Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 468
________________ -१२७. १४७] सुकोशलकथानकम् ३०९ श्रुत्वा तद्वचनं सोऽपि बभाणेमं सकौतुकम् । सुतेयं नागदत्तस्य श्रेष्ठिनस्तव भूपते ॥ ११५ ॥ निशम्य भारतीमस्य विस्मयव्याप्तचेतसः । सहस्रकूटतो राजा निर्जगाम बहिद्रुतम् ॥ ११६॥ संपूर्णयौवनां दृष्ट्वा कन्यामेतां धनाधिपः । खरूपां प्राह कस्यायं ददामि वद सांप्रतम् ॥ ११७॥ निशम्य तद्वचः साऽपि बभाणेमं पुरःस्थितम् । मद्भातृव्यसुतायेयं जितरङ्गाय दीयताम् ॥ ११८॥ सुरूपावचनं श्रुत्वा भूभुजा स्वपुरोहितः । नागदत्तान्तिकं तूर्णं वरणार्थं विसर्जितः ॥ ११९ ॥ तेनापि तत्समीपस्थं गत्वाऽयं विनिवारितः । सोऽपि तद्वाक्यतस्तस्थौ भूपालवचनानुगः॥१२०॥ ततः स्वनरवाक्येन तोषकण्टकिताङ्गकः । कन्यावरणतो राजा श्रेष्ठिगेहं ययौ क्षणात् ॥ १२१॥ कृत्वा जिनमहं श्रेष्ठी गन्धपुष्पाक्षतादिभिः । गन्धमादनभूपाय प्रददौ तां स्वकन्यकाम् ॥१२२॥ ततश्चत्वारि वर्षाणि तया सार्धं महीपतिः । कामभोगान् प्रभुञ्जानस्तस्थौ मुदितमानसः ॥१२३॥ कलिङ्गाधिपती राजा हस्तिसंक्षोभणे सति । वनहस्तिप्रवेशार्थं वारिबन्धं ययौ द्रुतम् ॥ १२४ ॥ वारिबन्धान्तरं दृष्ट्वा विशन्तं वनहस्तिनम् । सुकेशिन्याः स पप्रच्छ धात्रिकां धरणीपतिः॥१२५॥ निशम्य भूपतेर्वाक्यं जगौ धात्री नराधिपम् । राजन् हस्तिसमूहं हि सुकेशिन्याः प्रदर्शय ॥१२६॥ भो भो चित्रकर स्पष्टं विधाय मणिकुट्टिमे । हस्तियूथं महादेव्यै त्वं प्रदर्शय सांप्रतम् ॥ १२७ ॥ एवं निगद्य तं राजा सन्मान्य धनसंपदा । द्रुतं प्रपेषयामास' महादेवीसमीपकम् ॥ १२८॥ स्पष्टं चित्रकरः सद्यस्तूलिकाभिर्विधाय सः । हस्तियूथं सजीवं वा दर्शयामास तत्पुरः ॥ १२९॥ निजपूर्वभवोपेतं हस्तियूथं मनोहरम् । सुकेशिनी प्रपश्यन्ती तस्थौ मुदितमानसा ॥ १३० ॥ अत्रान्तरे चिरं रन्त्वा नृपतिर्वनहस्तिना। कृत्वाऽमुं स्ववशं तस्मादाजगाम प्रियान्तिकम् ॥१३१॥ ततः सुकेशिनीपार्थात् समायातं नरं नृपः । पप्रच्छ तोषसंजातरोमाञ्चार्चितविग्रहः ॥ १३२ ॥ भो भो नर मया दान्ते नितान्तं वनहस्तिनि । सुकेशिनी वद क्षिप्रं संतुष्टा किं ममोपरि ॥१३३॥ नरेन्द्रवचनं श्रुत्वा स नरः प्राह भूपतिम् । न सा संतोषमायाता प्रत्युतैवं जगाद च ॥ १३४ ॥ 20 मलयं प्राप्य किं कान्तो दान्त्वा मलयसुन्दरम् । हस्तिनं भूधराकारं गजलक्षणलक्षितम् ॥१३५॥ येनेमं कुम्भिनं दान्त्वा मेण्ढकोपमविग्रहम् । मदन्तिकं नरं कान्तः प्राहिणोति मदेद्धधीः ॥१३६॥ आकर्ण्य तद्वचो राजा मानशैलमधिष्ठितः । स्वसैन्यसमुदायेन जगाम मलयाचलम् ॥१३७॥ राजाऽतिरवमाहूय महाभट्युवाच च । क्षेपिष्ठमानय स्पष्टं गजं मलयसुन्दरम् ॥ १३८ ॥ नृपवाक्यं समाकर्ण्य स भटो बहुभिर्भटैः । जगामान्तिकमेतस्य गजस्य मदमुद्वहन् ॥ १३९ ॥ 23 दूराद् विलोक्य तं नागं भयवेपितविग्रहाः । वशीकर्तुमशक्तास्ते नृपान्तं पुनराययुः ॥ १४० ॥ विलोक्य भूपतिः सर्वान्नरान् स्वान्तिकमागतान्। उवाचेत्थं पुनः कोपात् म्लानवक्रसरोरुहान्॥१४१॥ रेरे खलं दुराचारं हत्वा तं करिणं नराः । क्षिप्रमानीयत स्पष्टं तन्मौक्तिकरदानपि ॥ १४२ ॥ नृपाज्ञां ते परिप्राप्य हत्वा ते करिणं रणे । तन्मौक्तिकानि दन्तौ च मुमुचुनृपतेः पुरः ॥ १४३॥ आदाय भूपतिस्तस्मान्मौक्तिकानि रदावपि । चम्पापुरी जगामाशु तोषपूरितमानसः ॥१४४ ॥ 30 आदाय निजहस्तेन नरेन्द्रः प्रीतमानसः । सुकेशिन्यै ददौ तूर्णं तन्मौक्तिकानि रदावपि ॥१४५॥ सुकेशिनी समालिङ्ग्य तन्मुक्ताफलदन्तकान् । खबाहुभ्यां ममाराशु स्नेहतः किं न जायते ॥१४६॥ तच्चेष्टितमिदं ज्ञात्वा कोविदाश्चर्यकारणम् । तस्थौ विस्मितचेतस्को राजाऽयं गन्धमादनः॥१४७॥ 1 [संप्रेषयामास]. 2 पफज युगलमिदम्. 3 ज रोमाञ्चाचित. 4 पफज युगलमिदम्. 5 पफ मेढको. 6 पफज त्रिकलमिदम्. 7 पफ दन्तिकान्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566