Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 409
________________ २५० हरिषेणाचार्यकृते बृहत्कथाकोशे [ १०२*२. ६ नकुलः कान्तवाक्येन तया कपिलया तदा । वृद्धिं नीतो विनीतात्मा तत्प्रेक्षणविधायकः ॥ ६ ॥ अन्यदा दैवयोगेन कपिलायां मनोरमः । बभूव नन्दनो रूपी स्वजनानन्ददायकः ॥ ७ ॥ बालकं मञ्चके सुप्तं विधाय नकुलस्य सा । समर्प्य कपिला याता नदीकूलं जलं प्रति ॥ ८ ॥ बभ्रुस्तं दारकं गेहे 'शून्यं यत्नपरस्तदा । ररक्ष प्रीतचेतस्को भ्रातृस्नेहपरायणः ॥ ९॥ • अत्रान्तरे गृहं सर्पः प्रविष्टो भीमविग्रहः । ' दृष्टो बालोऽमुना वेगात् पञ्चतामगमत् पुनः ॥ १० ॥ बभ्रुणागत्य वेगेन स सर्पोऽपि विपादितः । तद्बालमञ्चकस्याधो विहितो व्यवतिष्ठते ॥ ११ ॥ अथ सा ब्राह्मणी प्राप्ता स्वगेहं सुतवत्सला । मञ्चकस्थं शिशुं तत्र ददर्श मृतिमागतम् ॥ १२ ॥ मृतं तं बालकं दृष्ट्वा कपिला क्रुद्धमानसा । मुसलेन समाहत्य ममार नकुलं खला ॥ १३ ॥ बालमञ्चस्य मृतं भीमं भुजङ्गमम् । दम्पतिभ्यां परिज्ञातं बालो दष्टोऽमुना ध्रुवम् ॥१४॥ गुञ्जाफलसमानाक्षो भीमदंष्ट्रोऽलिविग्रहः । नकुलेनापि रुष्टेन निहतोऽयं भुजङ्गमः ॥ १५ ॥ पुत्रकल्पो मया बभ्रुरपरीक्षणशीलया । पुत्रवर्जितया कष्टं निहतो मन्दभाग्यया ॥ १६ ॥ पुत्रं सर्पहतं दृष्ट्वा नकुलं संनिपातितम् । बभूव सुमहद्दुःखं कपिलाया भुवस्तले ॥ १७ ॥ अस्याः श्रावक किं युक्तं कर्तुमीदृग्विचेष्टितम् । येन सर्पकृते दोषे नकुलो निहतोऽनया ॥ १८ ॥ अपरीक्षणशीलानां सहसा कार्यकारिणाम् । पश्चात्तापो भवत्येव जगति प्राणधारिणाम् ॥ १९ ॥ तथा चोक्तम्'अपरीक्षितं न कर्तव्यं कर्तव्यं सुपरीक्षितम् । 1 पश्चाद् भवति संतापो ब्राह्मणीनकुलं यथा ॥ २० ॥ श्रुत्वा मुनिवचः सत्यं जिनदत्तो जगावमुम् । विधातुं नाथ नो युक्तं धर्मेदं खलु योषितः ॥ २१ ॥ कथानकमिदं साधु विपश्चित्प्रीतिकारणम् । धर्मार्थानुगतं लोके युष्माभिः कथितं मम ॥ २२ ॥ " किं पुनर्मम योगीन्द्र सुरासुरनतक्रम । धर्मार्थसंगतं चारु कथानकमिदं शृणु ॥ २३ ॥ ॥ इति श्रीकपिलाब्राह्मणी निबद्धं जिनदत्तनिवेदितं मुनिकथानकम् ॥ [ १०२*२] ॥ * 10 18 १०२*३. वैद्यकथानकम् । 1 काशी जनपदे रम्ये वाणारस्यां पुरि प्रभुः । जितशत्रुः प्रिया चास्य रूपिणी कनकप्रभा ॥ १ ॥ 2• बभूवास्य नरेन्द्रस्य वैद्यः प्रेयान् महाधनः । धनदत्तः कलाधारो धनदत्ता च तत्प्रिया ॥ २ ॥ अनयोर्नन्दनौ स्यातां वैद्यशास्त्रपराङ्मुखौ । धनमित्रस्तयोरायो धनचन्द्रोऽपरो मतः ॥ ३ ॥ तत्ताते पञ्चतां प्राप्ते तज्जीवनमपि द्रुतम् । कुशलायान्यवैद्याय वितीर्णं जितशत्रुणा ॥ ४ ॥ तस्मिन्नपि हृते वैद्यौ तदेतौ द्वावपि द्रुतम् । चम्पकाख्यां पुरीं प्राप्तौ भ्रातरौ वैद्यकं प्रति ॥ ५ ॥ शिवभूत्याख्यवैद्यस्य समीपे भ्रातरौ तौ । समस्तं वैद्यकं ज्ञात्वा निवृत्तौ स्वगृहं प्रति ॥ ६ ॥ egesपात्रमिमं कक्षे पुण्डरीकं पथि स्थितम् । कनिष्ठो धनचन्द्राख्यो धनमित्रं जगाविति ॥ ७ ॥ व्याघ्रस्यास्यौषधं भ्रातर्ददामि परमोदयम् । कीर्तिर्धर्मोऽपि मे येन जीवितेऽस्मिन् प्रजायते ॥ ८ ॥ धनचन्द्रवचः श्रुत्वा धनमित्रो जगावमुम् । व्याघ्रसर्पादिसत्त्वानामुपकारो न शान्तये ॥ ९ ॥ 30 1 [ शून्ये ]. 2 [ दष्टो ]. 3ज कुलकमिदम्. 4 पफ निबद्ध 5 The Mss. do not put any numbers for these stories. I have treated them as sub-stories of 102, and added the numbers in square brackets. 6 पफ युग्मम् ज युगलमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566