Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 450
________________ -११८. ४६] द्वीपायनकथानकम् २९१ तथा पद्मावती चेति नीलोत्पलदलाम्बिका । एता विष्णोर्महादेव्यो भवन्त्यष्टौ कलाऽन्विताः॥१४॥ चक्र गदा तथा शक्तिः खड्गो रविमणिः स्फुटम् । शङ्खः शार्ङ्ग हरेः सप्त सन्ति रत्नानि सर्वदा १५ रक्षन्त्यष्टौ सहस्राणि देवीनामस्य भोगिनः । रत्नादिकं सदा विष्णोः प्रमादरहितात्मनः ॥ १६ ॥ समस्तयादवैः सार्धं भोगान् भोगीन्द्रसंनिभान् । द्वारवत्यां प्रभुञ्जानः सुखं तस्थौ जनार्दनः ॥१७॥ अन्यदा विहरन् कापि नेमिः केवलसंयुतः। ऊर्जयन्तगिरेस्तुङ्गे शिखरे स्थितवानसौ ॥ १८ ॥ नेमिनाथं समाकर्ण्य दशार्दा दश भक्तितः । वासुदेवो बलेनामा वन्दनार्थं समाययुः ॥१९॥ त्रिःपरीत्य तमीशानं वन्दित्वा च पुनः पुनः । तदन्ते शुश्रुवुर्धर्मं द्विभेदं यादवाः परम् ॥ २० ॥ बलदेवः समालोक्य वासुदेवस्य संपदम् । पप्रच्छेदं विनीतात्मा नेमिनाथं स कौतुकः ॥२१॥ भगवन् वासुदेवस्य महाराज्यसमागमः। कियन्तं कालमासाद्य भविष्यति वदाशु मे ॥ २२ ॥ निशम्य बलदेवस्य वचनं संसदि स्फुटम् । नेमिनाथो जगादेमं प्रीतिविस्फारितेक्षणम् ॥ २३ ॥ ॥ अद्यप्रभृति भूपाल वर्षे द्वादशमात्रके । लोकद्रव्यसमाकीर्णा नंक्ष्यति द्वारिका पुरी ॥ २४ ॥ एतावति गते काले विष्णोश्चापि महात्मनः । भविष्यति बल क्षिप्रं राज्यलक्ष्मीपरिक्षयः ॥२५॥ निशम्य नेमिचन्द्रस्य वचनं च हितं नृणाम् । बलभद्रो बभाणेमं केवलामललोचनम् ॥ २६ ॥ समस्तजनयुक्ताया द्वारवत्या जिनेश्वर । सांप्रतं ब्रूहि मे नाथ विनाशः केन हेतुना ॥ २७॥ बलदेवोदितं श्रुत्वा नेमिनाथो जगावमुम् । कादम्बरीनिमित्तेन विनाशोऽस्या भविष्यति ॥ २८॥ 15 अवाचि बलदेवेन भूयोऽपि च जिनेश्वरः । वद मे द्वारवत्या हि विनाशं को विधास्यति ॥ २९॥ बलस्य वचनं श्रुत्वा कौतुकव्याप्तचेतसः । हरिवंशनभश्चन्द्रो नेमिचन्द्रो जगावमुम् ॥ ३०॥ हिरण्यनाभिपुत्रोऽयं रोहिण्या हि सहोदरः । मुनिीपायनः क्रुद्धः शम्बुवाक्यसमीरणात् ॥ ३१ ॥ कालं कृत्वा पुनः सद्यो धूमकेतुरभिख्यया । अमरोऽग्निकुमाराणां भविष्यति विभोज्वलः ॥३२॥ भवन्तौ भ्रातरौ हित्वा सबन्धुपरिवारिकाम् । द्वारिकां धक्ष्यति क्षिप्रं द्वीपायनचरोऽसुरः॥ ३३ ॥2॥ जरत्कुमारहस्तेन भव क्षुरिकयाऽनया । मरणं वासुदेवस्य भविष्यति विसंशयम् ॥ ३४ ॥ नेमिनाथवचः श्रुत्वा वन्दित्वाऽमुं सुभक्तितः । प्रविष्टौ द्वारिकां शीघ्रं सजनौ बलकेशवौ ॥ ३५॥ ततो द्वारवतीमा समस्तं नृपवाक्यतः । मुक्तं रेवतकोद्याने कदम्बतरुसंकुले ॥ ३६ ॥ ततो जरत्कुमारोऽपि हित्वा द्वारवतीं पुरीम् । कृत्वा विन्ध्यपुरं तस्थौ विन्ध्यपर्वतमस्तके ॥ ३७॥ निशाने भलिकाकारां विधाय क्षुरिकामसौ । चिक्षेप वारिधौ क्षिप्रं नानाग्राहसमाकुले ॥ ३८॥ पतन्ती वारिधौ सा च मीनेन गिलिता तदा । स मत्स्यो धीवरैर्बद्धो जालेन विधियोगतः ॥३९॥ ततस्तद्भल्लिकाखण्डं काकतालीययोगतः । लब्धं जरत्कुमारेण तच्छरस्थं वितिष्ठते ॥ ४० ॥ द्वीपायनमुनिहित्वा सुराष्ट्रविषयं द्रुतम् । पूर्वदेशं जगामासौ तपःशोषितविग्रहः ॥४१॥ ततो द्वादशवर्षाणि स्थित्वाऽन्यत्र महातपाः । अजानन्नधिकं मासं द्वारिकामाजगाम सः ॥ ४२ ॥ ततो रेवतकोद्यानमध्यस्थे तत्पुरान्तके । ऊर्ध्वग्रीवनगे योगी तस्थौ प्रतिमया दिने ॥ ४३॥ 30 अथ शम्बुकुमारादिकुमाराः समविभ्रमाः। ययू रेवतकोद्यानं क्रीडानिहतमानसाः॥४४॥ पीत्वा कादम्बरीतोयं दृष्ट्वा द्वीपायनं पथि । आतापमास्थितं तत्र ध्यायन्तं तत्त्वमादरात् ॥४५॥ गलप्रमाणमापादादिष्टकोपललोष्टुभिः । आपूर्य सुतरां साधु कुमारा विविशुः पुरीम् ॥ ४६॥ ____ 1 पफज युगलमिदम्. 2 पफज युगलमिदम्. 3 पफज युगलमिदम्. 4 [ तव] 5 पफज चतुःकुलकमिदम्. 6 [ निशान्ते]. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566