Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 441
________________ २८२ हरिषेणाचार्यकृते बृहत्कथाकोशे [१०९. ३३स्मृत्वा तद्वैरसंबन्धं वेषमादाय तापसम् । फलानि दर्शयामास दिव्यान्येष महीपतेः ॥ ३३॥ नीत्वा समुद्रमध्येऽमुं फललोभेन चक्रिणम् । प्रापयन् भ्रंशतां दृष्टेर्ममार सहसाऽमरः ॥ ३४ ॥ पश्चान्मृतिं परिप्राप्य ब्रह्मदत्तो दुराशयः । सप्तमं नरकं प्राप घोरं दुःखसमाकुलम् ॥ ३५ ॥ ॥ इति श्रीनिदानविधानकरणसप्तमनरकगमन संभूतिकथानकमिदम् ॥ १०९॥ ११०. पुष्पदत्ताकथानकम् । अत्रैव भरतक्षेत्रे जितधामपुरेऽभवत् । पुष्पचूलो नृपोऽस्यापि पुष्पदन्ता प्रिया प्रिया ॥१॥ तस्या रूपसमेताया धात्रिका नित्यपण्डिता । कलाविज्ञानसंपन्ना यौवनेन समन्विता ॥२॥ अन्यदा विहरन् क्वापि संघेन महता युतः । अमरप्रभयोगीन्द्रस्तत्पुरोधानमाययौ ॥३॥ 10 श्रुत्वा मुनि परिप्राप्त पुष्पचूलो नरेश्वरः । नत्वा धर्ममुपश्रुत्य तदन्ते मुनितामितः॥४॥ पुष्पदन्ताऽपि तद्देवी धात्रीकासहिता सती । बंभिल्लगणिनीपार्थे तदानीमर्यिकाऽभवत् ॥५॥ ततस्तपः समादाय पुष्पदन्तार्यिका तदा । कुलैश्वर्यमदोन्मत्ता महागर्वसमन्विता ॥६॥ अन्यासामर्यिकाणां च वन्दनां कर्तुमिच्छति । नो मूढात्मा प्रमादाच कुर्याद् वा मायया सका ॥७॥ मुख्यकायस्य वक्रस्य दुर्गन्धस्यापि सर्वदा । सुगन्धद्रव्यचूर्णेन करोत्येषा सुधूपनम् ॥ ८॥ 15 एवं प्रकुर्वतीं दृष्ट्वा पुष्पदत्ता दिने दिने । तन्महत्तरिका तां च जगादेति विचक्षणा ॥ ९॥ गन्धवस्त्रशरीराणां संस्कारो द्रव्ययोगतः । कर्तुं न युज्यते पुत्रि मतमेतन्जिनेशिनाम् ॥ १० ॥ खमहत्तरिकावाक्यं श्रुत्वा तां प्राह मायया । मच्छरीरं खभावेन सुगन्धं रूपसंयुतम् ॥११॥ मायाशल्येन संयुक्तं तपो धातृकया सह । पुष्पदत्तार्यिका कृत्वा सौधर्मेऽजनि सा पुनः ॥१२॥ अत्रैव भरते वास्ये चम्पायां पुरि विद्यते । श्रेष्ठी सागरदत्ताख्यो धनश्रीरस्य गेहिनी ॥१३॥ 20 सौधर्मादेत्य सा धात्री धनश्रीतनयाऽभवत् । धनमित्राख्यया युक्ता रूपराजितविग्रहा ॥१४॥ मायाशल्येन संयुक्ता पुष्पदन्ताऽपि तच्युता । जातेयं धनमित्राया दासी पूतिमुखी परा ॥१५॥ ततः सागरदत्तेन पृष्टो नैमित्तिकोऽन्यदा । धनमित्रावरः को वा भविष्यति वदाशु मे ॥१६॥ श्रुत्वा सागरदत्तस्य श्रेष्ठिनो वचनं तदा । नैमित्तिको जगादेमममोघवचनो भुवि ॥१७॥ त्वद्वने यं नरं दृष्ट्वा निषण्णं रूपशेखरम् । लाभो दीनारलक्षस्य भविष्यति तव स्फुटम् ॥१८॥ 25 तथा हि पूतिमुख्याश्च यं दृष्ट्वा नरपुङ्गवम् । मुखं दुर्गन्धतां हित्वा साधुगन्धं भविष्यति ॥१९॥ नरेन्द्रकृतसन्मानः कीर्तिच्छन्नदिगन्तरः । स पतिधनमित्रायास्त्वत्सुताया भविष्यति ॥२०॥ ततः सागरदत्तोऽपि नैमित्तिकनिदेशतः । समस्तनरयूथस्य चकारेदं परीक्षणम् ॥ २१ ॥ अत्रान्तरे महाभाग्यो वसुदेवो नराधिपः । वनं सागरदत्तस्य संप्रापत् पर्यटन क्वचित् ॥ २२ ॥ दृष्ट्वा सागरदत्तोऽयं वसुदेवं वनस्थितम् । लाभं दीनारलक्षस्य लेभे तत्संगमादरात् ॥ २३॥ ३० दृष्ट्वा पूतिमुखी भूपं तत्रत्यं खमुखस्य च । हित्वा दुर्गन्धतां सद्यः सुगन्धत्वं समाप सा ॥२४॥ अथ सागरदत्तोऽमा सुतया धनमित्रया । चकार वसुदेवस्य पाणिग्रहणमङ्गलम् ॥ २५॥ ॥इति 'श्रीपुष्पदत्तार्यिकामायाकृतनिन्दाकथानकमिदम् ॥ ११०॥ 1 फ गलिणी. 2 पफज युगलमिदम्. 3 [ पुष्पदन्तां ]. 4 पफज युगलमिदम्. 5 [ पुष्पादन्ता]. 6 पफज चतुःकुलकम्. 7 [श्रीपुष्पदन्ता]. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566