Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 440
________________ २८१ -१०९. ३२] चित्तसंभूतकथानकम् १०९. चित्तसंभूतकथानकम् । काशीजनपदे रम्ये पुरी वाणारसी परा । अस्यां कृषीवलो निःस्वः सुषेणाख्योऽभवत् पुरि ॥१॥ गन्धारी तस्य भार्याऽऽसीन्मनोनयनवल्लभा । अनयोश्चित्तसंभूतावभूतां तनयौ क्रमात् ॥२॥ सुशीलौ सर्वशास्त्रेषु रूपिणौ गुणसागरौ । कुलजातिस्वकां हित्वा यातौ तौ परमण्डलम् ॥३॥ नर्तनं विप्रवेषेण कुर्वन्तौ गीतमप्यदः । तिष्ठतस्तौ धरापृष्ठे कलकण्ठौ मनस्विनौ ॥४॥ अन्यदा नर्तनं रम्यं पुरे राजगृहे परे । नर्तकीवेषतो गीतं कुर्वाते तो सुरोपमम् ॥ ५॥ संभूतस्य समालोक्य नर्तनं कुर्वतः परम् । स्त्रीवेषेण सुशर्माऽपि मोहितोऽभूत् पुरोहितः ॥६॥ कालेन बहुनाऽनेन ज्ञातेयं स्त्री न दुःखतः । एष दिव्यो नरः कोऽपि कलाविज्ञानकोविदः ॥७॥ दिव्यरूपधरायास्मै संभूताय महात्मने । लक्ष्मीमती स्वसा दत्ता खकेयं च सुशर्मणा ॥८॥ संभूतस्य कुले ज्ञाते कालेन बहुनाऽमुना । ततस्तो लजितौ सन्तौ गतौ पाटलिपुत्रकम् ॥ ९॥॥ ततोऽमुष्मिन् पुरे ताभ्यां कुर्वभ्यां निशि नर्तनम् । भ्रातृभ्यां रञ्जितो लोकः कौमुदीसुमहामहे ॥१०॥ ततः समुदिते सूर्य विज्ञातौ श्मश्रुणा तकौ । नरैनराविमौ नूनं योषितौ भवतो न च ॥११॥ काशीजनपुरं प्राप्य गुरुदत्ताख्ययोगिनः । जिनधर्म तकौ श्रुत्वा दीक्षां दैगम्बरीमितौ ॥१२॥ समस्तमागमं श्रुत्वा जिनधर्मपरायणौ । तपोभिः कृशदेहौ तौ गतौ राजगृहं परम् ॥ १३॥ कृत्वा पक्षोपवासं च पारणार्थं पुरान्तरम् । प्रविवेश पुरि श्रान्तः संभूताख्यो महामुनिः ॥ १४ ॥ 15 भिक्षार्थ पर्यटन् साधुस्तदा राजगृहान्तरे । ददर्श च सुशर्माणं प्राक्तनं तं पुरोधसम् ॥ १५ ॥ दृष्ट्वाऽमुं पुरमध्ये च वेपमानशरीरकम् । ननाश तदनु पाप वसुशर्मा पुरोहितः॥१६॥ धावतोऽस्य मुनेस्तत्र संभूताख्यस्य वेगतः । तेजोऽग्निर्निर्गतो वक्रात् तेन व्याप्ता दिशो दश ॥१७॥ तं वृत्तान्तं परिज्ञाय ज्येष्ठश्चित्ताभिधो मुनिः । आजगाम महावेगाद् विस्मयव्याप्तमानसः ॥१८॥ अनेन मुनिना शीघ्रं कृत्वागमनमादरात् । संभूताख्यमुनेस्तत्र तेजोनिरिणं कृतम् ॥ १९॥ 20 ज्ञात्वा तन्मुनिमाहात्म्यं भयवेपितविग्रहः । पुरोधा विस्मितस्वान्तो वसुशर्मा पलायितः ॥२०॥ अत्रान्तरे समादाय चक्रिरूपं च देवता । महाविभूतियोगेन मुनिसेवां करोति सा ॥ २१ ॥ मुनिसेवां प्रकुर्वाणां देवतां विभवान्विताम् । संभूताख्यमुनिर्मूढो निदानमकरोदिदम् ॥ २२ ॥ विद्यते मम माहात्म्यमेतस्य तपसो यदि । अन्यजन्मन्यहं चक्री भवयंश्च' ततः स्फुटम् ॥ २३॥ कृत्वा निदानमीदृक्षं कालं संभूतको मुनिः । सौधर्मे धर्मसंयोगाज्जातो देवो महर्द्धिकः ॥ २४ ॥ अत्रैव भरतक्षेत्रे जम्बूद्वीपोपलक्षिते । काम्पिल्यं नगरं चास्ति पञ्चालविषयोद्भवम् ॥ २५॥ ब्रह्माख्यो भूपतिस्तत्र विद्यते परमोदयः । बभूव तन्महादेवी वनदेवीव सुन्दरी ॥ २६ ॥ चक्री द्वादशमो रूपी ब्रह्मदत्ताभिधो बली । संभूताख्यचरो देवो जातः पुत्रोऽनयोर्भुवि ॥ २७ ॥ संसारसागरं भ्रान्त्वा वसुशर्मा पुरोहितः । सूपकारो बभूवायं ब्रह्मदत्तस्य चक्रिणः ॥२८॥ अथ भोजनवेलायां विस्तृतायां महीपतेः । क्षुधापम्पाभिभूतस्य ब्रह्मदत्तस्य चक्रिणः ॥ २९॥ आज्ञाभङ्गभयात् तेन सूपकारेण वेगतः । अत्युष्णं पायसं क्षिप्तं स्वर्णपान्यां मनोहरम् ॥ ३०॥ अत्युष्णं पायसं दृष्ट्वा चक्रिणा रोषमीयुषा । सूपकारो हतोऽनेन मस्तकेऽग्निसमेन सः ॥३१॥ पायसेन मृतिं प्राप्य सूपकारो वराककः । लवणाम्भोधिमध्यस्थे द्वीपेऽभूद् व्यन्तरामरः ॥ ३२॥ 1 [भवेयं च]. बृ० को० ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566