Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 444
________________ -११४.१३] पञ्चालगन्धर्वदत्ताकथानकम् . २८५ ११३. गन्धमित्रकथानकम् । ततः सुकोशलाभिख्ये विषये परमोदये । अस्त्ययोध्यापुरी रम्या साणूरसरसीवनैः ॥ १॥ विद्यतेऽस्यां महाराजो यशःसेनो हताहितः । प्रिया जयमतिस्तस्य महाजयमतिः प्रिया ॥२॥ अभूतामनयोः पुत्रौ कलाविज्ञानशालिनौ । जयसेनो मतः पूर्वो गन्धमित्रोऽपरो मतः ॥३॥ अन्यदा प्राप्य वैराग्यं राज्यं ज्येष्ठाय सूनवे । युवराज्यं कनिष्ठाय यशःसेनो ददौ विभुः ॥४॥5 त्रिःपरीत्य तमीशानं नत्वा भक्त्या पुनः पुनः। मुनिसागरसामीप्ये ददौ दीक्षां स भूपतिः ॥५॥ योऽसौ ज्येष्ठसुतस्तस्य स्थितो जनकविष्टरे । राज्यमादाय वेगेन गन्धमित्रेण धाटितः ॥६॥ छिद्रं स गन्धमित्रस्य नक्तं पश्यद्दिनं तदा । जयसेनः स्वसैन्येन तस्थौ द्वारस्थितो रुषा ॥ ७॥ पीनोन्नतकुचद्वन्द्वैर्नीलोत्पलदलेक्षणैः । गन्धमित्रोऽपि राजेन्द्रः पञ्चभी रमणीशतैः ॥ ८॥ पञ्चेन्द्रियेषु मध्येऽसौ घ्राणेन्द्रियपरस्तराम् । भुञ्जानः परमान् भोगांस्तस्थौ मुदितमानसः ॥९॥ 10 अन्यदा गन्धमित्रोऽसौ सर्वदेवीसमन्वितः । जयसेनेन विज्ञातः स्थितो यः सरयूहदे ॥ १० ॥ ज्ञात्वाऽमुं सरयूभागे तदानीमुपरिष्टके । नानातरुप्रसूनानि विषधूलीयुतान्यलम् ॥ ११ ॥ तं तदा जलपूरेण मन्दमन्दप्रवाहिना । जयसेनः स्थितस्तत्र मुमोचाशु रुषान्वितः ॥ १२ ॥ तद्देवीभिः समादाय विषयुक्तानि तान्यलम् । दत्तानि रमणायास्मै तत्करे ताभिरादरात् ॥ १३॥ आदाय चित्रवर्णानि तानि चाघ्राय रागतः । गन्धमित्रो मृतिं प्राप्य जगाम नरकं पुनः ॥१४॥ ज्येष्ठोऽपि जयसेनाख्यो गृहीत्वा राज्यमात्मनः। भुञ्जानः परमान् भोगान् सुखं तस्थौ स्वपत्तने ॥१५॥ ॥ इति श्रीघ्राणेन्द्रियसमायुक्तनरकगमनगन्धमित्रकथानकमिदम् ॥ ११३ ॥ ११४. पञ्चालगन्धर्वदत्ताकथानकम् । नगरे पाटलीपुत्रे हतशत्रुकदम्बकः । राजा गन्धर्वदत्तोऽभूत् सर्वलोकमनोहरः ॥१॥ बभूव तन्महादेवी पीनोन्नतकुचान्विता । गन्धर्वोपपदा सेना कन्दोट्टदललोचना ॥२॥ 20 गन्धर्वोपपदा दत्ता पद्मकोमलपाणिका । गन्धर्वे विषये दक्षा गन्धर्वमदगर्विता ॥ ३॥ अस्यैव भूपतेरासीत् पुत्रिका लोललोचना । कलाकलापसंयुक्ता विज्ञानातिशयान्विता ॥४॥ गन्धर्वविधिना यो हि कुमारी मां विजेष्यते । तस्य भार्या भविष्यामि संगरोऽयं मम स्फुटम् ॥५॥ अथवा मां न कोऽप्यत्र गन्धर्वेण विजेष्यते । ग्रामत्रयेण युक्तेन तथा सप्तस्वरैरपि ॥ ६॥ चित्रभानौ ततः क्षिप्रं ज्वालाभासितपुष्करे । करिष्यामि जनाध्यक्षं प्रवेशं निर्विकल्पकम् ॥ ७ ॥ 25 आदाय ब्रह्मचर्य वा निश्चितं सार्वकालिकम् । पुत्रिकेयं तदा तस्थौ प्रतिज्ञारूढमानसा ॥ ८॥ अस्यामेव स्थितायां च प्रतिज्ञारूढचेतसि । स्वयंवरार्थमायाता नानानरगणास्तदा ॥९॥ खमन्दिराद् विनिःसृत्य नरनारीसमन्विता । तस्थौ गन्धर्वदत्ताऽपि सा स्वयंवरमण्डपे ॥१०॥ ... गतैरेकदिने तस्मिन् सप्तभिः सप्तभिर्दिनैः। वादं करोति सा बाला गन्धर्वेण नरोत्तमैः ॥ ११॥ गन्धर्वदत्तया तत्र कालेन बहुना तया । सविलासं नराः सर्वे गन्धर्वेण निराकृताः ॥ १२॥ 30 विजयानगासन्ने पोदनाख्ये पुरोत्तमे । एकः पञ्चालनामासीदुपाध्यायः कलान्वितः ॥१३॥ 1 [ दधौ ]. पफज युगलमिदम्. प्रफज युगलमिदम्. 4 पफ कुमारिं. 5 ज षद्कुलकम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566