Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 484
________________ ३२५ -१३८. १७] विद्युच्चरमुनिकथानकम् १३७. अभयघोषमुनिकथानकम् । आसीदभयघोषाख्यः 'काकन्धाख्यपुरीभवः । अभयादिमतिर्भार्या तन्नरेन्द्रस्य च वल्लभा ॥१॥ अन्यदाऽनेन भूपेन निर्गतेन पुरावहिः । चतुरङ्गेन सैन्येन सहितेन प्रधावता ॥२॥ चतुर्वपि च पादेषु बवा कच्छपमादरात् । यष्टिकायां प्रलम्ब्यैतं तत्पुरं प्राविशन्मुदा ॥३॥ सर्वाङ्गीणं वदंतोष भार्याशिशुसमुत्सुकः । दृष्टः स मात्स्यिकस्तूर्णं गच्छद्गीतं समुच्चरन् ॥ ४॥ भूपेनाभयघोषेण चक्र मुक्त्वा प्रयत्नतः । कच्छपस्यैकघातेन छिन्नं पादचतुष्टयम् ॥ ५॥ जीवन् स कच्छपोऽनेन धीवरेण त्वरावता । नीतः स्वमन्दिरं बाढं भयविह्वलचेतसा ॥६॥ कालं कृत्वा स दुःखेन तस्यामेव निशि द्रुतम् । नन्दनोऽभयघोषस्य चण्डवेगाभिधोऽजनि ॥७॥ प्रासादेऽभयघोषोऽपि भुञ्जानो भोगसंपदम् । खदेवीभिः समं सारं तिष्ठति प्रीतमानसः ॥८॥ विलोक्य सहसा चन्द्रं गृहीतं राहुणा तदा । स नरेन्द्रः सवैराग्यो नन्दनान्तेऽग्रहीत् तपः॥९॥॥ काकन्दीतः स संप्राप्य श्रीमदुजयिनी पुरीम् । वीरासनेन संतस्थेऽभयघोषमहामुनिः ॥१०॥ चण्डवेगाभिधानेन तत्पुत्रेणास्य कोपतः । पूर्ववैरेण संछिन्नं हस्तपादचतुष्टयम् ॥ ११ ॥ सहित्वाऽभयघोषोऽपि चण्डवेगोपसर्गकम् । केवलज्ञानमुत्पाद्य प्रययौ मोक्षमक्षयम् ॥ १२॥ ॥ इति अभयघोषमुनिकथानकमिदम् ॥ १३७ ॥ १३८. विद्युच्चरमुनिकथानकम्। अत्रैव भरतक्षेत्रे मिथिलानगरीभवः । आसीद् वामरथो राजा शूरः पद्मरथान्वये ॥१॥ बभूव तन्महादेवी रूपयौवनसंयुता । इष्टा बन्धुमती नाम बन्धुलोकमनःप्रिया ॥२॥ आरक्षिकोऽभवत् तत्र यमदण्डो यमोपमः । चौरो विधुच्चरः ख्यातश्चतुःषष्टिकलाऽन्वितः॥३॥ आदाय साररत्नानि बहुमूल्यानि तत्पुरे । भूमौ निधापयत्येष विधुच्चौरः कलाऽन्वितः॥४॥ कुष्टग्रस्तसमस्ताङ्गः कुथिताखिलविग्रहः । दिने देवकुले सोऽयं निर्विण्णो व्यवतिष्ठते ॥ ५॥ ॥ दिव्यदेहधरो नक्तं हृत्वा लोकधनं बहु । कामं गणिकया सार्धं भुञ्जानः स वितिष्ठते ॥ ६॥ अन्यदा तद्गृहं नक्तं प्रविश्य मतिकौशलात् । हारं वामरथस्यायं गृहीत्वा निर्ययौ द्रुतम् ॥ ७॥ यमदण्डं समाहूय प्रभातसमये सति । जगौ वामरथो राजा निद्राघूर्णितलोचनः॥८॥ अद्य नक्तं प्रविश्यैको मद्वासभवनं नरः। दिव्यरूपधरः श्रीमान् विद्युदुज्वलदेहकः ॥९॥ मोहं विधाय मे देव्याः पश्यतो मूढचेतसः । सुरदत्तं समादाय मुक्ताहारं स निर्ययौ ॥१०॥ यदि तं तस्करं तूर्णं लभसे दिनसप्तके । ततस्ते शोभनं नूनमन्यथा दण्डमर्हसि ॥११॥ श्रुत्वा वामरथस्सोक्तं तदानीं दण्डपाशिकः । चौरस्यान्वेषणं कर्तुं निर्गतोऽसौ नृपान्तिकात् ॥१२॥ आरामापणवापीषु "सरःसाणूरवेश्मसु । कुर्वाणोऽन्वेषणं चौरं यमदण्डो न दृष्टवान् ॥१३॥ अनाथं देशिकं धृत्वा शालायां सप्तमे दिने । तलारो हृष्टचेतस्को नृपान्तं गन्तुमुद्यतः॥१४॥ अञ्जनं गुटिकां दिव्यां गृहीत्वा रक्षकाग्रतः । मायारूपपरावर्त मायारूपं प्रकुर्वणाम् ॥ १५॥ ० नरदेवविमानानां कृतमागमनं वरम् । अनेन मायया स्पष्टमिन्द्रजालस्य दर्शनम् ॥ १६ ॥ ततोऽहं तस्करो नैव तलारो गुटिकाञ्जनम् । आदाय मद्वधार्थं च विदधाति परिस्फुटम् ॥१७॥ ___ 1 [काकन्द्याख्य ]. 2 [तन्नरेन्द्रस्य वल्लभा ]. 3 पफज युगलमिदम्. 4 फज सनन्दनः. 5 पफज चतु:कुलकमिदम्. 6ज साणूर कूप. 7 ज विदधामि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566