Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 464
________________ - १२७. १३ ] कोशलकथानकम् ३०५ अग्निभूतेः प्रिया चासीत् सोमदत्ताऽन्यजन्मनि । तत्पुत्रो नागशर्मा च सोमभूतिरपि स्फुटम् ॥ २४४॥ शूरमित्रो महामानी चाग्निभूतिस्तपो दधौ । श्रुत्वा धर्मं मुनेः पार्श्वे भ्राम्यति स्माजवंजवम् ॥२४५॥ विधाय पुत्रसंयुक्ता संसारपरिहिण्डनम् । सोमदत्ताऽभवद् भ्रूणा महाकालवने शिवा ॥ २४६ ॥ नागशर्मादयो भ्रान्त्वा चत्वारोऽपि भवार्णवम् । तच्छिवानन्दना जाता पापकर्मानुभावतः ॥ २४७॥ दिनानि सप्त संजाते तदानीं वातवर्धले' । क्षुधापम्पापरिश्रान्ता निजबालकसंयुता ॥ २४८ ॥ पूर्ववैरानुबन्धेन तत्पाद रुधिरं तदा । सा शिवा पातुमारब्धा सुकुमालमुनेरियम् ॥ २४९ ॥ खादयन्त्या तरां पादं तन्मुनेः शिवया तया । समाधिमरणेनायं चक्रे कालं दिनत्रये ॥ २५० ॥ विमाने नलिनीगुल्मे नाके चाच्युतनामनि । द्वाविंशतिसमुद्रायुः सुकुमालोऽमरोऽभवत् ॥ २५१ ॥ ततश्चतुर्थके यामे रजन्या देवनिश्वन - । श्रवणं तज्जनीसंघसमागमनमत्र च ॥ २५२ ॥ भूयोऽपि तदलंकारत्यजनं दर्शनं तनोः । विलापकरणं तासां नितान्तं हतचेतसाम् ॥ २५३ ॥ श्वश्रूरष्टौ विधायाशु जनन्या सह दीक्षणम् । तपः कृत्वा समाधानाद् देवलोकसमागमः ॥२५४॥ सुकुमालमुनौ नूनमच्युतं कल्पमासिते । एतत्सर्वं प्रवक्तव्यं नितरां कुशलैर्नरैः ॥ २५५ ॥ श्रीमदुज्जयिनीतोऽयं दक्षिणद्वारगोचरः । स्तोकमार्गमतिक्रम्य स प्रदेशो विराजते ॥ २५६ ॥ अवन्तीसुकुमालोऽयं यत्र कालगतो मुनिः । कापालिकैः प्रदेशोऽसौ रक्षतेऽद्यापि पुण्यभाक् ॥२५७॥ तत्र कापालिकानां च दत्त्वा मूल्यं बहु स्फुटम् । पुण्यबुद्ध्या दहन्त्येते मृतकानि महाजनाः ॥२५८॥ ७ देवैर्गन्धोदके मुक्ते तस्मिन् काले गते मुनौ । सुगन्धीभूतसर्वाशा जाता गन्धवती नदी ॥ २५९ ॥ तद्भार्याभिस्तरां तत्र कृते कलकले सति । बभूव लोकविख्यातो देवः कलकलेश्वरः ॥ २६० ॥ ॥ इति श्रीअवन्तिसुकुमालमुनि कथानकमिदम् ॥ १२६ ॥ * 1 [ वार्दले° ]. 2 पफज चतुष्कुलकमिदम्. 3 पफज युगलमिदम्. 4 पफज युगलमिदम्. 5 पफ कर्तुमिच्छतः. बृ० को ० ३९ १२७. सुकोशलकथानकम् । विनीताविषये चास्ति कोशला नगरी वरा । प्रजापालो नृपस्तस्यां तत्प्रिया सुप्रभा प्रभा ॥ १ ॥ 20 इभ्यः सिद्धार्थनामासीत् तच्छ्रेष्ठी राजवल्लभः । द्वितीयं तस्य नामेदं दिशां धनपतिः पतिः ॥ २ ॥ द्वात्रिंशद्वनितास्वामी द्वात्रिंशद्धनकोटिकः । तन्मध्ये वल्लभाऽस्यैषा जयादिमतिरङ्गना ॥ ३ ॥ प्रार्थयन्त्या सुतोत्पत्तिं जयमत्या सहान्यदा । संतस्थे प्रीतचेतस्कः सिद्धार्थः सौधमस्तके ॥ ४ ॥ एवं हि तिष्ठतस्तस्य श्रेष्ठनः प्रीतचेतसः । प्रासादशिखरे रम्ये सुधाशुभ्रीकृताम्बरे ॥ ५ ॥ उल्लिखन्ती शिरः प्रीत्या सका स्वर्णशलाकया । केशमध्येऽलिसंकाशे ददर्श पलिताङ्कुरम् ॥ ६ ॥ 25 आदाय मुष्टिमध्ये मुं तत्प्रिया निजगाविति । दूतः समागतो नाथ त्वदन्तं किं न पश्यसि ॥ ७ ॥ निशम्य तद्वचः श्रेष्ठी सिद्धार्थोऽपि सविस्मयः । दिशोऽवलोकनं कृत्वा जगादेमां स्ववल्लभाम् ॥८॥ देवि देवि कुतो दूतः प्राप्तोऽसौ कस्य वल्लभे । विलोकितेऽधुना यो मे सर्वत्रैव न दृश्यते ॥ ९ ॥ करं प्रसार्य सा देवी बभाणेमं सकौतुका । नृपदूतं न वच्मीमं धर्मदूतं वदामि ते ॥ १० ॥ एवं निगद्य तत्रत्या विस्मयव्याप्तमानसा । दर्शयामास तं देवी निजहस्तव्यवस्थितम् ॥ ११ ॥ * दृष्ट्वा पतिमेकं स विद्याधरयुगं तथा । जातिस्मरत्वमासाद्य प्रवज्यां कर्तुमुत्थितः ॥ १२ ॥ अत्रान्तरे समागत्य मन्त्रिभिस्त्रिभिरादरात् । तपः कुर्वन् सुसिद्धार्थो धारितस्तद्धितेच्छया ॥ १३ ॥ 30 Jain Education International 5 For Private & Personal Use Only 10 www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566