Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 486
________________ ३२७ -१३९.७] गजकुमारकथानकम् पृथुराज्यं मयि स्पष्ट कुर्वाणो नरनायकः । अयं तत्पत्तनं याति नक्तं दिवमतन्द्रितः ॥५१॥ मत्पुरं सकलं राजन् रक्षताऽनेन चौरतः । मत्प्रभुस्तस्करोऽत्यर्थं तलारोऽहं च तत्पुरे ॥ ५२ ॥ न शोभनमिदं कार्य विधातुं नगरेऽत्र मे। तस्करो यत्र भूपालस्तत्र किं क्रियते मया ॥ ५३॥ चिन्तयित्वा चिरं तत्र मद्भयेन गरीयसा । आरक्षिकपदं हित्वा त्वदन्तमयमागतः ॥ ५४॥ बहुकालमदृष्ट्वाऽमुं कुर्वाणोऽस्य परीक्षणम् । अहं समागतो राजन् भवदीयं पुरं द्रुतम् ॥ ५५ ॥ । आवयोरेष संबन्धः प्राकृतः प्रकटो महान् । नरवृन्दारक स्पष्टः कथितस्ते मयाऽखिलः ॥५६॥ हारादिकं धनं सर्वं भूपालस्य पुरो लघु । तदा समर्पयामास विद्युच्चौरः सभान्तरे ॥ ५७ ॥ लोकोऽपि सकलं दिव्यं स्वकीयं तत्पुरोद्भवम् । जग्राह विस्मितस्वान्तस्तोषविस्फारितेक्षणः॥५८॥ इमं निगद्य वृत्तान्तं भूपस्य पुरतोऽखिलम् । तस्थौ मुदितचेतस्को विद्युच्चौरो नृपान्तिके ॥ ५९॥ अथ विधुच्चरस्यान्तं विज्ञाताशेषकारणेः । मत्रिभिः प्रहितो दूतो विन्यातटपुरादरम् ॥ ६०॥ ॥ विद्युच्चौरं परिप्राप्य जगौ दूतोऽपि तत्पुरः । आगत्य स्वपुरं शीघ्रं कुरु राज्यमकण्टकम् ॥ ६१ ॥ राजाऽयं सकलं ज्ञात्वा वृत्तान्तं दूतवाक्यतः । विद्युचौराभिधो नूनं भागिनेयो ममागतः ॥ ६२॥ भागिनेयं परिज्ञाय राजाऽयं निजगावमुम् । ददामि ते सुतां वत्स प्रतीच्छ द्रुतमादरात् ॥ ६३॥ अपकर्ण्य वचस्तस्य मातुलस्य विषादिनः । यमदण्डसमेतोऽसौ जगामाशु स्वपत्तनम् ॥ ६४ ॥ तत्र पुत्रं समाहूय समस्तजनसाक्षिकम् । राज्यपढें बबन्धास्य तदा विद्युच्चरः सुधीः ॥६५॥ 15 हित्वा परिग्रहं सर्वं बहुसामन्तसंगतः । गुणसेनान्तिके दीक्षां दधौ विधुच्चरस्तदा ॥६६॥ नानातपः प्रकुर्वाणः शिष्याणां पञ्चभिः शतैः । तामलिन्द्रीं पुरीं प्राप मन्दं विद्युचरो मुनिः॥६७॥ तत्पुराभ्याशवर्तिन्या दुर्गया सहसा मुनिः । गदितोऽयं महाभत्तया नतया तत्पदाम्बुजे ॥ ६८॥ यावत् समाप्तिमायाति मत्पूजा परमेश्वरः । तावन्मा पत्तनं याहि सदयं दिनपञ्चकम् ॥ ६९ ॥ अपकर्ण्य वचस्तस्याः शिष्यैः प्रेरितमानसः । विवेश नगरी धीरः पताकावलिराजिताम् ॥ ७० ॥ 20 तामलिन्द्रीपुरस्यास्य समीपे परिधेरयम् । तस्थौ पश्चिमदिग्भागे नक्तं प्रतिमया मुनिः ॥ ७१ ॥ एवं स्थिते मुनौ तत्र रात्रौ देवतया तया । रुपा दंशोपसर्गोऽयं विहितः क्रूरचित्तया ॥ ७२ ॥ नानादंशोपसर्ग तं सहित्वा मेरुनिश्चलः । विद्युच्चरः समाधानान्निर्वाणमगमद्रुतम् ॥७३॥ ॥ इति श्रीविद्युच्चरमुनिकथानकमिदम् ॥ १३८ ।। 25 १३९. गजकुमारकथानकम् । अथ श्रावस्तिकाख्यायां नगर्यामभवत् प्रभुः । इक्ष्वाकुवंशसंभूत उपर्युपपदश्चरः ॥१॥ अभवत् तन्महादेवी पद्मावत्यभिधानिका । तनयोऽनन्तवीर्याख्योऽनन्तवीर्यः परोऽनयोः ॥२॥ शतानि पञ्च पुत्राणां सन्ति तस्य महीभृतः । रूपयौवनयुक्तानां वज्रपाण्यादिशालिनाम् ॥ ३॥ अथोपरिचरो राजा स्वकीयान्तःपुरान्वितः । महाप्रमोदसंयुक्तः प्रमदादिवनं ययौ ॥४॥ तत्र पद्मावती देवी द्वितीया चामितप्रभा । तृतीया सुप्रभा चाथ चतुर्थीयं प्रभावती ॥ ५॥ 30 महादेवीभिरेताभिः क्रीडितुं सह तदने । सुदर्शनाख्यवाप्यन्ते दृष्ट्वोपरिचरं नृपम् ॥ ६॥ मदनोपपदा वेगा विद्युइंष्ट्रधवान्विता । तदा प्रशंसयामास रममाणा वनान्तरे ॥७॥" 1 [द्रव्यं]. 2 ज तामलिन्द्रीपुरी. 3 [परमेश्वर ]. 4 पफ नानादेशोपसर्ग. 5 पफज युगलम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566