकलमिदम. 2 पफज चतुःकुलकमिदम्. 3 ज विशषा', [ विशाखाचार्य]. 4 gives an emended reading श्रावकाः for सहसा. 5ज श्रावका, 6 [दृष्टा तत्र स्वगृहमागतम् ].7 पफज कुलकमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566