Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 462
________________ -१२६. २०९] अवन्तिसुकुमालकथानकम् ३०३ नागश्रीवेदसंपाठं निशम्य वसुधाधिपः । सूर्य मित्रं जगौ साधुं तोषकण्टकिताङ्गकः ॥ १७७॥ तनया नाथ नागश्रीस्तव ज्ञानमहार्णव । नियन्तं ज्ञातमस्माभिर्न चेयं नागशर्मणः ॥ १७८ ॥ किंतु नागश्रियो नाथ दिव्यज्ञानमहेश्वर । वेदप्रपाठसंबन्धं ज्ञातुमिच्छामि सांप्रतम् ॥ १७९ ॥ निशम्य तद्वचः सारं ध्वनिना ह्लादयन् सभाम् । सूर्यमित्रो जगादेति धराधीशं सकौतुकम् ॥१८०॥ विषये वत्सकावत्यां कौशम्बी परमा पुरी । अस्यामतिबलो राजा श्रीकान्ता तत्प्रियाऽभवत् ॥१८१॥ अग्निमित्रो द्विजोऽस्यासीदग्निला तन्नितम्बिनी । तत्सुतो सूर्यमित्रोऽहं सोमशर्मा कनिष्ठकः॥१८२॥ सोमशर्मप्रिया चासीत् काश्यपी नाम विश्रुता । तन्नन्दनोऽग्निभूतिश्च वायुभूतिरपि क्रमात् ॥१८३॥ मत्तातमरणे राज्ञाऽनुक्रमं जानता तराम् । समर्पितानि सर्वाणि वृत्तिस्थावरकानि मे ॥ १८४ ॥ मया तानि च सर्वाणि वृत्तिस्थावरकाण्यरम् । सोमशर्मवितीर्णानि महास्नेहानुकारिणा ॥ १८५॥ मगधाविषये चासीत् पुरं राजगृहं तदा । वसुपालो नृपस्तत्र सुप्रभा तन्मनःप्रिया ॥ १८६ ॥ मया तद्भूपतेः पार्थे वृत्तिस्थावरकानि च । उपयुक्तानि सर्वाणि महाविद्याप्रभावतः ॥१८७॥ राजप्रसादतस्तत्र भुञ्जानस्योत्तमां श्रियम् । सुखेन मम मद्धातुबन्धुभिः सह सौख्यतः॥१८८॥ एवं गच्छति तत्काले सोमशर्मा ममानुजः । कालेन पञ्चतां नीतः कालो हि बलवान् भुवि ॥१८९॥ तस्मिन् काले गते नूनमग्निभूतिस्त्वरान्वितः । वायुभूतिसमं यातो मदन्तं विभवात्यये ॥ १९० ॥ सप्ताष्टवर्षसंयुक्ते काले द्वावपि भूपते । कृतौ मया प्रयत्नेन वेदस्मृतिविशारदौ ॥ १९१ ॥ ततः कौशाम्बिकां प्राप्य दृष्ट्वाऽतिबलभूपतिम् । स्ववृत्तिस्थावराण्याशु मोचयामासतुस्तकौ ॥१९२॥ समस्तविप्रशास्त्राणां ब्राह्मणानां निरन्तरम् । व्याख्यानं च प्रकुर्वाणौ तस्थतुः स्वपुरे तकौ ॥१९३॥ अग्निभूतिसमं राजन् लब्धबोधिपदार्थकः । दिगम्बरव्रतं सारं चकाराहो विशुद्धये ॥ १९४ ॥ वायुभूतिमृति प्राप्य मानदोषेण गर्दभी । सूकरी च शुनी जाता मातङ्गी दीनमानसा ॥१९५॥ कालं कृत्वा च मातङ्गी शुभकर्मानुभावतः । जाता जातिस्मरा भूप नागश्रीर्वरकन्यका ॥ १९६ ॥ 20 जातिस्मरत्वमासाद्य मदुक्तेन कलस्वना । पपाठ सकलं वेदं नागश्रीरियमादरात् ॥ १९७ ॥ तद्वेदपाठसंबन्धः कथितो योगिनाऽमुना । महावैराग्यसंपन्नश्चन्द्रवाहनभूपतिः ॥ १९८ ॥ श्रुत्वा जिनोदितं धर्म स्वर्गमोक्षप्रदायकम् । महाचलसुतायास्मै दत्त्वा राज्यमकण्टकम् ॥ १९९ ॥ सहर्बहुभियुक्तः सामन्तानां जिनोदितम् । चन्द्रवाहो दधौ राजा सूर्य मित्रान्तिके तपः॥२००॥" अन्यैरपि तदा लोकैरात्मभक्त्या प्रमोदिभिः । सम्यक्त्वपूर्वको धर्मो गृहीतो जैनपुङ्गवः ॥२०१॥ 25 सूर्यमित्रगुरोः पार्थे नागशर्माऽतिभक्तितः । महावैराग्यसंयुक्तो दीक्षां दैगम्बरी दधौ ॥ २०२॥ नागश्रिया समं साध्वी त्रिवेदी जिनभक्तितः । ब्राझिकार्यान्तिके शीघ्रं तपो जैनमशिश्रियत् ॥२०३॥ हत्वा कर्माष्टकं दुष्टमग्रपर्वतमस्तके । सूर्यमित्रोऽग्निभूतिश्च संप्राप्तः सिद्धिपत्तनम् ॥ २०४ ॥ नागशर्मा तपः कृत्वा दक्षं कर्मविनाशने । बभूवाच्युतकल्पेऽसौ देवो भासुरविग्रहः ॥ २०५॥ कालं प्रकुर्वती दीना पूर्वस्नेहा त्रिवेद्यपि । नागश्रीमै सुता भूयान्निदानमकरोदिति ॥ २०६॥ ॥ ततो मातृसुतायुग्मं कालं कृत्वा समाधिना । पद्मगुल्मविमानेऽभूदच्युतस्वर्गसंभवे ॥ २०७॥ देवयुग्मं मनोहारि हारराजितविग्रहम् । द्वाविंशतिसमुद्रायुस्तस्थौ तत्र सुखोचितम् ॥ २०८ ॥ इन्द्रदत्ताभिधश्चासीदिभ्यः श्रेष्ठी महाधनः । नूनं गुणमती भार्या श्रीमदुज्जयिनीभवा ॥ २०९ ॥ 1 [नियतं ]. 2 पफज त्रिकलमिदम्. 3 [वायुभूतिम॒तिं], 4 पफज कुलकमिदम्. 5 पफज युगलमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566