Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 412
________________ - १०२*८. १८ ] सर्पकथानकम् २५३ तत्रत्यस्य नरस्यास्य भयविह्वलचेतसः । ततो जगाम सिंहोऽपि स्वनादापूरिताम्बरः ॥ ४ ॥ ततोऽनेन नरेणाशु दृष्ट्वा राजनरा वने । आहूतास्ते समायातास्तत्समीपं क्षणेन च ॥ ५ ॥ दृष्ट्वा समीपकान् यातान् पुरुषांस्तांस्तरोरधः । समुत्तीर्य ततो वृक्षाज्जगादेति किमागताः ॥ ६ ॥ श्रुत्वा तद्वचनं तेऽपि जगुस्तं खेदसंगताः । नृपभेरीनिमित्तार्थं पश्यामोऽत्र वने तरुम् ॥ ७ ॥ निशम्य तद्वचः सोऽपि बभाणैतान् पुरः स्थितान् । भेरी शिवनिवृक्षेऽत्र जायते भूपतेः परा ॥८॥ ततस्तद्वचनेनाशु तन्नरैस्तोषमागतैः । खण्डितः स तरुः शीघ्रं भूपभेरीनिमित्ततः ॥ ९ ॥ कण्ठीरवभयाद्भीमाद्येन वृक्षेण रक्षितः । कारापयितुमेतस्य छेदः किं युज्यते मुने ॥ १० ॥ जिनदत्तवचः श्रुत्वा बभाणेमं यतीश्वरः । इदं न युज्यते कर्तुं नरस्यास्य कुधीमतः ॥ ११ ॥ ॥ इति श्रीसिंहभयरक्षितशिवनितरुच्छेदोपदेशदायकपुरुषजिनदत्तमुनिनिवेदितचतुर्थकथानकमिदम् ॥ [ १०२*७] ॥ * १०२*८. सर्पकथानकम् । किंतु धर्मार्थसंयुक्तं महापुरुषसंमतम् । आकर्णयैकचित्तेन कथयामि कथानकम् ॥ १ ॥ विनीताख्यमहादेशे साकेतायां पुरि प्रभुः । चन्द्रभद्रोऽभवत् तस्य भार्यां चन्द्रमती शुभा ॥ २ ॥ शतानि पञ्च दाराणामस्य सन्ति महात्विषाम् । शक्रपत्नीसमानानां रूपसौभाग्यधारिणाम् ॥ ३ ॥ अनेन भूभुजा दिव्या नन्दनोद्यानमध्यगा । कारापिता महावापी स्वर्णसोपानराजिता ॥ ४ ॥ " हंसकारण्डचक्राह्वशकुन्तरवशोभना । पद्मेन्दीवरसंछन्ना जलकल्लोलसंकुला ॥ ५ ॥ तत्रत्यडिण्डुकैः सार्धं नानावर्णमनोहरैः । रमन्ते सरसं बाढं भूपालस्य पुरन्ध्रयः ॥ ६ ॥ अन्यदा रक्तलोलाक्षो लेलिहानोऽसितप्रभः । विवेश तां महावापीं लोलजिह्रो भयंकरः ॥ ७ ॥ दृष्ट्वा समागतं सर्पं जगौ तान् वृद्धडिण्डुकः । सर्वेऽपि मद्वचः सत्यं समाकर्णयतादरात् ॥ ८ ॥ अमुष्मात् सर्पतो वित्थ् विनाशो नो भविष्यति । तस्मादिमं द्रुतं क्रूरं निर्धाटयत सज्जनाः॥ ९ ॥ ” ततस्तद्वचनं सर्वैर्डिण्डुकैर्नाभिमतम् । सोऽपि मौनं समादाय तस्थौ चकितमानसः ॥ १० ॥ अत्रान्तरे नृपेणामा सर्वमन्तःपुरं द्रुतम् । अवतीर्णं जलक्रीडां विधातुं वापिकाले ॥ ११ ॥ तत्र डिण्डुकसादृश्यात् सर्पपोतोऽतिचञ्चलः । गृहीतोऽसौ महादेव्या पाणिना पद्मकान्तिना ॥१२॥ ततो गृहीतमात्रेण तेन सर्पेण कोपतः । करे दष्टा महादेवी मृता तद्विषयोगतः ॥ १३ ॥ वापीजलात् समुत्तीर्य दन्दशूकोऽपि वेगतः । ननाश क्वापि दुष्टात्मा भावि भद्रं हि जीवितम् ॥ १४॥ ततो नृपो रुषं प्राप्य महादेवीविनाशनात् । धीवरानादिदेशासौ डिण्डुकानां मृतिं प्रति ॥ १५ ॥ प्राध्वंकृत्य च जालेन डिण्डुकानखिलानरम् । भूपादेशेन ते जन्नुर्नियतिः केन लक्ष्यते ॥ १६ ॥ जिनदत्तनृपस्यास्य युक्तं किं कर्तुमीदृशम् । येन सर्पकृते दोषे डिण्डुका निहता बत ॥ १७ ॥ अनूचानवचः श्रुत्वा जिनदत्तोऽपि तं जगौ । न युक्तं डिण्डिकान् हन्तुं भूपस्यैवं निरागसः ॥ १८ ॥ ॥ इति श्रीजिनदत्तसाधुनिवेदितचतुर्थसर्पकथानकम् ।। [१०२*८] ॥ * 1 [ दृष्टा ]. 2 फ पराः. 3 पफ कुलकम् ज कुलकमिदम्. 5 पफ युग्मम् ज युगलमिदम्. 6 पफ कुलकम् ज कुलकमिदम्. Jain Education International For Private & Personal Use Only 10 4 पफ युग्मम् ज युगलमिदम्. 7 पफ चतुर्थ. 25 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566