Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 432
________________ -२०६. २०६] उग्रसेनवसिष्ठकथानकम् २७३ यदि कलालिके नूनं त्वत्पुत्रो न भवत्ययम् । सोदरो भागिनेयो मे चोग्रसेनशरीरजः ॥ १७४ ॥ जरासन्धेन तुष्टेन दत्त्वा जीवंयशां मुदा । मथुराविषयो दत्तः कंसायाक्लिष्टतेजसे ॥ १७५ ॥ ततोऽयं मथुरां प्राप्य जित्वा जनकमाहवे । कंसोऽमुं स्थापयामास गोपुरद्वारकोपरि ॥ १७६ ॥ कोद्रवोदनसंपूर्ण शरावं हि सकांजिकम् । कंसादेशेन भुङ्क्तेऽसौ तदा बलविवर्जितम् ॥ १७७॥ दृष्ट्वापमानमीदृक्षमतिमुक्तकबालकः । दीक्षामादाय जैनेन्द्रीं तस्थौ मुदितमानसः ॥ १७८ ॥ ततः कंसेन तुष्टेन वसुदेवः स्वपत्तने । आनीतः प्रीतयुक्तेन सस्नेहं स वितिष्ठते ॥ १७९ ॥ मित्रवत्यां पुरि श्रीमान् देवकिर्नाम भूपतिः । कंसस्य सादरश्वासीत् पितृव्यः स्नेहतत्परः ॥१८०॥ बभूव तन्महादेवी धनदेवी मनःप्रिया । तत्सुता देवकी नाम रूपलावण्यसंयुता ॥ १८१ ॥ दत्ता कंसेन तुष्टन वसुदेवाय देवकी । परिणीता विधानेन तगृहे सा वितिष्ठते ॥ १८२॥ पुष्पवत्यां च देवक्यां संजातायां महोत्सवः । तजनैः कर्तुमारब्धस्तूर्यमङ्गलनिखनैः ॥ १८३॥ सुप्रतीकस्थितान्येषा नववस्त्राणि सादरम् । आदाय मस्तके स्वेन स्वकीये निजपाणिना ॥ १८४॥ कलगीतं प्रगायन्ती मुनिमोहनकारणम् । कामिनीजनमध्यस्था नटद्भिः पटहैः कलैः ॥ १८५ ॥ मधुराख्यपुरीमध्ये कृतलोकमहोत्सवे । जीवंयशा प्रनृत्यन्ती भ्राम्यति प्रीतमानसा ॥ १८६ ॥' दृष्ट्वाऽतिमुक्तकं साधु चर्यामार्गेण तत्पुरे । तदा मध्याह्नवेलायां प्रविष्टं गोचरं प्रति ॥ १८७॥ विलोक्येमं मुनिं मार्गे रूपयौवनगर्विता । हसन्तीदं जगादासौ मन्दमन्दगतिक्रिया ॥ १८८ ॥ 15 एहि देवर देवक्या ह्युत्सवो वर्तते महान् । तेन शीघ्रं परिप्राप्य मत्समं नर्तनं कुरु ॥ १८९ ॥ जीवंयशावचः श्रुत्वा तरां साधुजनोज्झितम् । अतिमुक्तकयोगीन्द्रो बभाणैतां पुरः स्थिताम् ॥१९०॥ अस्माकं नर्तनं भद्रे युज्यते न तपस्विनाम् । तेन त्वमेव संतोषान्नर्तनं कुरु बालिके ॥ १९१॥ एवमुक्ताऽपि सा तेन तथाऽपि वदतीदृशम् । नर्तनं गीतसंयुक्तं कुरु सार्धं मया मुने ॥ १९२ ॥ तद्वाक्यतोऽतितुष्टेन मुनिनाऽस्या महानयम् । शापोऽलीकतया हीनो वितीर्णो दुष्टचेतसः ॥१९३॥ 20 यत्कृते मस्तके कृत्वा वस्त्राणि विविधानि च । नर्तनं कुरुषे बाढं कलगीतं मदातुरा ॥ १९४ ।। तस्या यो नन्दनो भावी नन्दिताशेषबान्धवः। स ते भर्तुः खले नूनं करिष्यति निपातनम् ॥१९५॥ तद्वाक्यतस्तया तानि शिरोवस्त्राणि रोषतः । मस्तकात् सहसा भूमौ प्रमुक्तानि सरोदनम् ॥१९६॥ विलोक्यैतानि वस्त्राणि तन्मुक्तानि धरातले । आदेशो विहितोऽनेन द्वितीयोऽयं तपस्विना ॥१९७॥ न केवलमिमं कंसं त्वत्पतिं स हनिष्यति । त्वत्तातं च जरासन्धं त्रिखण्डाधिपतिं खले ॥१९८॥ 25 तद्वाक्यतः समादाय तानि वस्त्राणि हस्ततः । पाटयित्वा रुषा मुक्त्वा ममर्द चरणेन सा ॥१९९॥ विलोक्य तानि वस्त्राणि मर्दितानि स्वपादतः । चके तृतीयमादेशमिमं साधुः स सत्यवाक् ॥२०॥ त्वत्कुलं निःकुलं कृत्वा त्रिखण्डायामपि क्षितौ । देवकीनन्दनो राज्यं सकलं स विधास्यति ॥२०॥ अन्तरायं विधायासौ निःसृत्य नगरादरम् । उद्यानेषु तरोर्मूले सुखं तस्थौ मुनीश्वरः ॥ २०२॥ जीवंयशा निधायात्र तानि वस्त्राणि दुःखिनी । खगृहं प्राप्य कंसस्य जगौ मुनिवरोदितम् ॥२०३॥ 30 मुनिवातों समाकर्ण्य स्वकान्तापरिभाषिताम् । वसुदेवं वरं कंसो ययाचे भयविह्वलः ॥ २०४॥ वसुदेवमहाराज प्राक्तनं देहि मे वरम् । देवकी मगृहे नूनं प्रसूतिं विदधात्वरम् ॥ २०५॥ कंसवाक्यं समाकर्ण्य तत्स्वभावमजानता । प्रतिपन्नं तदा सर्व वसुदेवेन तोषिणा ॥ २०६॥ 1 पफ त्रिकलम् , ज त्रिकलमिदम्. 2 पफ त्रिकलम् , ज त्रिकलमिदम्. 3 पफ युग्मम् , ज युगलमिदम्, 4 [रुष्टेण]. 5 पफ त्रिकलम् , ज त्रिकलमिदम्. बृ० को० ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566