Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 461
________________ ३०२ हरिषेणाचार्यकृते बृहत्कथाकोशे [ १२६. १४४निशम्य वचनं राजा महादेवीमहीभृताम् । कोपलोहितभीमाक्षस्तदोचे दण्डवासिकान्॥१४४॥ प्राध्वं कृत्वा विमं गोपं महालोभप्रवर्तितम् । दूरं नयत देशं हि धीरपुण्यनिकारिणम् ॥१४५॥ निशम्य तद्वचस्तत्र भयवेपितविग्रहा । नागश्री गशर्माणं जगादेति विशुद्धधीः ॥ १४६ ॥ अहिंसा सत्यमस्तेयं स्वदाररतिकारणम् । धनादिकप्रमाणं च व्रतान्येतान्यणूनि मे ॥ १४७ ॥ 5 अर्पितेषु समस्तेषु व्रतेष्वेतेषु योगिनाम् । तात पूर्वोक्तदोषास्तु प्राप्तव्याः सकला मया ॥ १४८॥ नागश्रीवचनं श्रुत्वा नागशर्माऽवदत् तकाम् । सुव्रताणुव्रतैरेभिर्भव त्वं पञ्चभिः सुते ॥ १४९ ॥ अणुव्रतानि पञ्चानि हितकारीणि देहिनाम् । एतानि सारभूतानि माऽर्पयिष्यसि कस्यचित् ॥१५०॥ अस्माकमपि चैतानि योगिभिः प्राक्तनैः सुते । कथितानि विशिष्टानि स्वहिताचारवेदिभिः ॥१५१॥ किं पुनस्तस्य नग्नस्य श्रमणस्य कदर्थनम् । कृत्वा लज्जाविहीनस्य गच्छावः स्वगृहं सुते ॥१५२॥ ० येनान्यलोकबालानां नितान्तं मूढचेतसाम् । श्रमणोऽयं गताचारो न करोति प्रतारणम् ॥१५३॥ एवं निगद्य तां बालां नागशर्मा रुषान्वितः । अवादीत् तं मुनिं वीरं तारनादेन दूरतः ॥१५४॥ भो भो मुने कुतो हेतोर्मत्तनूजाप्रतारणम् । कृतं त्वया वद क्षिप्रं निर्लज्ज गुणवर्जित ॥१५५॥ आकर्ण्य तद्वचः साधुर्बभाणेमं पुरःस्थितम् । भटपुत्र न नागश्रीस्त्वत्सुता मत्सुता स्फुटम् ॥१५६॥ एवं निगद्य तं विप्रं प्राह नागश्रियं मुनिः। एहि पुत्रि ममाभ्याशं धर्मसंसक्तमानसे ॥ १५७ ॥ 15 श्रुत्वा साधुवचो दीनं नागश्रीः प्रीतमानसा । सूर्यमित्रस्य सामीप्यमाजगाम त्वरान्विता ॥१५८॥ सूर्यमित्राग्निभूताभ्यां मुनिभ्यामात्मनोऽन्तिके । नागश्रियं विधायाशु नागशर्मा प्रभाषितः ॥१५९॥ गच्छ त्वं ब्राह्मण क्षिप्रं कातर स्थानतोऽमुतः । यावन्न भूभुजाऽस्माभिर्दुष्टचित्त कदर्थ्यसे ॥१६॥ श्रुत्वा मुनिवचस्तत्र नागशर्मा स माहनः । अब्राह्मण्यं महाऽन्यायमुच्चरन् वचसा द्रुतम् ॥१६१॥ चन्द्रवाहनसामीप्यं संप्राप्य निजगाविदम् । महाराजन्नहं मुष्टो नग्नश्रमणकैः खलैः ॥ १६२ ॥ 20 नागश्रियं समादाय यावन्नो यान्ति ते वनात् । तावन्मया समं शीघ्रं तदन्तं याहि भूपते ॥१६॥ श्रुत्वा तद्वचनं राजा नानाजनसमन्वितः । कौतुकव्याप्तचेतस्कः सूर्यमित्रान्तिकं ययौ ॥१६४ ॥ अत्रान्तरे जगौ विप्रो वचनं नृपसाक्षिकम् । नागश्रीमत्सुता नागैर्वितीर्णा मम भूपते ॥ १६५ ॥ निशम्य सूर्यमित्रोऽपि वचनं नागशर्मणः । जगादेमं पुरो धीरं नृपादिजनसाक्षिकम् ॥ १६६ ॥ नागश्रीमत्सुता नूनं शृणु मद्वचनं नृप । अध्यापिता मया वेदांश्चतुरः स्मृतिपूर्वकम् ॥ १६७॥ 25 सूर्यमित्रवचः श्रुत्वा नरेन्द्रो निजगावमुम् । नागश्रियं वेदपाठं कारापय महामुने ॥ १६८॥ . चन्द्रवाहनभूपस्य निशम्य वचनं तदा । नागश्रियं जगादेति सूर्यमित्रो महामुनिः ॥ १६९ ॥ वायुभूतिचरः क्षिप्रं त्वं नागश्रीः स्फुटाक्षरम् । मदध्यापितवेदानां पठनं कुरु सांप्रतम् ॥१७०॥" सूर्यमित्रवचः श्रुत्वा तदा जातिस्मरी मुदा । पपाठ सकलान् वेदान्नागश्रीरिति सत्वरम् ॥ १७१ ॥ ओंकारं प्रथमं कृत्वा स्वरवर्णप्रभेदतः । चतुःषष्टिसमायुक्ता पपाठ क्रमविभागतः ॥ १७२ ॥ 30 सूत्राद्युपक्रमेणेमं समस्तं विधिपूर्वकम् । ऋग्वेदं च पपाठालं नागश्रीनृपसाक्षिकम् ॥ १७३ ॥ ततः सुवर्णभेदेन सप्तसंहितिकादितः । सूत्रवर्णादितः प्रोक्तो यजुर्वेदोऽनया क्रमात् ॥ १७४ ॥ सामवेदस्ततः प्रोक्तस्तथाऽथर्वणनामकः । अष्टादशपुराणानि तत्पुरो धर्मसंहिताः ॥ १७५ ॥ मीमांसान्यायशास्त्राणि चतुर्दश नृपाग्रतः । विद्यास्थानानि सर्वाणि भाषितानि तदाऽनया ॥१७६।।" 1 [ दण्डपाशिकान् ]. 2 पफज कुलकमिदम्. 3 पफज त्रिकलमिदम्. 4 पफज चतुष्कुलकम्. 5 फ गुणवर्जितम्. 6 पफज युगलमिदम्. 7 पफज युगलमिदम्.8 पफज त्रिकलमिदम्.9 ज सौमित्रं वचः. 10 पफज युगलमिदम्. 11 पफज कुलकमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566