Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 426
________________ - १०६. ११ ] उग्रसेनवसिष्ठकथानकम् २६७ जलकान्तविमानेऽसौ सौधर्मस्वर्गसंभवे । जातो महर्द्धिको देवो पञ्चपल्योपमस्थितिः ॥ ३१६ ॥ ततश्युतः पुनर्भूप चम्पाख्यनगरीभवः । इभ्यः श्रेष्ठिसुतो जातो भवदेवाभिधानकः ॥ ३१७ ॥ जैनं तपो विधायासौ भवदेवः समाधिना । सनत्कुमारकल्पेऽभूत् सप्तसागरजीवितः ॥ ३१८ ॥ सनत्कुमारतयुत्वा श्रीमदुञ्जयिनीभवः । राजन् बभूव मेदजः समस्तवणिजां पतिः ॥ ३१९ ॥ अच्युतेन्द्रोपदेशेन यतित्वं प्राप्य यत्नतः । सहित्वाऽङ्गारदेवस्य चोपसर्गं स केवली ॥ ३२० ॥ स्फटहस्तो' वणिग् यस्तु सोऽहं मेदजकेवली । अभूवं भूपते नूनं ज्ञाताखिलपदार्थकः ॥ ३२१ ॥ गरुडोपपदो दत्तो ज्यायान् मन्नन्दनोऽपि यः । सोऽयमङ्गारदेवोऽभूत् कृतसंसारहिण्डनः ॥३२२॥ रक्षन्निजधनं यत्नाद्दन्दशूकः स भूपते । हतो गरुडदत्तेन वैरं तेनावयोरभूत् ॥ ३२३ ॥ नागदत्तोऽपि मत्पुत्रो तपः कृत्वा जिनोदितम् । अच्युतेन्द्रो बभूवायं तेनाहं प्रतिबोधितः ॥ ३२४ ॥ जिनधर्मं समादाय नूनं नागवसूरियम् । देवलोकं परिप्राप्ता देवदेवीमनोहरम् ॥ ३२५ ॥ देवलोकात् समागत्य श्रीमदुज्जयिनीभवा | अधुनैषार्यिका जाता तिष्ठति प्रीतमानसा ॥ ३२६ ॥ श्रुत्वा केवलिनो वाक्यं वैरसंबन्धकारणम् । बभूव प्रीतचेतस्को गन्धर्वानीकभूपतिः ॥ ३२७ ॥ श्रुत्वा स्ववैरसंबन्धं संसारार्णवकारणम् । विहाय सकलं संगं वैराग्याहितमानसः ॥ ३२८ ॥ विधाय वन्दनां भक्त्या कृतनिन्दनगर्हणः । जग्राहाङ्गारदेवोऽयं तपः केवलिनोऽन्तिके ॥ ३२९॥ विधायाङ्गारदेवोऽपि तपः कालं समाधिना । अधो ग्रैवेयके मध्ये दिव्यामोदिविमानके ॥ ३३० ॥ 15 दिव्यरूपधरः श्रीमान् वस्त्राभरणभूषितः । चतुर्विंशत्समुद्रायुरहमिन्द्रो बभूव सः ॥ ३३१ ॥ च्युतोऽमुतो भवं प्राप्य कृत्वा जैनं तपः परम् । ध्रुवमङ्गारदेवोऽयं सिद्धिं प्राप्स्यति नीरजः ॥ ३३२ ॥ गन्धर्वानीकभूपोऽपि बहुभिर्नरकुञ्जरैः । तपो जग्राह जैनेन्द्रं तदा केवलिनोऽन्तिके ॥ ३३३ ॥ मेदज्जकेवली कृत्वा विहारं केवलस्य सः । पर्वते खड्गवंशाख्ये निर्वाणमगमत् पुनः ॥ ३३४ ॥ श्रीकलत्रपुत्रादिसहितस्पटहस्तकश्रेष्ठिकथानकम् ॥ १०५ ॥ ॥ इति * १०६. उग्रसेनवसिष्ठकथानकम् । 1 शूरसेनजनान्तेऽस्ति मथुरा नगरी परा । उग्रसेनो नृपस्तस्यास्तत्प्रया रेवती मता ॥ १ ॥ महाविनयसंपन्नौ प्रतापाक्रान्तशात्रवौ । कंसातिमुक्तकौ पुत्रौ भवेतामनयोः परौ ॥ २ ॥ जिनदत्तोऽभवत् तस्यां श्रावको दर्शनान्वितः । कान्ता जिनमती तस्य तन्मनोहरणक्षमा ॥ ३ ॥ अस्यैव श्रेष्ठिनो दिव्या हिता कर्मकरी तराम् । जिनेन्द्रभक्तिसंयुक्ता प्रियङ्गुलतिकाभिधा ॥ ४ ॥ सम्यग्दर्शनसंपन्ना जिनभक्तिपरायणा । रूपातिशयसंयुक्ता कलाविज्ञानकोविदा ॥ ५ ॥ नमितीर्थेऽन्यदा दिव्यमथुरां परमोदयाम् । वसिष्ठस्तापसः प्राप सितसौधविराजिताम् ॥ ६ ॥ पञ्चाग्याख्यं तपः सोऽयं यमुनाख्यनदीतटे । नानातरुकृतच्छाये स्वच्छपानीयराजिते ॥ ७ ॥ अग्निं प्रज्वाल्य संदीप्तं दिक्षु सर्वासु सादरम् । सूर्याग्निनाऽप्यसौ तप्तचोर्ध्वबाहुस्तपोऽकरोत् ॥ ८ ॥ अक्षसूत्रं जपन् वातं पिबन् लम्बजटाधरः । पञ्चाग्नितप्तदेहोऽसावेकपादस्थितो तपन् ' ॥ ९ ॥ तत्तापतप्तसर्वाङ्गो विह्वलीभूतमानसः । मीनोप्लुतिं विधायासौ पपात यमुनाहदे ॥ १० ॥ निमज्जनं विधायात्र प्रोत्तीर्यं यमुनाजलात् । भूयस्तपश्चकारेदं वसिष्ठोऽशिष्टभावनः ॥ ११ ॥ 1 [ स्पटहस्तो ] 2 पफ कुलकम् ज कुलकमिदम्. 3 पफ युग्मम्, ज युगलम्. 5 ज स्फट. 6 पफज put No. 104 7 [ स्थितस्तपन् ] 8 पफ प्रतीर्य. ज युगलम्. Jain Education International 4 पफ युग्मम्, For Private & Personal Use Only 5 10 20 25 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566