Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 460
________________ -१२६. १४३ ] अवन्तिसुकुमालकथानकम् ३०१ क्षणदायामतीतायां संप्राप्य विषदौ तकौ । जीवनं श्रेष्ठिपुत्रस्य चक्रतुर्मत्रयोगतः ॥ १११॥ जीविते श्रेष्ठिपुत्रेऽस्मिन् मणिस्वर्णादिसंपदा । पूजयामास तौ श्रेष्ठी विषदौ प्रीतमानसः ॥११२॥ एवं नरेण चैकेन तोषपूरितचेतसा । तदानीं नरसिंघस्य कथ्यमाने कथानके ॥ ११३॥ दृष्टिमोहं विधायैषां रक्षकाणां प्रयत्नतः । बहुधान्यं मिमीतेऽसौ वाणिजो हस्तसंज्ञया ॥ ११४॥ चौरिकाव्यवहारेण धान्ये च प्रमितेऽखिले । धर्माधिकारिणेऽन्योन्यं व्यवहारं चकार सः ॥११५॥ ततः साधनिकैः सर्वैर्मापकस्योपरि स्फुटम् । असत्यचोरिकावादः स्थापितस्तत्पुरान्तरे ॥ ११६॥ जिह्वाहस्तपदच्छेदः समस्तजनसाक्षिकः। आदिष्टो नरनाथेन तस्य मायाविधायिनः ॥११७॥ निशम्य वचनं तस्य नागश्रीमतिशालिनी । जगाद पूर्ववत् सर्वं तत्त्वतो जनकस्य सा ॥ ११८ ॥ नागश्रियो वचः श्रुत्वा धर्मविन्यस्तचेतसः । बभाणैतां पुनस्तत्र तोषपूरितमानसः ॥ ११९ ॥ व्रतद्वयमिदं भद्रे त्वदन्ते तिष्ठतु स्फुटम् । व्रतान्यन्यानि सर्वाणि मुनेरर्पय शोभने ॥ १२०॥ ॥ दृष्ट्वाऽपरं नरं मार्गे नागश्रीपरिनोदितः । पप्रच्छ नागशर्मेदं नीयमानं मृति प्रति ॥ १२१ ॥ को दोषो विहितोऽनेन येन बद्धः प्रयात्ययम् । तद्वाक्यतो जगादामुं स नरः प्रीतमानसः॥१२२॥ नागशमोदितं श्रुत्वा तन्मध्ये प्रीतमानसः। जगादेति वचो मन्दमेकः कोऽपि नरः स्फुटम् ॥१२३॥ चम्पापुरीसमीपस्थपुरं शैलपुरं परम् । बभूव मत्सनामाख्यो राष्ट्रकूटकुटुम्बिकः ॥ १२४ ॥ तद्भार्या जयका चासीत् तत्पुत्रौ नन्दवोदकौ । नन्दाय ज्यायसे दत्ता मातुलेन स्वकन्यका ॥१२५॥ अकृत्वा व्रजनं तस्या नन्दोऽपि धनतृष्णया । यात्रया चलितः क्षिप्रं नूनं द्वादशवर्षया ॥१२६॥ देशान्नन्दो न चायाति वाणिज्यायै गतस्तदा । वोदकाय वितीर्णा सा मातुलेन स्वकन्यका ॥१२७॥ करोति व्रजनं यावद् बोदोऽस्यास्तद्दिने सति । नन्दोऽपि तावदायातो दूरदेशात् स्वपत्तनम् ॥१२॥ दत्ता भूयोऽपि सा कन्या नन्दाय जनकेन च । इष्टा न रूपयुक्ताऽपि ज्यायसाऽनेन कन्यका ॥१२९॥ नन्दवोदपरित्यक्ता तदा सोदालिकाऽपि सा । रूपयौवनसंयुक्ता पितृगेहे वितिष्ठते ॥ १३०॥ तस्मिन्नेव पुरे रूपी नागशर्मसुतोऽभवत् । कटुकागर्भसंभूतो नागशूराभिधश्चलः ॥ १३१॥ भार्याचतुष्टयं हित्वा देवीरूपसमप्रभम् । सोदालिकासमं रेमे नागशूरः कुधीरयम् ॥१३२॥ सोदालिकां समादाय तद्रूपहृतमानसः । चम्पापुरी पुरीं प्राप्य नागशूरो मदातुरः ॥ १३३ ॥ गृहीत्वा रक्षकैरेष परनारीनिषेवितम् । आस्थानमण्डपस्थस्य भूपस्याथ समर्पितः ॥ १३४ ॥ कारयित्वाऽऽयसी रामां रूपराजितविग्रहाम् । राजाऽस्य दर्शयामास चित्रभानुसमप्रभाम् ॥१३५॥ 25 एतत्सर्वं समाख्यातमाख्यानमतिसुन्दरम् । तन्नरेण पथि स्पष्टं नागश्रीनागशर्मणोः॥ १३६ ॥ स्तोकमार्गमतिक्रम्य नरमेकं परद्युतिम् । पूर्वोक्तविधिना बद्धं दृष्टवन्तौ तदा तकौ ॥ १३७॥ नागश्रीवचनेनाशु नागशर्मा विलोक्य तम् । बभाणान्यं नरं तत्र बद्धोऽयं केन हेतुना ॥१३८॥ निशम्य भारतीमस्य जगादैको नरोऽपि तम् । यो बद्धो नीयते भद्र धीरपुण्यः स गोपकः ॥१३९॥ ततस्तुष्टेन भूपेन नितान्तं स्वस्वगोकुले । धीरपुण्याय गोपाय वितीर्णा धेनुकाः पराः ॥ १४० ॥ 30 एकैकां धेनुमादाय सामन्तादिव्रजे स्वयम् । तस्थौ खमन्दिरे गोपो देव्याः कामदुघामपि ॥१४१॥ तत्प्रत्यक्षं महादेव्या भूपालाय निवेदितम् । धीरपुण्येन गोपेन राजन् मद्धेनुका हृता ॥ १४२ ॥ महादेवीवचः श्रुत्वा भूपैरन्यैरुदाहृतम् । राजन्ननेन गोपेन मदीया धेनवो हृताः ॥ १४३॥ ____1 [ नरसिंहस्य ]. 2 पफज युगलमिदम्. 3 [°परिचोदितः]. 4 [ मत्समानाख्यो]. 5 पफ यात्राया. 6 पफज कुलकमिदमू. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566