Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 442
________________ - ११२. १३ ] कुलजमहापुरुषकथानकम् १११. मरीचिकथानकम् । १ ॥ २ ॥ विषये 'पुष्पलावत्यां विशिष्टजनसंकुले | मधुपूर्वं वनं रम्यं बभूव मधुकान्वितम् ॥ नानानो कुहसंछन्ने नानापक्षिरवाकुले । वसति प्रीतचेतस्को म्लेच्छो नाम पुरूरवाः ॥ अन्यदा विहरन् क्वापि नष्टमार्गे महामुनिः । समाधिपूर्वको गुप्तो तद्वनं प्रविवेश सः ॥ ३ ॥ ततः पर्यटताऽनेन तद्वने भ्रान्तचेतसा । दृष्टः पुरूरवा म्लेच्छो मार्गश्रमयुतेन सः ॥ ४ ॥ नानाजनसमेतस्य महादेशस्य सत्वरम् । ब्रूहि मार्ग मम स्पष्टं येन यामि वनेचर ॥ ५ ॥ मुनिवाक्यं समाकर्ण्य धर्मशीलपुरूरवाः । जगादायं मुनेरस्य मार्गं देशस्य शोभनम् ॥ ६ ॥ पुरूरवोवचः श्रुत्वाऽवक्रशीलं महामुनिः । कृपाऽङ्गनापरिष्वक्तहृदयो निजगावमुम् ॥ ७ ॥ महामार्गेण खिन्नस्य देहस्य मृदुमानसः । अटवीविप्रनष्टस्य मम मार्गस्त्वयोदितः ॥ ८ ॥ भवाटवीप्रनष्टस्य वृक्षगोत्रावगाहिनः । धर्मपाथेयहीनस्य मोक्षमार्गं ब्रवीमि ते ॥ ९ ॥ साधूदितं समाकर्ण्य बभाणेमं पुरूरवाः । मोक्षमार्गस्य पन्थानं प्रदर्शय मम स्फुटम् ॥ १० ॥ गृहिधर्मपथोऽनेन सम्यक्त्वादिपुरस्सरः । तद्वाक्यतः समादिष्टः साधुना तद्धितैषिणा ॥ ११ ॥ श्रावकं धर्ममासाद्य कालं कृत्वा पुरूरवाः । सौधर्मे चाभवद् देवः सागरैकप्रजीवितः ॥ १२ ॥ ततश्युत्वाऽभवत् पुत्रश्चक्रिणो भरतस्य सः । मरीचिसंज्ञया युक्तो धारिणीकुक्षिसंभवः ॥ १३ ॥ दीक्षितः पुरुदेवेन मरीचिर्नाभिसूनुना । सभायां स्वस्तुतिं श्रुत्वा सांख्यधर्मं दिदेश सः ॥ १४ ॥ 15 भूयो मिथ्यात्वदोषेण परिभ्रम्याजवंजवम् । अभवच्च महावीरः तीर्थकृच्चरमः पुनः ॥ १५ ॥ ॥ इति श्रीमरीचिकथानकमिदम् ॥ १११ ॥ २८३ ११२. कुलजमहापुरुषकथानकम् । अवन्तीविषये चास्ति श्रीमदुज्जयिनी पुरी । शूरसेनो नरेन्द्रोऽस्यां शूरसेनाऽस्य गेहिनी ॥ १ ॥ अनयो रूपसंपन्नः शूरवीरो जनप्रियः । शूरवीरोऽभवत् पुत्रः कलाविज्ञानकोविदः ॥ २ ॥ तद्व्याधिच्छेदनार्थं च नरेन्द्रविषघातिनाम् । वैद्यानां संग्रहोऽनेन भूभुजा विहितो गृहे ॥ ३ ॥ तेषां संपूजनं राजा भोजनाच्छादनादिना । शूरवीरनिमित्तेन करोति सततं तराम् ॥ ४ ॥ अन्यदा शूरवीरोऽसौ प्रासादशिखरस्थितः । दष्टो भीमभुजङ्गेन पपात भुवि निःक्रियः ॥ ५ ॥ एवंस्थिते कुमारेऽस्मिन् विषदा वैद्यभूभुजः । आहूता युगपत् सर्वे नरेन्द्रेण समागताः ॥ ६ ॥ यथाक्रमं निविष्टेषु तेषु सर्वेषु सादरम् । एवमुक्ता नरेन्द्रेण पुत्रशोकविचेतसा ॥ ७ ॥ शूरवीरकुमारस्य मत्पुत्रस्य प्रयत्नतः । अस्माभिर्युगपत् प्रोक्ता यूयं कुरुत जीवनम् ॥ ८ ॥ भूपालस्य वचः श्रुत्वा सोमशर्मा द्विजः पुनः । कुशलोऽष्टाङ्गवेदेषु जगादेति महीपतिम् ॥ ९ ॥ यादृशं दिननक्षत्रं वारवेलामुहूर्तकम् । दंष्ट्रालक्षणमेतैश्च दष्टो भूप न जीवति ॥ १० ॥ श्रुत्वा तद्वचनं भूयो बभाणेमं महीपतिः । भवतां संग्रहोऽस्माभिः पुत्रार्थं विहितो ननु ॥ ११ ॥ आकर्ण्य भूपतेर्वाक्यं सोमशर्मा जगावमुम् । वार्तिकः कुर्वते कर्म संग्रहानुगतं नृप ॥ १२ ॥ अवाचि भूभुजा भूयो सोमशर्मा तदुक्तितः । मत्पुत्रोऽयं कुवैद्येषु सत्सु कालगतः कथम् ॥ १३ ॥ 30 1 [ पुष्कलावत्यां ]. 2 [ मानस ]. 3 पफज त्रिकलमिदम्. 4 पफज त्रिकलमिदम् 5 पफज युगलम् 6 पफ युग्मम् ज युगलम् 7 [ सुवैद्येषु ]. Jain Education International For Private & Personal Use Only 10 20 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566