Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 490
________________ -१३९. १४० ] गजकुमारकथानकम् अमराः केवलं ज्ञात्वा गुरुदत्तमहामुनेः । चतुर्विधाः परिप्राप्ता नन्तुं केवलिनं तदा ॥१०७॥ दृष्ट्वाऽतिशयमीक्षं गुरुदत्तस्य योगिनः । कृत्वा खनिन्दनं बाढं प्राप्य केवलिनं द्विजः ॥१०८॥ नत्वा केवलिनः पादौ श्रुत्वा धर्म जिनोदितम् । पप्रच्छ स्वभवान् पूर्वान् कपिलो भयवेपितः॥१०९॥ श्रुत्वाऽस्य वाचिकं शीघ्रं गुरुदत्तोऽपि केवली । जगाद तद्भवान् पूर्वान् संक्षेपेण यथाक्रमम् ॥११०॥ आसीस्त्वं प्रथमं भद्र विद्युदंष्ट्रः सुखेचरः । हतो नागकुमारेण मृत्वा रत्नप्रभामितः ॥१११॥5 ततो निर्गत्य रुष्टेन तोणिमत्पर्वतोपरि । पुण्डरीको महाकायः शातदंष्ट्रो भयंकरः ॥ ११२ ॥ गुरुदत्तेन भूपेन तद्गिरौ पञ्चताविधिम् । नीतोऽसि सांप्रत जातः कपिलः कपिलापतिः॥११३॥ श्रुत्वा केवलिनो वाक्यं हित्वा वैरं पुरातनम् । बभूव कपिलः सद्यस्तदन्ते मुनिपुङ्गवः ॥११४ ॥ कपिलोऽयं गृहीतार्थों गृहीतैकविहारकः । यथास्तमनशायी च कौङ्कणं विषयं ययौ ॥ ११५॥ गिरिवल्लरके भीमे शुष्ककाष्ठचयोपरि । कपिलः शर्वरीयोग जग्राह स्थिरमानसः ॥ ११६॥ 10 ततस्तद्वल्लरे वह्नि क्षिप्त्वा नक्तं स पामरः । अजानंस्तं मुनि तत्र जगाम स्खं निकेतनम् ॥११७॥ उपसर्ग सहित्वाऽरं चित्रभानुसमुद्भवम् । कपिलः शुद्धचेतस्कः कालं चक्रे समाधिना ॥११८॥ ततोऽसावच्युते कल्पे हारकुण्डलराजितः । द्वाविंशतिसमुद्रायुर्जातो देवो महर्द्धिकः ॥ ११९ ॥ ततोऽसौ कौङ्कणः प्राप्य प्रभाते वलरं द्रुतम् । तत्र तं मुनिमालोक्य वह्निना भस्मसात्कृतम् ॥१२०॥ विधाय निन्दनं वस्य गर्हणं च सुदुःखितः। तस्मिन्नग्नौ स्वयं क्षिप्त्वा देवो हीनोऽभवत् पुनः॥१२१॥ 15 आयुरन्ते सको विन्ध्ये नानाव्यालनगाकुले । श्वेतहस्ती बभूवाशु भीमरूपः सितध्वजः ॥१२२॥ अन्यदा तं गजं दृष्ट्वा कुर्वन्तं जनसंक्षयम् । अच्युतेन्द्रः समायातस्तदा बोधयितुं वने ॥१२३॥ बोधयित्वा तकं शीघ्रं नयदृष्टान्तहेतुभिः । अच्युतेन्द्रो दिवं जातो गजोऽपि प्रशमं ययौ ॥१२४॥ संयमाख्यं तपः शान्तं गजोऽयं प्रीतमानसः । चकारानुदिनं तत्र क्षान्तिभूषितविग्रहः ॥ १२५॥ अन्यदा गजवृन्दं च दावानलशिखाहतम् । अधो न्यग्रोधवृक्षस्य तस्थौ संत्रस्तमानसम् ॥१२६॥ 20 दावानलश्चिरं तत्र ज्वालाभासितपुष्करः । शुष्कशाखां दहत्यग्निनितान्तं तद्गजोपरि ॥ १२७॥ एवं ज्वलति तद्वह्नौ सम्यग्दृष्टिगजस्य च । पादमूलेऽग्निसंत्रस्तः प्रविष्टः शशकस्तदा ॥ १२८॥ सम्यग्दृष्टिगजो मृत्वा दावानलशिखाहतः । शान्तिभूषितचेतस्कः सहस्रारे सुरालये ॥ १२९ ॥ पद्मगुल्मविमानेऽभून्मुक्ताहारविराजितः । अष्टादशसमुद्रायुः सुरो रूपमनोहरः ॥ १३०॥ ततो गजचरो देवश्युत्वा राजगृहे पुरे । श्रेणिकस्य महादेव्या गर्ने सोऽयं धनश्रियः ॥ १३१ ।। 25 श्रेणिकस्य महादेव्या रूपवत्या धनश्रियः । तस्मिन् गर्भस्थिते देवे दौहृदं समभूदिदम् ॥१३२॥ अभिरुह्य गजं हन्तुं प्रावृटकाले सविद्युति । स्कन्धावारेण सर्वेण प्रविश्य गहनं वरम् ॥ १३३ ॥ न्यग्रोधस्य फलावाप्त्यै दिव्यशाखादिशालिनः । फलपत्रसमृद्धस्य चित्रपादपशोभिनः ॥ १३४॥ रजनीपश्चिमे यामे श्वेतस्य वनहस्तिनः । स्वप्ने प्रदर्शनं जातं मम नाथाद्य शोभनम् ॥ १३५ ॥ धनश्रियो वचः श्रुत्वा श्रेणिको दुःखिताशयः । अभयादिकुमारं च समाहूयाभ्यधादिदम् ॥१३६॥ 30 कुमार सुकुमाराङ्ग मतिराजितमानस । उपायं ब्रूहि मे शीघ्रं दौहृदस्य धनश्रियः ॥ १३७ ॥ तातीयं वचनं श्रुत्वा कुमारोऽभयपूर्वकः । तदुपायं जगादेमं श्रेणिकस्य पुरस्तदा ॥१३८ ॥ विद्यते विजयाधस्य दक्षिणस्यां दिशि प्रभो । आकाशतिलकाभिख्या नगरी परमोत्सवा ॥ १३९ ॥ बभूवास्यां पुरि श्रीमान् खेचरेन्द्रो मनःप्रियः । कनकोपपदा माला तत्प्रिया मनसः प्रिया ॥१४॥ ____ 1 पफज युगलमिदम्. 2 पफ काष्ठचरोपरि. 3 [ यातो ]. 4 ज गर्भे स धनश्रियः, [ सोऽयाद्धनश्रियः ]. 5 पफज चतुःकुलकमिदम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566