Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 455
________________ २९६ हरिषेणाचार्यकृते बृहत्कथाकोशे [ १२२. २४अथ नैमित्तिकोऽवाचि भुञ्जानेन धरातलम् । अधुना मरणं कस्माद् भविष्यति वदाशु मे ॥२४॥ निशम्य तद्वचः क्षिप्रं जगौ नैमित्तिकोऽपि तम् । समस्तक्षत्रियाध्यक्षं मरणाशङ्किमानसम् ॥ २५॥ भाजने भोजनं क्षिप्रं पायसं यस्य जायते । नियतं ते महीपाल वधकः स भविष्यति ॥ २६ ॥ एवं नैमित्तिकादेशाद् भोजनं भाजनेषु च । दीयतेऽहर्निशं यत्नात्. क्षत्रियाणां हि तजनैः ॥२७॥ 5 अत्रान्तरे सुभूमस्य भोजनं भाजने द्विजैः । दत्तं नराधिपाध्यक्षं यातं तत्पायसं द्रुतम् ॥ २८॥ परशूपपदं रामं रणे हत्वाऽतिदारुणे । सुभूमोऽयं बभूवाशु चक्रवर्ती हताहितः ॥ २९॥ सुभूमेन च तत्पश्चादेकविंशतिवारकम् । पृथिवीमण्डलं सर्वं कृतं ब्राह्मणवर्जितम् ॥ ३०॥ ॥ इति श्रीयमदग्नितापससुतपरशुरामनिधनीकृतकार्तवीर्यनृप कथानकमिदम् ॥ १२२॥ १२३. सिंहकेसरकथानकम् । दक्षिणापथदेशेऽस्ति धनधान्यसमाकुलम् । पुरमिन्द्रपुराकारं पटजं किंशुकादिकम् ॥१॥ नृपोऽत्र विजयादित्यो राजान्तों वल्लभादिकः । प्रियाऽस्य विजयादित्या बभूव वनितोत्तमा ॥२॥ अभवत् सेवकस्तस्य सिंहविक्रमराजितः । मन्यमानो नरं लोकं सिंहकेसरनामकः ॥ ३॥ अन्यदाकर्ण्य तं तत्र महाभटपुरःसरम् । आजगाम तदभ्याशं सिंहकेसरकोऽपरः ॥ ४ ॥ 15 पुरो वल्लभराजस्य निजनामनिमित्तकम् । द्वयोमर्षिकयोस्तत्र संजातं परमं रणम् ॥ ५॥ युद्धं प्रकुर्वतोस्तत्र द्वयोरपि परस्परम् । खड्गधेनुसमाघातवर्णनिःसृतरक्तयोः ॥६॥ द्वितीयमर्षिकेणास्य सिंहकेसरकस्य च । तुन्दं विपाटितं तेन करवालिकया द्रुतम् ॥ ७॥ अत्रजालं विनिःक्रान्तं तदीयं जठरान्तरात् । पलाशपुष्पसंकाशं प्रगललोहितोत्करम् ॥ ८॥ वामहस्तेन तद्धृत्वा फरकं च शशिप्रभम् । असिधेनुं समादाय दक्षिणेन हि पाणिना ॥९॥ 20 गुञ्जाफलसमानाक्षः संदष्टदशनच्छदः । दधाव कोपतो वेगात् द्वितीयं सिंहकेसरम् ॥ १० ॥ इन्दीवरसमानाभकरवाल्याऽतितीक्ष्णया । तत्सन्मुखं परिप्राप्य जठरं तेन पाटितम् ॥ ११॥ ततोऽरं तद्भयान्नष्टो द्वितीयः सिंहकेसरः । दष्टोष्ठः पञ्चतां प्राप्तः प्रथमः सिंहकेसरः ॥ १२॥ प्रशंसितो भटैः शूरैः समस्तेन जनेन च । दग्धो वल्लभराजेन प्रथमः सिंहकेसरः ॥ १३ ॥ ॥ इति श्रीमहाशूरभटसिंहकेसरकथानकमिदम् ॥ १२३ ॥ १२४. नीलसिंहकथानकम् । दक्षिणापथदेशेऽभून्नगरं च कलापुरम् । नीलसिंहोऽत्र भूपालः श्रावको दर्शनान्वितः ॥१॥ उपवासं विधायायं पञ्चमीदिवसे सिते । तिष्ठति प्रीतिचेतस्को नीलसिंहः स्वपत्तने ॥२॥ एवं स्थितस्य संप्राप्य छिद्रं वाहादिसंपदा । दायादपरचक्रं च तस्योपरि समागतम् ॥३॥ दायादसैन्यमायातं विदित्वा हृतभूतलम् । स्वसैन्यसमुदायेन तस्थौ तत्सन्मुखं स च ॥४॥ 30 सैन्ययोः स्थितयोरेवं द्वयोरपि भयानके । प्रवृत्ते दारुण युद्धे कुन्तप्रासासिभासुरे ॥ ५ ॥ ___ 1 [जातं]. 2 पफ राजातो. 3 [व]. 4 पफ तुदं. 5 पफज त्रिकलमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566