Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 437
________________ ૨૩૯૮ हरिषेणाचार्यकृते बृहत्कथाकोशे [ १०८, ३९ स्वमुखं दर्पणे सत्या पश्यन्ती विधुनिर्मले । ददर्श नारदं नासौ पुरः स्थितमपि स्फुटम् ॥ ३९ ॥ ततो निर्गत्य हात् कोपलोहितलोचनः । नारदः सहसा रुष्टो दध्याविति स चेतसि ॥ ४० ॥ निहन्मि किं खलामेतां दृषद्यास्फालयामि किम् । किं वा द्वीपान्तरे पापां क्षिपामि खलचेष्टिताम् ॥४१॥ एवं कृते सति क्षिप्रं विष्णुः शोकेन तप्यते । चिन्तयाम्यपरं किंचिदेतस्याः शोककारणम् ॥ ४२ ॥ योषितामपरं दुःखं विद्यते न धरातले । सपत्नीं रूपिणीं हित्वा सर्वावयवसुन्दरीम् ॥ ४३ ॥ इदं संचिन्त्य विश्रब्धो नारदः प्रीतमानसः । जगाम रुक्मिणीगेहं जनकस्वरसंगतम् ॥ ४४ ॥ सुखासनोपविष्टः सन् विनतः कन्यया तराम् । विष्णुचित्रपटं रम्यं रुक्मिण्याः प्रददर्श सः ॥ ४५ ॥ विलोक्य तत्पटं कन्या विचित्राकारराजितम् । मुमूर्च्छ सहसा तत्र तद्रूपहृतमानसा ॥ ४६ ॥ श्रीखण्डोदकसेन तथा व्यजनवायुना । रुक्मिणी बोधमासाद्य नारदं निजगाविति ॥ ४७ ॥ रूपराजितदेहस्य मच्चित्तानुगतस्य नुः । पट्टोऽयं कस्य मे ब्रूहि कार्यमेतन्महामुने ॥ ४८ ॥ निशम्य नारदो वाक्यं रुक्मिण्याः श्रीतमानसः । जगाद सरसं कन्यां पुष्पिकासहितामिति ॥ ४९ ॥ सुराष्ट्रविषये कान्ते पुरी द्वारमती परा । अस्यां बभूव भूपालो विष्णुर्विजितशात्रवः ॥ ५० ॥ रूपेण मन्मथो भद्रे कल्पवृक्षं स्वदानतः । गम्भीरत्वेन रत्नेशं विभवेन पुरन्दरम् ॥ ५१ ॥ स्थिरत्वेन नगाधीशं बलेन च समीरणम् । धिया सुरगुरुं नीत्या शुक्रं वा यो जयेद् भुवि ॥ ५२ ॥ 15 यादवाम्बरचन्द्रस्य करोद्योतितखावनेः । पटोऽयं राजते तन्वि वासुदेवस्य तस्य सः ॥ ५३ ॥ नारदीयं वचः श्रुत्वा तोषपूरितमानसा । बभाण रुक्मिणी साधुं जटामुकुटधारिणम् ॥ ५४ ॥ यास्यामि सितपञ्चम्यां माघमासस्य नारद । चन्दनं बलिमादाय विनन्तुं माधवीलताम् ॥ ५५ ॥ मच्चित्तलोचनानन्दमानयात्र महामुने । आदाय मां प्रयात्वेष संगमोऽयं मम स्फुटम् ॥ ५६ ॥ रुक्मिणीवाक्यमाकर्ण्य विश्रब्धीकृत्य तां पुनः । जगाम नारदः शीघ्रं विष्णुपार्श्वं मुदान्वितः ॥५७॥ विलोक्य नारदं विष्णुः सहसोत्थाय विष्टरात् । शोभनासनगं कृत्वा ननामैतं बलान्वितः ॥ ५८ ॥ अन्योन्यकुशलं पृष्ट्वा सभामध्ये त्रयोऽत्र ते । तस्थुर्मुदितचेतस्का बल - केशव - नारदाः ॥ ५९ ॥ क्षणमेकं ततः स्थित्वा नारदो रुक्मिणीपटम् । विष्णोः प्रदर्शयामास सजीवमिव सत्वरम् ॥६०॥ विलोक्य तत्परं सद्यो विष्णुर्मूर्च्छामुपागतः । भूयोऽपि चेतनां प्राप्तः सिक्तश्चन्दनवारिणा ॥ ६१ ॥ स्वस्थीभूय पुनः प्राह नारदं विस्मितो हरिः । पटस्था कस्य कन्येयं रूपिणी वद मेऽधुना ॥ ६२ ॥ विष्णुवाक्यं समाकर्ण्य नारदो निजगावमुम् । भीष्मकन्यामिमां विद्धि रुक्मिणीं भुवि विश्रुताम् ॥६३॥ कुण्डिकाख्यपुरं राजन् यदि त्वं यासि सत्वरम् । ततोऽहं ते प्रदास्यामि निश्चितं रुक्मिणीमिमाम् ॥ ६४ अवद्वारवचः श्रुत्वा बभाणेमं हरिः पुनः । शीघ्रं त्रयोऽपि गच्छामस्तत्समीपं महामुने ॥ ६५ ॥ योऽपि च समारुह्य विमानं कामगं तदा । तदुद्यानवनं प्रापुर्नानानोकुहसंकुलम् ॥ ६६ ॥ अथ सा रुक्मिणी प्राप तदुद्यानं सखीवृता । माधवीमर्चितुं व्याजान्नानायुधकरैर्नरैः ॥ 30 हरिर्ददर्श तां बालां वनदेवीमिवोर्वशीम् । कन्दर्पमिव तं साऽपि तोषमाप परस्परम् ॥ ६८ ॥ वासुदेवो विलोक्येमां तदुद्यानवने स्थिताम् । बभाण हृष्टचेतस्को वचसा विकसन्मुखः ॥ ६९ ॥ मच्चित्तलोचनानन्दे नीलोत्पलदलाम्बके । तूर्णमेहि विमानं मे पीनोन्नतघनस्तनि ॥ ७० ॥” ६७ ॥ 10 20 5 25 1 पफज चतुः कुलकमिदम्. 2 पफज युगलमिदम् 3 [ मन्मथं ]. 4 पफज चतुःकुलकमिदम्. 5 ज मद्य. 6 [ संगरोsयं ]. 7 पफज त्रिकलमिदम्. 8 ज नारदं. 9 पफज युगलमिदम्. 10 पफज युगलमिदम्. 11 [ अवधारवचः ] 12 पफज युगलमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566