Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 425
________________ हरिषेणाचार्यकृते बृहत्कथाकोशे [ १०५. २८२ तच्छुक्लध्यानयोगेन सूक्ष्मादौ सांपरायिके । स्थित्वा स्थाने ददाहायं मोहनीयं विशेषतः ' ॥ २८२॥ ततः क्षीणकषायाख्यस्थाने स्थित्वा सधीरधीः । ध्यानमेकत्ववीचारं द्वितीयं शुक्लमाश्रितः ॥ २८३ ॥ अयमेकत्ववीचारध्यानयोगेन सत्वरम् । अन्तरायं निहन्ति स्म कर्म चावरणद्वयम् ॥ २८४ ॥ सयोगिस्थानमाप्तस्य मेदज्जाख्यमुनेररम् | केवलज्ञानमुत्पन्नं लोकालोकावलोकनम् ॥ २८५ ॥ ' केवले च समुत्पन्ने मेदज्जस्य महामुनेः । प्रापुर्वन्दारवः साधुं चतुर्भेदा दिवौकसः २८६ ॥ ज्ञात्वा देवागमं साधोः कौशाम्बीनगरीभवः । गन्धर्वानीकनामायमाजगाम निजान्वितः ॥ २८७ ॥ तिलक श्रीरपि क्षिप्रं आर्थिका भक्तितत्परा । प्राप्ता केवलिनं नन्तुं सिंहवाहनसाधुना ॥ २८८ ॥ नागदत्त चरः पुत्रो भक्तिहृष्टतनूरुहः | अच्युतेन्द्रोऽपि संप्राप नन्तुं केवलिनं तदा ॥ २८९ ॥ नत्वा केवलिनः पादौ धर्मं श्रुत्वा जिनोदितम् । स्वर्गापवर्गसंप्राप्तेः कारणीभूतमञ्जसा ॥ २९० ॥ 10 नाथ किं कारणं ब्रूहि तव साधोऽपि रक्षितौ । नूनमङ्गारदेवेन चोपसर्गः प्रवर्तितः ॥ २९९ ॥ इदं पप्रच्छ राजेन्द्रः कौतुकव्याप्तमानसः । गन्धर्वानीकनामायं सुरासुरपुरस्सरम् ॥ २९२ ॥ गन्धर्वानीकभूपस्य निशम्य वचनं वरम् । जगाद केवली चास्य चोपसर्गस्य कारणम् ॥ २९३ ॥ नरेन्द्रवचनं श्रुत्वा केवली निजगाद तम् । विद्यते वैरसंबन्धो राजंस्तस्य मया सह ॥ २९४ ॥ इहैव भरतक्षेत्रे जम्बूद्वीपोपलक्षिते । अङ्गकाख्यमहादेशो विद्यते जनसंकुलः ॥ २९५ ॥ 15 तत्र चम्पापुरी रम्या विद्यते परमोत्सवा । अस्यां बभूव भूपालोऽभयवाहननामकः ॥ २९६ ॥ विद्यते तन्महादेवी पुण्डरीकाभिधा परा । महाधनसमायुक्तस्तच्छ्रेष्ठी स्पटहस्तकः ॥ २९७ ॥ सोsहं पूर्वभवे राजन् कान्ता नागवसूर्मम । पुत्रो गरुडदत्तोऽस्यां नागदत्तः कनिष्ठकः ॥ २९८ ॥ हस्त्यश्वादीनि युग्मानि सौवर्णानि बहून्यलम् । स्थापयित्वा गृहे लोभात् प्रस्थितो वार्धियात्रया ॥ २९९ ॥ वार्धिमध्ये निमग्नेऽस्मिन् यानपात्रे मृतिं गतः । भण्डागारे निजे राजन् जातः सर्पोऽतिदारुणः॥३००॥ 20 अप्रमत्ततया तत्र रक्षन् द्रव्यं दिवानिशम् । ददामि तन्न कस्यापि गृहीतं स्तोकमप्यलम् ॥३०१ || हतो गरुडदत्तेन निजपुत्रेण भूतले । चतुर्थनरकं जातो' दशसागरजीवितम् ॥ ३०२ ॥ गरुडोपपदो दत्तः कालं कृत्वा समाधिना । पूर्वोक्तनरकं प्राप्तो दशवारिधिजीवितम् ॥ ३०३ ॥ चतुर्थनरकादेत्य वृषभावर्तपर्वते । गन्धहस्ती समुत्पन्नो नगोत्तुङ्गो महारदः ॥ ३०४ ॥ यूथेन सह तत्राहं रममाणो निजेच्छया । मन्दं मन्थरगामी च तिष्ठामि नरकुञ्जर ॥ ३०५ ॥ ततो गरुडदत्तोऽपि निःसृतः स कथंचन । व्याधोऽभूत् काकजङ्घाख्यस्तद्गिरौ भीमविग्रहः ॥३०६॥ अनेन विहतो राजन् दन्तार्थं स करी रुषा । त्रिकूटपर्वते जातः कीचकाख्यो विहंगमः ॥ ३०७ ॥ वनदावे कृतेऽनेन' काकजङ्घन पापिना । दग्धोऽसौ कीचकः पक्षी 'वरकश्चित्रभानुना ॥ ३०८ ॥ वार्धिविन्यानदीतीरे मुक्ताकारे समौक्तिके । बभूव कर्कटः पापो नीडजोऽसौ बृहन्मुखः ॥ ३०९ ॥ कालेन पञ्चतां प्राप्य स निषादः प्रचण्डधीः । कुरुविल्लाभिधे ग्रामे संजातो मीनबन्धकः ॥ ३९० ॥ 30 तेन मीनारिणा भूयो हरंस्तन्मौक्तिकानि सः । कुरुविलो हतः क्षिप्रं महाकोपविधायिना ॥ ३११ ॥ उत्तरापथदेशे यशोऽम्बुदावर्तपर्वते । जानकसिंगलग्रामे करभाख्योऽश्वपालकः ॥ ३१२ ॥ सोऽपि पञ्चत्वमासाद्य मीनवञ्चनकारकः । तदश्वयूथमध्येऽभूद् दुष्टशीलस्तुरंगमः ॥ ३१३ ॥ कदाचिन्मुनिसामीप्यं संप्राप्य करभोऽश्वपः । जैनं धर्मं स जग्राह पापोपशमकारणात् ॥ ३१४ ॥ करभं सुप्तमालोक्य जिनधर्मपरायणम् । दन्तैर्गले समादाय जघान स तुरङ्गमः ॥ ३१५ ॥ 25 २६६ 1 ज मोहनीयमशेषतः 2 पफ चतुष्कुलकम् ज चतुः कुलकमिदम्. 3 [ साधोरपि क्षितौ ]. 4 पफ त्रिकलम्, जत्रिकलमिदम् 5 [ यातो ]. 6 पफ मन्दमन्थर 7 पफ वनदावकृतोऽनेन 8 [ वराकश्चित्र ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566