Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 457
________________ २९८ हरिषेणाचार्यकृते वृहत्कथाकोशे [ १२६. १२सिद्धक्षेत्राणि सर्वाणि वन्दित्वा भक्तितत्परः । भिक्षार्थमाजगामायं कौशाम्बी नगरी मुनिः॥१२॥ गृहागृहान्तरं गच्छन् युगदृष्टिविधानतः । अग्निभूतिगृहं विष्टः सूर्यमित्रमुनिः क्रमात् ॥ १३ ॥ अग्निभूतिसुतस्यापि मुञ्जाबन्धनकारणात् । निमत्रिता द्विजास्तत्र तिष्ठन्ति बहवस्तदा ॥१४॥ अग्निभूतिर्मुनिं दृष्ट्वा सन्मुखं प्राप्य भक्तितः । श्रद्धादिगुणसंयुक्ततत्त्वज्ञानमबूभुजन् ॥१५॥ ' दत्त्वाऽऽहारविधिं तस्मै मुनये भक्तितत्परः । अग्निभूतिस्तदा पुण्यं वबन्ध भवभेदकम् ॥ १६ ॥ वितीर्णे चान्नदानेऽस्मै तदानीमग्निभूतिना । वसुधारादिकं गेहे बभूवाश्चर्यपञ्चकम् ॥१७॥ दृष्ट्वाऽऽश्चर्यमिदं सारमग्निभूतिगृहे द्विजाः । तकं सूर्यमुनि हृष्टा नमस्यन्ति स्वभक्तितः ॥१८॥ वायुभूतिः परस्तब्धो बहुशिष्यसमन्वितः । व्याख्यानं विदधत् तत्र न नमस्यति तं मुनिम् ॥१९॥ दृष्ट्वा स्तम्भसमाकारं वायुभूतिं तमग्रजः । पाणावादाय सस्नेहं जगादेति विचक्षणः ॥ २० ॥ " वायुभूते मुनेरस्य प्रसादेन गरीयसा । संजाता परमा लक्ष्मीरस्माकं पृथिवीपतेः ॥ २१ ॥ तत उत्तिष्ठ द्रुतं भद्र संप्राप्यास्य समीपताम् । वन्दनां कुरु भावेन समस्तमलदायिनीम् ॥२२॥ अग्निभूतिवचः श्रुत्वा वायभूतिर्जगावमुम् । अनानस्याशुचेरस्य कारापयसि मां नुतिम् ॥ २३ ॥ वायुभूतिवचः श्रुत्वा चाग्निभूतिर्बभाण तम् । बुद्धिपाशं कृतघ्नं च छान्दसं वठरं खलम् ॥ २४ ॥ मत्तोऽसि त्वं दुराचार वेदविप्रकुलेन च । येनास्य योगिनः पादौ मानितौ न नमस्यसि ॥ २५॥ 15 एवं निगद्य तं दुष्टं पैशून्योपहतात्मकम् । अग्निभूतिर्विहायाशु दयावादगिरं ययौ ॥ २६ ॥ विहाय सकलं संगं महावैराग्यसंयुतः । अग्निभूतिर्दधौ दीक्षां सूर्यमित्रान्तिके सुधीः ॥ २७॥ अत्रान्तरे जगादेमं वायुभूतिं पुरः स्थितम् । अग्निभूतिप्रिया दीना सोमदत्ता रुदत्यसौ ॥ २८ ॥ दुर्जनस्त्वं तरां लोके दुर्जनानामपि स्फुटम् । येनास्य गेहिनो दिव्यमुपकारं न वेत्सि च ॥२९॥ अधीत्य सकलान् वेदान् साङ्गोपाङ्गांस्तदन्तिके । पादयोः पतितुं मूढ सूर्यमित्रस्य लज्जसे ॥३०॥ ॥ तस्य विप्रसभामध्ये निशम्य वचनं तदा । विलक्षणामुना कोपात् पादेन निहतं शिरः ॥ ३१ ॥ गच्छ त्वं यत्र ते भर्ता तिष्ठत्येकाग्रमानसः । एवं निगद्य सा तेन धाटिता स्वनिकेतनात् ॥३२॥ निशम्य तत्तिरस्कारं सोमदत्ताऽपि सत्वरम् । चकारेदं निदानं सा कोपारुणनिरीक्षणा ॥ ३३॥ निहत्य त्वां भवत्पादं दुष्टमन्यत्र जन्मनि । चूर्णयित्वाऽस्थिसंघातं भक्षयिष्यामि निश्चितम् ॥३४॥ एवं निगद्य ते कोपाद् विनिःसृत्य च तहात् । सोमदत्ता हि मृत्वाऽऽस्ते भ्रमन्ती भवसागरम् ॥३५॥ - वायुभूतिरपि क्षिप्रमभिमानकलङ्कितः । चकारायं तिरस्कारं सूर्यमित्रमहामुनेः ॥ ३६॥ उदुम्बराख्यकुष्ठेन कुथिताखिलविग्रहः" । तत्पापतो मृति प्राप दुष्टः सप्तदिनान्तरे ॥ ३७॥" अङ्गकाख्यजनान्तस्थचम्पाख्यायां महापुरि । महासरोवरोद्याने वासुपूज्यनिषद्यकाम् ॥ ३८॥ सत्ता भक्तिसमायुक्तैरग्निभूत्यादिसाधुभिः । तद्वन्दनाथेमायातः सूर्यमित्रो महामुनिः ॥ ३९॥ सूर्यमित्रः खचित्तेन शुद्धो नत्वा निषधकाम् । बभूव तत्क्षणेनैव चतुर्ज्ञानसमन्वितः॥४०॥ • विनयाचारयुक्तस्य सूर्यमित्रस्य योगिनः । वायुभूतिस्तिरस्कारं कृत्वा यो मृतिमागतः ॥४१॥ कौशम्बिकाप्रजातस्य तस्य विभ्रमकारिणः । विद्याधरस्य लंखस्य" गृहे जातः स गर्दभी ॥४२॥ मृत्वा पापेन तत्रासौ गुरुणैव खरी खला । बभूव भीषणाकारा तीक्ष्णदंष्ट्रा च सूकरी ॥ ४३ ॥ 1ज कौशाम्बीनगरी. 2 पफ तत्त्वज्ञात. 3 फ भेदके, जवेदके. 4 ज तमग्रतः. 50 तेनोत्तिष्प 6 पफज त्रिकलमिदम्.7 पफज निकलमिदम्.8 पफज निकलमिदम्.9 पफज युगलमिदम्. 10 पफज त्रिकलमिदम्. 11 ज कुन्थिता. 12 पफज युगलमिदम्. 13 फ लङ्कस्य. 14 पफज युगलमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566