Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 470
________________ -१२७. २१३] सुकोशलकथानकम् ३११ विस्मृत्य मां पुनर्धूर्तः पद्मावत्या समं सुखम् । भुञ्जानः प्रीतचेतस्को नितरां व्यवतिष्ठते ॥१८२॥ चिन्तयित्वा चिरं चेदं भूयश्चिन्तयतीदृशम् । पद्मावत्या यथा याति वियोगं विदधे तथा ॥१८३॥ अत्रान्तरे नरो योऽयं तदन्ते प्रेषितस्त्वया । दान्ते हस्तिनि मे पृच्छ किं संतुष्टा सुकेशिनी ॥१८४॥ समागत्य ततस्तेन पुरुषेण तवोदितम् । सुकेशिनी न संतुष्टा महाराज मनागपि ॥ १८५ ॥ तयोदितं यथा भद्र तिष्ठन् मलयपर्वते । पद्मावत्या समं हस्ती दान्तो मलयसुन्दरः ॥ १८६ ॥ कारापयसि मां पृच्छां वनरेण यतो धव । तुष्टा सुकेशिनी भद्र न संतुष्टा जगौ सकः ॥१८७॥ त्वं ध्यायन्नितरां राजन् स्नेहेनातिगरीयसा । तदन्तं प्राप्य वेगेन पृच्छदेतां सुकेशिनीम् ॥ १८८॥ देवी कोऽसौ क वास्तव्यो गजो मलयसुन्दरः। तिष्ठत्यत्र त्वया भद्रेक दृष्टो ब्रूहि मेऽधुना ॥१८९॥ निशम्य तद्वचः स्पष्टं गृहयन्ती स्वमादरात् । बभाण दयितं प्रीता पुरस्तं सा सुकेशिनी ॥१९॥ खामिन्नहमतिक्रान्ते भवेऽमुष्मिन्नगोत्तमे । विजयार्धेऽभवं नूनं खेचरी रूपशालिनी ॥ १९१॥॥ दक्षिणापथमासाद्य प्रियेण सह सत्वरम् । मलयाद्रिं समुत्तुङ्गं प्राप्तया रमणीयकम् ॥ १९२ ॥ पद्मावत्या समं तत्र तरां क्रीडन् मदालसः । वनहस्ती मया कान्तो दृष्टो मलयसुन्दरः॥१९३॥ तद्वाक्यतः स्वसैन्येन कृतकोलाहलेन सः । मलयाद्रौ ददशैंमं पद्मावत्या समं नृपः ॥ १९४ ॥ दृष्ट्वाऽमुं भीषणाकारं द्विरदं स नराधिपः । आदिदेश तरां क्रुद्धस्तद्वधार्थ नरानरम् ॥ १९५॥ ततस्तद्वाक्यतः शीघ्रमायुधैर्मागणादिभिः । तद्भटेनिहतो नागो गतायुवमागतः ॥ १९६ ॥ विलोक्य तं गजं भूमौ पतितं गतजीवितम् । मृता पद्मावती तूणे करमाक्रम्य पादतः ॥ १९७॥ तस्मिन् गजेश्वरे तत्र मृत्युगोचरतामिते । विप्रलापं परं चक्रुः पक्षिणोऽपि कृतस्वनाः॥१९८॥ तत्कुम्भतः समादाय मौक्तिकप्रस्थकद्वयम् । करिदन्तद्वयं शीघ्रं चम्पामाप नरेश्वरः ॥ १९९ ॥ मौक्तिकानि करे दन्तौ तद्गजस्य कुतूहलात् । सुकेशिन्याः स्वभार्याया दर्शयामास भूपतिः ॥२००॥ विलोक्य मौक्तिकादीनि तद्गजस्य सुकेशिनी । महाशोकभराकान्ता दध्यौ मनसि दुःखिनी ॥२०१॥ ॥ तिष्ठन् सुखेन मद्भर्ता कुञ्जरो निजलीलया । भूपेन पञ्चतां नीतः कथं मवचनाद्धतः ॥ २०२ ॥ चिन्तयित्वा चिरं दीना तदानीं सा सुकेशिनी । तद्दन्तमौक्तिकादीनि परिरभ्य मृतिं ययौ ॥२०॥ दृष्ट्वा मृतां तरां तूर्ण राजाऽयं गन्धमादनः । पप्रच्छ योगिनं देवी क सोत्पन्ना वद प्रभो ॥२०४॥ गन्धमादनभूपस्य निशम्य वचनं वरम् । जगाद तद्भवं साधुः केवलज्ञानलोचनः ॥ २०५॥ सुराष्ट्रविषये चानुनगरं गिरिपूर्वकम् । समृत्योऽतिरथो राजा गोमिनी तत्प्रियाऽभवत् ॥ २०६ ॥ रूपराजितसर्वाङ्गी सर्वलोकमनोहरी । सुकेशिनीचरी तस्याः सुता जाता मनोहरी ॥ २०७॥ अस्यैव भूपतेरासीद् विजयाख्यः पुरोहितः । कुबेरश्री प्रिया चार्वी कन्दोट्टदललोचना ॥ २०८॥ कालं कृत्वा तयोरासीत् करी मलयसुन्दरः । पुत्रः कुबेरकान्ताख्यः सर्वावयवसुन्दरः ॥ २०९ ॥ पूर्वोक्तनगरे चासीद् राजश्रेष्ठी महाधनः । धनदेवाभिधो भोगी धनश्रीरस्य सुन्दरी ॥ २१०॥ कालं कृत्वा वराङ्गोऽपि रूपराजितविग्रहः । बभूव तत्सुतः प्रेयान् श्रीधरः श्रीधराभिधः ॥२११॥ ३॥ श्रीधरो जनतानन्दः सद्भावाहितमानसः । अयं कुबेरकान्तस्य सुहृदत्यन्तवल्लभः ॥ २१२ ॥ कुबेरश्रीः प्रिया तस्य रत्नकम्बलकारणात् । प्रासादशिखरात् पातं विधाय मरणं श्रिता ॥ २१३॥ HTHHTH 1 पफज त्रिकलमिदम्. 2 पफ रूपशालिना. 3ज चतुःकुलकमिदम्. 4 पफ omit the second line of No. 193 and the first line of No. 194. 5 पफज युगलमिदमू. 6 पफ गतायुभव. 7 पफज त्रिकलमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566