Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 424
________________ -१०५. २८१] हस्तकश्रेष्ठिकथानकम् अवाचि भभुजा साधुः पूर्वसंबन्धकारणम् । कथयाशु मम स्पष्टं येन संपद्यते सुखम् ॥ २४९ ॥ उक्त्वा तत्पूर्वसंबन्धं तदा पूर्व विधानतः । दिव्यरूपं निजं देवो दर्शयामास भूपतेः ॥ २५० ॥ देवरूपं समालोक्य ववंशस्थितिमेव च । जगाम विस्मयं राजा संसदा सह सादरम् ॥ २५१ ॥ दृष्ट्वाऽतिशयमीदृशं भूपो भूपजनान्वितः । मेदजश्रेष्ठिसामीप्यं जगाम सुकुतूहली ॥ २५२ ॥ तस्मिन् नरेश्वरे प्राप्त समस्तजनसंगते । देवो बभाण तद्वृत्तं वकीयं च यथाक्रमम् ॥ २५३ ॥ 'स्फटहस्तादिकं सर्वं मेदज्जस्य भवान्तरम् । स्वकीयं च जगौ देवो जनभूपालसाक्षिकम् ॥२५४॥ श्रुत्वा निजभवं श्रेष्ठी संसारत्रस्तमानसः । महावैराग्यसंपन्नो बभूव क्षणमात्रतः ॥ २५५॥ प्राचीनवज्रिणा श्रेष्ठी क्षीरोदजलपूरितैः । अष्टोत्तरशतैः कुम्भैः स्नापितः कानकैस्तदा ॥ २५६ ॥ मेदजोऽपि वपुत्रस्य श्रीदत्तस्य महात्मनः । श्रेष्ठिपट्ट बबन्धोच्चैस्तदानीं भूपसाक्षिकम् ॥२५७॥ राजादिकस्य लोकस्य कृत्वा त्रेधा क्षमापणम् । श्रीधर्मगुरुसामीप्ये मेदज्जोऽशिश्रियत् तपः ॥२५८॥ ० तिलकश्रीस्तथा साध्वी कीर्तिषेणासमन्विता । द्वात्रिंशच्छ्रेष्ठिसद्भार्याः सुव्रतान्ते प्रवव्रजुः ॥२५९॥ सिंहवाहनभूपालो विषवाहनसूनवे । दत्त्वा राज्यश्रियं सर्वां सामन्तादिपुरस्सरम् ॥ २६०॥ महावैराग्यसंपन्नः सामन्तान्तःपुरान्वितः । श्रीधर्मगुरुसामीप्ये दधौ दैगम्बरं तपः ॥ २६१॥ बन्धुकृत्यं विधायास्य यत्नेन महता भुवि । ययौ प्राचीनवज्री च कृतकृत्यो निजां दिवम् ॥२६२॥ अवगाह्य श्रुतं साधुर्मेदज्जः स्थिरमानसः । बभ्रामैकविहारी स समस्तवसुधातलम् ॥ २६३॥ 15 अन्यदा विहरन् क्वापि मेदज्जः स मुनिः क्रमात् । कौशाम्बीनगरी प्राप पताकावलिराजिताम् ॥२६४॥ अस्यां बभूव भूपालो गन्धर्वानीकनामकः । अङ्गारदेवनामास्य कलादः कुशलः क्षितौ ॥ २६५ ॥ मणिभिः पद्मरागाद्यैः स्वकरोद्योतिताम्बरैः । कुर्वन् मकुटमेतस्य भूपतेः स वितिष्ठते ॥ २६६ ॥ गृहमङ्गारदेवस्य रममाणो निजेच्छया । काकतालीययोगेन संप्रापच्च शिखाबलः ॥ २६७ ॥ गृहाट्टहान्तरं भ्राम्यन् मेदज्जाख्यो महामुनिः । तत्कलादगृहं प्राप प्रलम्बितभुजद्वयः॥ २६८॥ 20 दृष्ट्वा स्वगृहमायातं चर्यामार्गेण योगिनम् । मन्दं मध्याह्नवेलायां कलादो निष्टपान्मुनिः ॥२६९॥ अत्रान्तरे प्रभादीतं पद्मरागमणिं परम् । शिखी जग्राह तं गृह्णन् मुनिनाऽयं विलोकितः ॥२७०॥ यावदायाति वेगेन तं प्रदेशं मणीच्छया । तावदङ्गारदेवोऽपि न पश्यति मणि क्वचित् ॥ २७१॥ अपश्यंस्तं मणिं सोऽपि साधुं पृच्छति सत्वरम् । दृष्टो मणिस्त्वया क्वापि प्रदेशेऽत्र वद प्रभो ॥२७२॥ मुनिर्मौनव्रती भूयः पृष्टोऽनेन प्रपञ्चतः । सकुटुम्बोऽपि यास्यामि पञ्चतां मण्यभावतः ॥ २७३ ॥ 25 तस्माद्भूहि प्रयत्नेन गृहीतः केन तं मणिम् । कृत्वा प्रसादमुत्तुङ्गं त्वद्भक्तस्य मम प्रभो ॥ २७४॥ यदा पृष्टोऽप्ययं साधुन किंचिद्वक्ति मौनतः। तदा कोपेन तेनास्य कृता घातादिकाः क्रियाः ॥२७५॥ यष्टिघातं मुनेरस्य ददतः क्रूरचेतसः । मयूरगलसंलग्नस्तद्धातो दैवयोगतः ॥ २७६ ॥ ततो यष्टिप्रहारेण शिखाबलगलादरम् । पद्मरागमणिः सोऽयं निर्गत्य पतितो भुवि ॥ २७७॥ उपसर्गावसाने च तत्कलादगृहादरम् । अकृताहारसंबद्धो निर्जगाम स धीरधीः ॥ २७८॥ कौशाम्बीकापुरं लग्नं देवपादाभिधं गिरिम् । आरुरोह समुत्तुङ्ग मेदज्जाख्यो मुनिस्तदा ॥ २७९॥ यावजीवं विधायात्र शरीराहारपूर्वकम् । नियमं स मुनिर्धारः कायोत्सर्गेण तस्थिवान् ॥ २८०॥ एवं स्थित्वा मुनिस्तत्र क्षपकश्रेणिकारणात् । आद्यं पृथक्त्ववीचारं शुक्लध्यानं प्रविष्टवान् ॥२८॥ 1 [स्पटहस्तादिकं]. 2 पफ युग्मम् , ज युगलमिदम्. 3 ज°मायान्तं. 4 [ कलादोऽतिष्ठिपन्मुनिम् ]. 5 [केन सो मणिः]. 6 [°संबन्धो]. वृ. को. ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566