Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 434
________________ -१०६. २७१] उग्रसेनवसिष्ठकथानकम् २७५ दारकां मातृदेवीनां वसुदेवो निधाय सः । नन्दभार्या जगादेमां यशोदाख्यां मुदान्वितः ॥२४०॥ अस्मभ्यं कोपमासाद्य किं यासि त्वरितं मुधा । आगच्छ दारकं शीघ्रं ते यच्छामि मनोरमम् ॥२४१॥ दारकं शोभनाकारं महापुरुषलक्षणम् । गृहीत्वा दत्तमस्माभिर्याहि त्वं निजमन्दिरम् ॥ २४२ ॥ तद्वाक्यतो यशोदाऽपि विधाय विनिवर्तनम् । आदाय दारकं तुष्टा जगाम निजमन्दिरम् ॥२४३॥ यशोदायत्नतो बाढं स्तनपानादियोगतः । तगृहे वृद्धिमायाति तदानीं बालचन्द्रमाः ॥ २४४ ॥ वसुदेवोऽपि तां बालामादाय निजपाणिना । मुदा समर्पयामास देवक्याः प्राप्य मन्दिरम् ॥२४५॥ एवं कृतेऽमुना तत्र प्रभातसमये सति । देवक्या दारिका जाता कंसेन विदिता सका ॥ २४६॥ विधाय चिपिटं घ्राणं देवक्या कंसभीतितः । वृद्धिं नीता सका कन्या रूपराजितविग्रहा ॥२४७॥ ततो यौवनमासाद्य जिनधर्मेण भाविता । सुव्रतान्ते प्रवत्राज बाला हित्वा नृपाङ्गजान् ॥ २४८॥ संघेन महता युक्ता विहरन्ती पुरादिकम् । विन्ध्यपर्वतसामीप्यं संप्रापत् सा तपस्विनी ॥२४९॥ 10 भीमभिल्लान् समालोक्य विन्ध्यमध्ये भयाकुला । कायोत्सर्गेण सा तस्थौ संघोऽपि पुरतो गतः॥२५०॥ दृष्ट्वा तामार्यिकां तत्र कायोत्सर्गव्यवस्थिताम् । देवतामिति ते नत्वा वदन्तीदं मलिम्लुचः ॥२५१॥ देवते यदि तं सार्थ कनकादिसमन्वितम् । लुण्टयित्वा पुनः शीघ्रमागच्छामस्त्वदन्तिकम् ॥२५२॥ ततस्ते महती पूजां करिष्यामः सुचेतसः । एवं निगद्य तां नत्वा जग्मुर्मुदितचेतसः ॥ २५३ ॥ काकतालीययोगेन हत्वा सार्थ धनादिकम् । प्राप्य जग्मुः प्रदेशं तं दस्यवः प्रीतचेतसः ॥२५४॥ 15 दृष्ट्वा तामार्यिकां तत्र मृतां सिंहेनं चर्चिताम् । तदङ्गुलित्रयं भक्त्या स्थापयित्वोर्ध्वसंगतम् ॥२५५॥ ततः कोलाहलं कृत्वा नर्तनं चापि तत्पुरः । तस्करा महतीं पूजां चक्रुर्विनतमस्तकाः ॥ २५६ ॥ स्थापयित्वा यतो दुर्गे विन्ध्ये भक्तिपरायणैः। दस्युभिः पूजिता सा च नता पुष्पकदम्बकैः॥२५७॥ ततः प्रभृति सा जाता दुर्गादेवी धरातले । नामद्वयसमायुक्ता तथेयं विन्ध्यवासिनी ॥ २५८ ॥ लोके प्रसिद्धिमायातं तत्तीर्थ हिंसनोद्यतम् । तथाऽपि धर्मसंबन्धं कृतपर्वतनामकम् ॥ २५९ ॥ 20 अथ कृष्णोऽपि यातोऽलं वृद्धिं नन्दस्य गोकुले । कंसगेहे समुत्पन्नः समुत्पातो महांस्तदा ॥२६०॥ दृष्ट्वेमं भीषणं कंसः पप्रच्छ सहसाऽऽकुलः । सत्यं शकुनिशर्माणं तदा नैमित्तिकं सभीः॥२६१॥ महे केन कार्येण चोत्पातो जायते महान् । नैमित्तिक समालोक्य कथयाशु मम स्फुटम् ॥२६२॥ कंसोदितं समाकर्ण्य जगौ नैमित्तिकोऽपि तम् । तव शत्रुः समुत्पन्नो नन्दगोष्ठे स तिष्ठति ॥२६३॥ नैमित्तिकोदितं श्रुत्वा संदेहपरिवर्जितम् । अन्यजन्मनि याः सिद्धास्ता देवीातवानसौ ॥२६४॥ 23 ध्यातमात्रास्ततः सर्वा भयवेपितविग्रहाः । युगपत् तं समायाताः किं कर्तव्यसमुद्यताः ॥ २६५॥ शिरःस्थितकरद्वन्द्वा विकसन्मुखपङ्कजाः । दृष्ट्वा पुरःस्थिता देवीः कंसोऽपि निजगौ तदा ॥ २६६॥ नन्दगोष्ठे समुत्पन्नो मद्वैरी योऽधितिष्ठते । मच्छिद्रान्वेषिणस्तस्य कुरुताशु निपातनम् ॥ २६७ ॥ पूतना काकसंयुक्ता तथान्या यमलार्जुना । शकटं च चतस्रोऽपि कंसस्य पुरतः स्थिताः ॥२६८॥ कंसादेशं परिप्राप्य ययुः परमदेवताः । बालभावे स्थितं कृष्णं निहन्तुं नन्दगोकुले ॥ २६९ ॥ 30 वृषभोऽश्वस्तरां दृष्टो द्यूतकारा भुजंगमः । तथा चाणूरमल्लोऽपि कंसस्यैते पुरः स्थिताः ॥ २७० ॥ एते पञ्चापि संप्राप्य कंसादेशेन सत्वराः । युवत्वे वासुदेवेन रणं कर्तुं समुद्यताः ॥ २७१ ॥ .... 1 ज तामर्थिकां. 2 पफ युग्मम् , ज युगलम्. 3 [ चर्विताम् ]. 4 पफ युग्मम् , ज युगलम्. 5 पफ युग्मम् , ज युगलम्. 6 पफ तत्र. 7 प्रफ युग्ममिदम् , ज युगलमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566