Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 431
________________ २७२ हरिषेणाचार्यकृते बृहत्कथाकोशे [ १०६. १४१ १४८ ॥ १४९ ॥ १५० ॥ ततो मायाप्रपञ्चेन भूभुजा कृतदौहृदा । प्रसूता दारकं दिव्यं पूर्वाशेव दिवाकरम् ॥ १४१ ॥ ततोऽसौ जातमात्रोऽपि रत्नकम्बलवेष्टितः । स्वनामाङ्कसमा संगकंसमभूषिकां श्रितः ॥ १४२ ॥ महाजलप्लवासंगपूरितायामशेषतः । उग्रसेनेन भूपेन यमुनायां प्रवाहितः ॥ १४३ ॥' ततोऽसौ कंसमञ्जूषा यमुनाजलपूरतः । कौशाम्ब्याख्यपुरीं प्राप्य तस्थौ तत्रत्यसंगमे ॥ १४४ ॥ • अथ प्रभातकाले ai कौशाम्बीनगरीभवा । ददर्श कंसमञ्जूषां कल्पपाली रजोदरी ॥ १४५ ॥ विधायोद्घाटनं तस्या' दृष्ट्वा तन्मध्यगं शिशुम् । आदाय तां निनायासौ संतुष्टा निजमन्दिरम् ॥१४६॥ कंसमभूषिकान्तस्थो ततो लब्धोऽनया शिशुः । कंसनाम कृतं तस्य स्वगुणानुगतं ततः ॥ १४७ ॥ ततो मृष्टाशनेनाशु वृद्धिं नीतोऽनया शिशुः । सप्ताष्टवर्षतो जातो रूपराजित विग्रहः ॥ हन्ति पौरशिशून् बालः सर्वदा यष्टिघाततः । निर्धाटितः स्वतो गेहाज्जनोपालम्भतोऽनया ॥ 1. तया निर्धाटितः कंसस्तां पुरीं सूरिकाभिधाम् । जगाम सहसा रम्यां पताकावलितोरणैः ॥ गृहीतशस्त्रशास्त्रार्थो वसुदेवोपदेशतः । वरं च परमं लब्ध्वा तस्थौ कंसोऽपि संमदी ॥ मगधाख्य महादेशे पुरे राजगृहाभिधे । अर्धचक्री बभूवासौ जरासन्धाभिधो नृपः ॥ अभवत् तन्महादेवी कलिङ्गोपपदा यशाः । अनयोस्तनया तन्वी नाम्ना जीवंयशा परा ॥ आदेशोऽयं कृतस्तस्याः सत्यनैमित्तिकेन च । यथेयं विधवा कन्या भविष्यत्यल्पकालतः ॥ १५४॥ 15 यः पोदनापुराधीशं नृपं सिंहरथाभिधम् । बद्ध्वा नयति मत्पार्श्वं तस्मै दास्यामि कन्यकाम् ॥१५५॥ इयं प्रघोषणा दत्ता जरासन्धेन भूभुजा । समुद्रविजयाभ्याशं संप्राप्ता विधियोगतः ॥ १५६ ॥ समुद्रविजयः श्रुत्वा तद्वृत्तान्तमशेषतः । स्वसैन्यं वसुदेवं च प्रजिघाय तदन्तिकम् ॥ १५७ ॥ पोदनाख्यपुराभ्याशे स्कन्धावारं निधाय सः । सार्थवाहनिभेनागात् वसुदेवोऽपि तत्पुरम् ॥ १५८॥ सिंहानां विष्टमूत्राणि समादाय स्वसैन्यकात् । तद्गन्धेन च तत्सैन्यं भावयामास भूपतिः ॥१५९॥ 20 ततः सिंहरथं युद्धे वसुदेवोऽपि सादरम् । चकार विरथं शूरस्तदानीं कंससारथिः ॥ १६० ॥ वसुदेवस्ततः प्राह तदा कंसं पुरः स्थितम् । बद्धा सिंहरथं वत्स त्वमानय मदन्तिकम् ॥ अथ सिंहरथं बद्ध्वा वसुदेवरथे मुदा । कंसोऽपि च चकारेमं मत्तमातङ्गविभ्रमः ॥ घोषणां च प्रदायेमां वसुदेवोऽपि तत्पुरे । कंसेन सहसा युद्धे धृतः सिंहरथो नृपः ॥ ततः सिंहरथं शूरं वसुदेवः सकंसकः । मुदा समर्पयामास जरासन्धस्य भोगिनः ॥ 25 दृष्ट्वा पुरः स्थितं कंसं तोषपूरितमानसः । पप्रच्छ पितृसंबन्धं जरासन्धः कुतूहली ॥ जरासन्धवचः श्रुत्वा कंसोऽपि निजगाद तम् । सौलो' गङ्गटभोऽस्तीह कौशाम्बीनगरीभवः ॥१६६॥ रजोदरी च तद्भार्या रूपराजितविग्रहा । तत्पुत्रः कंसनामाहं शस्त्रशास्त्रकलान्वितः ॥ १६७ ॥ श्रुत्वा तद्वचनं राजा कौशाम्बीनगरीभवम् । दूतं प्रवेशयामास कंसस्य जननीं प्रति पुरस्कृत्य समञ्जूषां दूतः कंसस्य मातरम् । मुदा समर्पयामास जरासन्धस्य सत्वरम् ॥ " जरासिन्धो' विलोक्येमां समञ्जूषामभाषत । कंसस्ते नन्दनो भद्रे वद त्वं मे यथायथम् ॥ १७० ॥ निशम्य भारतीमस्य जगादैषा नरेश्वरम् । रत्नकम्बलसंयुक्तां कंसमञ्जषिकामिमाम् ॥ १७१ ॥ मुद्रासमन्वितां चाव दर्शयित्वा सभान्तरे । कंसो मन्नन्दनो नायं कंसमञ्जषिकासुतः ॥ १७२॥ कंसमञ्जूषिकामध्यं रत्नकम्बलकं तदा । उग्रसेनस्य नाम्नममङ्कितं ज्ञातवानसौ ॥ १७३ ॥ १६९ ॥ १६२ ॥ ॥ १६८ ॥ १६९ ॥ Jain Education International १५१ ॥ १५२ ॥ १५३ ॥ 1 पफ युग्मम् ज युगलमिदम्. 2 पफ जलपूरितः 3फ तस्य 4 ज लब्धा. 5ज सैंहानि, 6 पफ स्वसैन्यकान्. 7 [ सौरो गङ्गभटो° ]. 8 [ जरासन्धो ] 9 पफ युग्मम् ज युगलमिदम्. For Private & Personal Use Only १६३ ॥ १६४ ॥ १६५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566