Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 416
________________ - १०५.१९] हस्तकश्रेष्ठिकथानकम् २५७ जिनदत्तवचः श्रुत्वा नरेन्द्रोऽपि बभाण तम् । निर्दोषः सन् समादाय प्रतिमां याहि मन्दिरम् ||४३|| तद्वाक्यतः प्रणम्येशं जिनदत्तस्त्वरान्वितः । भूपसन्मानितो दृष्टो' जगाम निजमन्दिरम् ॥ ४४ ॥ ततः पिनाकगन्धस्य कुशीभिः सह तद्धनम् । स्वगेहं प्रापयामास स्वनरैर्नरकुञ्जरः ॥ ४५ ॥ तत्सुतादिकुटुम्बं च कृत्वा निगडसंयुतम् । कारागारे तरां भीमे स्थापयामास भूपतिः ॥ ४६ अथ पिनाकगन्धोऽपि पिप्पलग्रामतस्तदा । आगच्छन्नथ कंचित् तं पप्रच्छेति नरं सकः ॥ ४७ ॥ भो भो र गृहेऽस्माकं कुशलं किं न वा वद । सोऽपि तद्वाक्यतः प्राह कुशलं न गृहे तव ॥ ४८ ॥ कुशीदोषेण ते श्रेष्ठिन् गृहीतं सकलं धनम् । कुटुम्बं च घृतं राज्ञा त्वदीयं व्यवतिष्ठते ॥ ४९ ॥ निशम्य तद्वचः श्रेष्ठी स्वजङ्घायुगलं रुषा । चूर्णयित्वा सुपाषाणैर्निजपादयुगं तथा ५० ॥ कृतावासे तृतीयप्रस्तरे सकः । द्वाविंशतिसमुद्रायुर्जातो लल्लकनामनि ॥ ५१ ॥ ॥ इति श्रीषष्ठनरकसमुद्भावतृतीय प्रस्तरलल्लकनामधेयगमनद्वाविंशति सागरायुःस्थितिपरिग्रहपरायणपिन्नाकगन्धश्रेष्ठिकथानकमिदम् ॥ १०४ ॥ * १०५. हस्तकश्रेष्ठिकथानकम् । अङ्गाभिधमहादेशे पुरी चम्पाभिधा परा । अभग्नवाहनो राजा बभूवास्यां प्रजापतिः ॥ १ ॥ रूपिणी तत्प्रिया रम्या सुन्दरीकाभिधा प्रिया । पीनोन्नतकुचद्वन्द्वा पुण्डरीकनिभेक्षणा ॥ २ ॥ अस्यैव भूपतेः श्रेष्ठी बभूव धनसंयुतः । अलुब्धनामकोऽस्यापि भार्या नागवधूः परा ॥ ३ ॥ रूपयौवनसंपन्ना कलाविज्ञानकोविदा | अभूतां नन्दनौ साधू नन्दिताशेषबान्धवौ ॥ ४ ॥ गरुडोपपदो दत्तस्तयोर्ज्यायानभूत् सुतः । नागोपपदको दत्तः कनिष्ठोऽपि यथाक्रमम् ॥ ५ ॥ लुब्धश्रेष्ठी पुनः स्वार्णौ द्वौ हयौ द्वौ गजौ मृगौ । द्वौ यक्षौ द्वौ श्रियौ दिव्यौ विधाय स्वगृहे न्यधात् ॥६॥ कृत्वैकं वृषभं दिव्यं पद्मरागविनिर्मितम् । द्वितीयं तत्समं कर्तुं चक्रे यत्नमहर्निशम् ॥ ७ ॥ सप्तरात्रं जले बाढं सवाते पतति द्रुतम् । महाजलभरापूर्णां विवेशासौ सुरापगाम् ॥ ८ ॥ प्रासादस्थितया देव्या स्थितया सुरसं प्रति । काष्ठान्युत्तारयन् दृष्टो नक्तं गङ्गाजलादसौ ॥ ९ ॥ विलोक्येमं महादेवी गृह्णन्तं काष्ठसंचयम् । जगाद भूपतिं नक्तं विस्मयव्याप्तमानसम् ॥ १० ॥ पश्य पश्य प्रिय क्षिप्रं चित्रं गुरुतरं प्रभो । विद्यतेऽस्मत्पुरे कोऽपि महादारिद्रपीडितः ॥ ११ ॥ येशे घने देवे वर्षति दुःखितो नरः । कोऽपि गृह्णाति काष्ठानि गङ्गावाहव्यवस्थितः ॥ १२ ॥ - आहूयेमं प्रभातेऽस्मै प्रदेहि विविधं धनम् । येन दारिद्रपङ्केन स्पृश्यतेऽयं न जातुचित् ॥ १३ ॥ ' महादेवीवचः श्रुत्वा प्रभातसमये सति । आजुहाव नरैरेतं नराधीशः सभागतम् ॥ १४ ॥ 5 पफ 1 [ हृष्टो ]. 2 ज ' प्रस्तरक'. 3 पफज put No. 104. 4 ज चतुः कुलकमिदम्. omit No. 14. 6 [ तिष्ठसि ]. 7 पफ युग्मम्, ज युगलमिदम्. 8 पफ युग्मम्, ज युगलमिदम्. वृ० को० ३३ Jain Education International 10 खपुरवास्तव्यं श्रेष्ठिनं विहसन् मनाक् । जगाद विस्मितस्वान्तो भूपतिर्लुब्धवाणिजम् ॥१५॥ भो भो नर गृहाणेदं मदीयं विविधं धनम् । येन तिष्ठति संतुष्टो मदीये नगरे चिरम् ॥ १६ ॥ निशम्य भूपतेर्वाक्यं लुब्धश्रेष्ठी जगावमुम् । महताऽपि धनेनेश न कार्यं मे मनागपि ॥ १७ ॥ " किं तु मे विद्यते चैकोऽनाथनाथ हरिर्गृहे । तत्समं यदि देहि त्वं गृह्णाम्येतं तव स्फुटम् ॥१८॥ लुब्धश्रेष्ठीवचः श्रुत्वा भूपतिः प्राह तं पुनः । गत्वा मगोकुलं श्रेष्ठिन् गृहाण वृषभं परम् ॥ १९ ॥ For Private & Personal Use Only 15 20 www.jainelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566