Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 445
________________ ૨૦૦ हरिषेणाचार्य कृते बृहत्कथाकोशे [ ११४.१५ 1 गन्धर्वविषये दिव्ये विपञ्चीविषयेऽपि च । किन्नरो वा कलस्वानस्तत्पुरेऽसौ वितिष्ठते ॥ १४ ॥ अन्यदागत्य तत्पार्श्वं नरैः संभ्रममागतैः । वार्ता गन्धर्वदत्तायाः कथिताऽस्य सकौतुकैः ॥ १५ ॥ पुत्रिका पाटलीपुत्रे किन्नरीव कलखना । निर्जित्य सकलं लोकं गीतेन व्यवतिष्ठते ॥ १६ ॥ निशम्य तद्वचः प्रौढं पञ्चालः कृतनिश्चयः । शतैः पञ्चभिरायुक्तः शिष्याणामाप तत्पुरम् ॥ १७ ॥ * यदि कोऽपि नरः क्षिप्रमागच्छति मदन्तिकम् । सुप्तस्योत्थापनं भद्र कुरु ततो मम स्फुटम् ॥१८॥ शिष्यमेकं निगद्यायमशोकाख्यतरोरधः । मुखप्रसारणं कृत्वा सुप्तोऽयं सपरिश्रमः ॥ १९ ॥ अन्ये ते वासिनः सर्वे कौतुकव्याप्तमानसाः । विविशुः पाटलीपुत्रं पताकावलिराजितम् ॥ २० ॥ अत्रान्तरे परिज्ञाय सहसा सहसादरैः । बहुभिश्चेष्टिकासंधैर्मृदुमन्थरगामिभिः ॥ २१ ॥ वस्त्रसगन्धकर्पूरश्रीखण्डकुसुमारुणम् । ताम्बूलादिकमादाय रागात् पञ्चालमाप सा ॥ २२ ॥ प्रसारितमुखं भीमं पञ्चालं सपरिश्रमम् । ददर्शो दन्तुरं तत्र सघर्घरगलं सका ॥ २३ ॥ ततो गन्धर्वदत्ता च तत्समीपे विलोक्य सा । छात्रमेकं जगादेति वचः साश्चर्यमीयुषा ॥ २४ ॥ भो भो चट्ट वद क्षिप्रं ममेदं सत्वमादरात् । पञ्चालोऽयमुपाध्यायो यः सुप्तो व्यवतिष्ठते ॥ २५ ॥ निशम्य तद्वचश्चट्टो जगादेमां मनखिनीं । भवेत् पञ्चालनामायमुपाध्यायः परिस्फुटम् ॥ २६ ॥ तद्वाक्यतः परिज्ञाय पञ्चालं भीमवक्रकम् । उद्दन्तुरं च चित्तेन विरक्ता दुःखिता सका ॥ २७ ॥ 15 ततोऽशोकतरुं बाला वस्त्रयुग्मेन सादरम् । विधाय' कुङ्कुमाद्यैस्तैरनुलिप्य मुहुर्मुहुः ॥ २८ ॥ पुष्पमालाभिरावेथ धूपं दत्त्वा पुनः पुनः । ताम्बूलमप्यधः कृत्वा त्रिःपरीत्य प्रणम्य तम् ॥ २९ ॥ भाण विस्मितवान्ता तद्विरक्ता गतप्रभा । गन्धर्वोपपदा दत्ता पुत्रिका हृष्टमानसा ॥ ३० ॥ यावदस्य मुखे भीमे पञ्चालस्य सरस्वती । पिण्डिपादप तावत्ते कुतो नेयं व्यवस्थिता ॥ ३१ ॥ एवं निगद्य तं वृक्षं पञ्चालोत्तीर्णमानसा । तूर्णं गन्धर्वदत्ताऽपि जगाम निजमन्दिरम् ॥ ३२ ॥ 20 ततः प्रबोधमासाद्य पञ्चालो वीक्ष्य पादपम् । पूजितं केन मे सत्यं ब्रूहि शिष्य यथायथम् ||३३|| निशम्य तद्वचः शिष्यो वभाणेमं ससंभ्रमः । नारी त्वदन्तिकं प्राप्ता पण्यस्त्री परिवारिता ॥ ३४ ॥ भवन्तं वीक्ष्य संसुप्तं पुष्पधूपादिसंपदा । अशोकं पूजयित्वा च प्राहेदं वनितोत्तमा ॥ ३५ ॥ उद्दन्तुरमुखे यावदस्य देवी व्यवस्थिता । तावत्तव तरो कस्मान्न स्थितेयं सरस्वती ॥ ३६ ॥ एवं निगद्य सा कन्या जगाम निजपत्तनम् । पञ्चालस्तद्वचः श्रुत्वा रुषा यातो नृपान्तिकम् ||३७|| उपाध्यायो नृपेणोक्तस्तुभ्यं किं क्रियते वद । तद्वाक्यतोऽमुना प्रोक्तो भूपतिः प्रीतमानसः ॥ ३८ ॥ राजन् गन्धर्वदत्तान्ते मदावासं निरूपय । तेनापि भूभुजा तस्य प्रतिपन्नं मनीषितम् ॥ ३९ ॥ पञ्चालोऽपि तदभ्याशे स्थितो गेहे कलखनाम् । वीणामादाय संगेयं नादितुं प्रवृत्तो" निशि ॥ ४० ॥ तद्गीतध्वनिमाकर्ण्य पञ्चालहृतमानसा । मदविह्वलचेतस्का बभूवासौ सविस्मया ॥ ४१ ॥ प्रासादात् पातमासाद्य पञ्चतामपि सत्वरम् । भवं " गन्धर्वदत्तेयं संसारं भवदुःखदम् ॥ ४२ ॥ 1 ॥ इति श्रीपञ्चालोपाध्यायगीतश्रवणमरणकथानकमिदम् ॥ ११४ ॥ * 10 25 30 1 पफज युगलमिदम्. 2 पफज युगलमिदम्. 3 पफज युगलमिदम्. 4 [चेटिका ] 5 ज ददशो, [ ददर्शोद्दन्तुरं ]. 6 पफ omit the second line of No. 25 and the first line of No. 26. 7 [ पिधाय ]. 8 फ पञ्चाले तीर्ण. 9 पफज त्रिकलमिदम्. 10 ज प्रवृते. 11 [ भ्रान्ता ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566