Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 475
________________ ३१६ हरिषेणाचार्यकृते बृहत्कथाकोशे [ १२९.३९ चिन्तयित्वा चिरं चक्री सुतमाहूय सत्वरम् । राज्यपठ्ठे बबन्धास्य समस्तनृपसाक्षिकम् ॥ ३९ ॥ बाह्यमाभ्यन्तरं संगं हित्वा सर्वं विशुद्धधीः । विनयंधरसामीप्ये प्रवत्राज स चक्रभृत् ॥ ४० ॥ देवौ सनत्कुमारस्य वैराग्यं दीक्षणं तथा । विधाय तोषसंपूणौं जग्मतुर्दिवमात्मनः ॥ ४१ ॥ अयं षष्ठोपवासान्ते सज्वरो धर्मतत्परः । विवेश नगरं योगी भिक्षार्थं क्रमयोगतः ॥ ४२ ॥ · दत्तं चीरकभक्तेन साजातक्रेण भोजनम् । देवदत्ताभिधानेन नरेणास्य मुनेस्तदा ॥ ४३ ॥ भुक्त्वा तद्भोजनं भूयः स साधुः प्रीतमानसः । षष्ठोपवासमादत्ते महावैराग्यसंगतः ॥ ४४ ॥ तद्दोषेण मुनेरस्य कच्छूश्वास ज्वरादयः । समाशतं समुद्भूता व्याधयोऽसुखकारणाः ॥ ४५ ॥ उग्रं तपस्तपो दीप्तं महदादि प्रकुर्वतः । मनसा वचसा तन्वा शुद्धस्यास्य मुनेस्तदा ॥ ४६ ॥ आमखेलौषधिः पूर्वं विष्टाजल्लौषधिस्तथा । सर्वौषध्यादयो जाता नूनमौषधिसिद्धयः ॥ ४७ ॥ 10 एता सनत्कुमारस्य तपो विदधतः परम् । प्रतीकारं न कुर्वन्ति पूर्वकर्मानुभावतः ॥ ४८ ॥ सौधर्मेन्द्रेण भूयोऽपि स्थितेन सुरसंसदि । स्तुतः सनत्कुमारोऽयं कुर्वता मुनिवर्णनम् ॥ ४९ ॥ अहो सनत्कुमारस्य प्रथितं परमं तपः । अध्यासितोऽमुना तीव्रस्तथा वाधिपरीषहः ॥ ५० ॥ सौधर्मेन्द्रवचः श्रुत्वा तावेव विबुधौ पुनः । संप्राप्य वैद्यवेषेण प्रोचतुर्मुनिपुङ्गवम् ॥ ५१ ॥ साधुधर्मशरीरस्य त्वदीयस्य महामुने । आवां सुपुण्यवृत्त्यर्थं कुर्वे व्याधिविनाशनम् ॥ ५२ ॥ 15 श्रुत्वा सनत्कुमारोऽपि तदीयं वचनं मुदा । उवाच तौ स्थितौ तस्य पुरतः कुटिलाशयौ ॥ ५३ ॥ यदि वैद्यौ भवन्तौ च प्रसिद्धौ भुवि कोविदौ । संसारव्याधिमत्युग्रं निराकुरुत मे ततः ॥ ५४ ॥ निशम्य तद्वचो भूयो देवौ तावूचतुर्मुनिम् । नूनमावां निराकर्तुं संसारव्याधिममौ ॥ ५५ ॥ समस्तभुवनख्यातो महावैद्यो रुजापहः । अमुं त्वमेकयोगीन्द्र निराकर्तुमलं प्रभो ॥ ५६ ॥ एवं निगद्य तं साधुं तोषविस्फारितेक्षणौ । भूयोऽपि तन्नुतिं कृत्वा जग्मतुस्तौ सुरालयम् ॥ ५७ ॥ 20 साधुः सनत्कुमारोऽपि कृत्वा कर्मविनाशनम् । अनन्तसुखसंयुक्तं प्रययौ सिद्धिपत्तनम् ॥ ५८ ॥ ॥ इति श्रीसनत्कुमारचक्रीकथानकमिदम् ॥ १२९ ॥ १३०. एणिका पुत्रकथानकम् । १ ॥ वैदिशाख्यपुरे चासीत् प्रजापालो महीपतिः । सुनन्दा कामिनी तस्य हरिणी लोललोचना ॥ तस्यैव भूपतेरासीदानन्दाख्यो महाधनः । राजश्रेष्ठी जनानन्दो नन्दिताशेषबान्धवः ॥ २ ॥ 25 अभवत् तत्प्रिया चावीं सुनन्दा भुवि विश्रुता । पद्मावत्यादिका जाताः सुताः सप्तानयोः पराः ॥ ३ ॥ एणिका नाम विख्याता चावीं सर्वकनीयसी । दत्ता सागरदत्ताय श्रेष्ठिने जनकेन सा ॥ ४ ॥ अनयोरैणिकापुत्रो नन्दनोऽभवदिद्धधीः । महाविभवसंपन्नो धर्मैकरसिकस्तराम् ॥ ५ ॥ वर्धमानजिनः पृष्टस्तेनायुः स्वस्य जातुचित् । स्तोकमायुः समाख्यातं महावीरेण तस्य च ॥ ६ ॥ श्रुत्वाऽयं सन्मतेर्वाक्यं संसारत्रस्तमानसः । प्रवत्राज जिनस्यान्ते महावैराग्यसंयुतः ॥ ७ ॥ ग्रामादिकं कदाचिच्च विहरन् गतियोगतः । उत्तरीतुं समारूढो नावं गङ्गानदीमसौ ॥ ८ ॥ गङ्गानदीजलान्तेऽसौ नौर्निमग्ना निमूलतः । समाधिमरणं प्राप्य निर्वाणमगमत् सकः ॥ ९ ॥ ॥ इति श्रीणिका पुत्रकथानकमिदम् ॥ १३० ॥ 30 * 1 पफज षट्कुलकमिदम्. 2 पफज युगलमिदम्. 3 [ व्याधिपरीषहः ] 4 पफज युगलमिदम्. 5 पफज युगलमिदम्. 6 पफज युगलमिदम्. 7 पफज त्रिकलमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566