Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 469
________________ हरिषेणाचार्यकृते बृहत्कथाकोशे [१२७. १४८विदित्वाऽऽश्चर्यमेतस्या नागदत्तास्वरूपया । प्रियङ्गुलतया साकं वराङ्गोऽपि महामनाः ॥१४८॥ जिनधर्ममुपाश्रुत्य वैराग्याहितबुद्धयः । यशोधरसकाशे च चत्वारोऽपि प्रवव्रजुः ॥ १४९ ॥ नत्वा केवलिनः पादौ भक्त्या विस्मयमागतः । सुकेशिनीमृतं चामुं पप्रच्छ धरणीपतिः ॥१५०॥ भूपालवचनं श्रुत्वा यशोधरमुनीश्वरः । सुकेशिनीभवानस्य जगादेति महीभृतः ॥१५१॥ । दक्षिणापथदेशोत्थमथुरानगरीभवः । अस्ति गन्धर्वभूपालो गन्धर्वरमणीपतिः॥ १५२ ॥ अस्यैव भूपतेः श्रेष्ठी बभूवायं सुदर्शनः । रूपयौवनसंपन्ना वीरश्रीरस्य गेहिनी ॥ १५३॥ प्रियङ्गुदर्शनाभिख्यो नन्दनो बन्धुनन्दनः । अन्योन्यप्रेमसंयुक्तदम्पत्योरनयोरभूत् ॥ १५४॥ तस्मिन्नेव पुरे श्रीमान्नन्दिश्रेष्ठी प्रियंवदः । बभूवास्य प्रिया दिव्या विजया धववल्लभा ॥१५५ ॥ रूपराजितसर्वाङ्गी सर्वलोकमनोहरी । कलकोकिलनिस्वाना कीर्तिनामा सुताऽनयोः ॥ १५६ ॥ " तूर्यमङ्गलनिस्तानैर्वितीर्णा जनकेन च । प्रियङ्गुदर्शनायैषा परिणीता विधानतः ॥ १५७ ॥ अन्यदा वारिबन्धेन बद्धो वनगजो महान् । गन्धर्वभूभुजा नीतस्तत्पुरासन्नवर्तिना ॥ १५८॥ प्रशंसितं जनैः सर्वैरटवीसुखसंगतम् । महीधरसमुत्तुङ्गं रूपिनं वनकुञ्जरम् ॥ १५९ ॥ वारिबद्धं विलोक्येमं कीर्तिभार्यासमन्वितः । प्रियङ्गुदर्शनस्तोषान्निदानमकरोत् तदा ॥ १६० ॥ गुलाफलसमाक्षेण भीमसर्पण कोपतः । प्रियङ्गुदर्शनो दष्टः सकीर्तिम॒तिमाप सः ॥ १६१॥ 15 मलयाद्रो समुद्भूते पश्चिमार्णवरोधसि । महाचन्दनसद्गन्धवासिताकाशभूतले ॥ १६२ ॥ नीलाञ्जनसमच्छायो बिससन्निभदन्तकः । प्रियङ्गुदर्शनो जातो हस्ती मलयसुन्दरः ॥ १६३॥ तद्भार्या कीर्तिसंज्ञा च कुन्दपुष्पसमप्रभा । बभूव वल्लभा तस्य मलया नाम हस्तिनी ॥ १६४॥ परस्परसुखासंगसक्तमानसयोस्तयोः । पूर्वस्नेहानुबन्धन बभूव प्रीतिरुत्तमा ॥१६५॥ रक्तोत्पलसमानामा मन्दमन्दगतिक्रिया । पद्मावती बभूवास्य द्वितीया करिणी प्रिया ॥ १६६॥ 20 मलयायै वितीर्यादौ गजोऽयं पल्लवादिकम् । पद्मावत्या ददौ पश्चादनुक्रमविधानतः ॥ १६७ ॥ श्वेतरक्तसरोजाभ्यां यथा मध्ये व्यवस्थितम् । नीलोत्पलं तरां भाति रमणीलोचनच्छवि ॥१६८॥ श्वेतरक्ताभयोमध्ये करिण्योरनयोः स्थितः । तथाऽयं कुञ्जरो भाति नीलनीरदसंनिभः ॥ १६९ ॥ आभ्यां समं गिरौ तत्र भुञ्जानो हस्तिजं सुखम् । तस्थौ मुदितचेतस्कः करी मलयसुन्दरः ॥१७०॥ अन्यदा तत्समं हस्ती प्रभंकरसरोवरे । स्नात्वा पीत्वा जलं शीतं जग्राह कमलद्वयम् ॥ १७१॥ 28 पद्मद्वयं समादाय करेण स करी पुनः । पश्यामि मलयानेहं कीदृशं मयि तिष्ठते ॥ १७२ ।। मलया वामपार्थे च धूर्तेन स्थापिताऽमुना । पद्मावती तथा स्वस्य दक्षिणा करिणी परम् ॥१७३॥ मदविह्वलचित्तेन परमार्थमजानता । वितीर्ण प्रथमं पद्मं पद्मावत्या हि हस्तिना ॥ १७४ ॥ मलयायाः पुनः पश्चाद् वितीर्ण नलिनं मुदा । निजहस्तेन तेनैवं कपटेन विलासिना ॥ १७५ ॥ पश्चाद् वितीर्णमेतेन कमलं मम मायिना । धूर्तेन वञ्चिताऽस्मीति सदुःखा मलयाऽभवत् ॥१७६॥ " ईय॑या सा च संग्रस्ता संपत्य गिरिमस्तकात् । कृत्वा विलापमत्यर्थ ममार मलया द्रुतम् ॥१७७॥ ततो मृता सती पश्चान्मलया मलयाचले । काकतालीययोगेन संजातेह सुकेशिनी ॥ १७८ ॥ हस्तिनीभिः समानीतं कलिङ्गपरमं गजम् । वारिबद्धं नगोत्तुङ्गं विलोक्यैतं महागजम् ॥ १७९ ॥ जातिस्मरत्वमासाद्य विह्वलीभूतमानसा । मानसे दुःखसंपूर्णे दध्याविति सुकेशिनी ॥ १८० ॥ मम कालगताया हि करी मदनसुन्दरः । शोकमल्पं चकारासौ मदविह्वलमानसः ॥ १८१॥ 1 पफज युगलमिदम्. 2 पफ प्रियङ्गदशन. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566