Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 454
________________ -१२२. २३ ] कार्तवीर्यकथानकम् २९५ तद्वाक्यतोऽमुना ख्यातं तद्रूतग्रहणं तदा । मृगध्वजस्य कैवल्यं नरेन्द्रस्य सभाऽन्तरे ॥४४॥ मृगध्वजस्य कैवल्ये संजाते सति सत्वरम् । आजगाम तदन्तं च सीमंधरनरेश्वरः ॥ ४५ ॥ ततो भद्रजरन्तस्य संन्यासे विहिते सति । अमरत्वे तदा क्षिप्रं देवागमनकारणम् ॥ ४६॥ नत्वा केवलिनः पादौ श्रुत्वा धर्म तदन्तिकम् । सीमंधरनरेन्द्रोऽमुं पप्रच्छेदं कुतूहली ॥४७॥ मृगध्वजजरन्तस्य पिण्डारस्य च पावन । ब्रूहि मे वैरसंबन्धं संसारार्णवकारणम् ॥४८॥ । ततोऽश्वग्रीवसंबन्धं सेनापत्यादिकं तथा । जगाद केवलीं सर्वं सीमंधरमहीभृतः॥४९॥ श्रुत्वा तद्वैरसंबन्धं सीमंधरनृपादयः । बभूवुः श्रावका भव्या सम्यक्त्वाभरणप्रभाः ॥ ५० ॥ ॥ इति श्रीमहालोभसमन्वितमृगध्वजराजकथानकमिदम् ॥ १२१ ॥ १२२. कार्तवीर्यकथानकम् । विनीताविषये रम्ये कोशलाख्यपुरीभवः । तीर्थे श्रीवासुपूज्यस्य कार्तवीर्यो नृपोऽभवत् ॥१॥ ॥ प्रबुद्धपद्मसद्वका पद्मपाणिपदद्वया । बभूव तन्महादेवी चार्वी पद्मावती प्रिया ॥२॥ अयोध्याख्यपुरीपाचे नानानोकुहसंकुले । तापसस्याभवत् पल्ली महावनसमुद्भवा ॥३॥ बभूव तापसस्तत्र यमदग्न्यभिधानकः । तत्प्रिया तापसी नाम रेणुका तन्मनःप्रिया ॥४॥ श्वेतोपपदको रामो माहेन्द्रोपपदोऽपि च । अभवत् तत्सुतः कान्तो जटावल्कलभासुरः ॥५॥ अन्यदा वरदत्ताख्यो विहरन् कुं महामुनिः । तत्तापसाश्रमान्तेऽसौ तस्थौ तरुतले सुधीः॥६॥ 15 तदन्ते रेणुका श्रुत्वा जैन धर्ममनुत्तरम् । संजाता श्राविका हृष्टा सम्यग्दर्शनलाभतः ॥७॥ रेणुकायै स योगीन्द्रो भगिनीस्नेहतो मुदा । कामधेनुं ददावस्यै पशुविद्यां विधाय च ॥ ८॥ अन्यदा कार्तवीर्योऽरं हस्तिबन्धनकारणात् । आजगाम वनं राजा यमदग्निनिषेवितम् ॥९॥ यमदग्निगृहे भुक्त्वा रेणुकाकरतोऽशनम् । कामधेनुं समादाय लोभतोऽसौ गृहं ययौ ॥१०॥ समिद्भारं समादाय वनात् संप्राप्य मन्दिरम् । रेणुकां शोकसंतप्तां ददृशुस्ते त्रयोऽपि ताम् ॥११॥ श्वेतरामो विलोक्यनां मातरं पुरतः स्थिताम् । जगादेति वचो मातर्दुःखिनी किं वदाशु मे ॥१२॥ निशम्य तद्वचो माता बभाणेमं विषादिनी । पुत्र मन्मन्दिरं राजा कार्तवीर्यः समागतः ॥१३॥ मगृहे भोजनं कृत्वा सुखं स्थित्वाऽत्र पुत्रक । बलादादाय तामेष कामधेनुं ययौ पुरीम् ॥१४॥ अनेन हेतुना पुत्र दुःखसंतप्तमानसा । तिष्ठाम्यत्र वने भीमे सामर्थ्यपरिवर्जिता ॥ १५ ॥ निशम्य जननीवाक्यं तन्मार्गेण रुषान्वितः। तदानीं प्रस्थितो गन्तुं कामधेनुकृते तकः ॥१६॥25 दृष्ट्वातो प्रस्थितो गन्तुं श्वेतरामं जगौ पिता । कार्तवीर्यो महावीर्यस्त्वया भेत्तुं न शक्यते ॥१७॥ यदि तस्यानुमार्गेण त्वं गच्छसि बलीयसः । त्वजनन्यै वितीर्णेयं विद्या परमयोगिना ॥ १८ ॥ असाध्यां देवबाणानां सर्वशत्रुक्षयंकरीम् । परशुं च महाविद्यां गृहीत्वा याहि तं प्रति ॥ १९॥ पितृवाक्येन चादाय परशुं शत्रुभीतिदम् । श्वेतरामो ययौ पश्चात् कार्तवीर्यस्य भूभुजः ॥ २० ॥ श्वेतरामेण संप्राप्य कार्तवीर्यो महाहवे । ससैन्यः सकुलस्तेन परशुना हतो रुषा ॥ २१॥ 30 कार्तवीर्यो हतोऽनेन श्वेतरामेण वेगतः । असह्यवेदनं घोरं जगाम नरकं ततः ॥ २२ ॥ ततो निःक्षत्रियं कृत्वा सप्तकृत्वा धरातलम् । परशूपपदो रामो बभूव स महीपतिः ॥ २३॥ 1 पफज युगलमिदम्. 2 पफज युगलमिदम्. 3 ज तर्क. 4 [ दृष्ट्वा तं प्रस्थितं]. 5 पफज त्रिकलमिदम्. 6 [ हतः परशुना रुषा]. 7 [ सप्तकृत्वो]. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566